________________
दर्शनशब्दस्योत्पत्तिव्यं त्पत्तिविशेषार्यश्च
दर्शनस्योद्भवः
भारतवर्षे आदिकालादेव 'अहम्, विश्वञ्चे' त्युभयोर्विषये व्यष्ट्या समष्ट्या च चिन्तनं चिरात्प्रवर्तितं सदद्यापि परिशील्यत एव । ऋषिभिरैहिक चिन्तां परित्यज्यात्मतत्वान्वेषण एव स्वशक्तेः प्रयोगो विहितः । अस्यैवान्वेषणस्य धुर्यामिदं जगच्चक्रं परिभ्रमत् तिष्ठति ।
प्राणिनः सामाजिकत्वात् स एकाकी स्थातुं न शक्नोति, अतएव स्वपार्श्ववतिभिः सह सम्बन्धं संस्थाप्य सर्वतो वातावरणं शान्तमपेक्षते । अथ च सोऽभिलषति, यत्कथं वयं रागद्वेषद्वन्द्व विरहिता भूत्वा निराकुलाः स्याम ? समाजे जगति च कथं सुखशान्तेः साम्राज्यं स्यात् ? आभ्य एव चिन्ताभ्यो समाजस्याने के प्रयोगा. निष्पन्ना अभवन्, भवन्ति, भविष्यन्ति च ।
निराकुलभावनायाः प्रबलेच्छयेदं विमर्शयितु मनुष्यः बाध्योऽभवद् यन्मनुष्यः कोऽस्ति ? किमयं जन्मतो मरणं यावत् प्रचलद् भौतिकं पिण्डमेव ? आहोस्वित् मरणानन्तरमप्यस्यास्त्यस्तित्वम् ? 'परं प्राचीनतमान्नुषीश्चात्मतत्त्वे विवदमानानपि यदा गोस्वर्णदासादीनां परिग्रहं कुर्वाणान् पश्यामस्तदायं प्रश्न उदेति 'यत्किमियमात्मचर्चा केवलं लौकिकप्रतिष्ठायाः साधनमेव ?' एतैरेव प्रश्नैरात्मजिज्ञासोत्पन्ना, जीवनसघर्षाच्चापाकृत्य समाजरचनाया आधारभूतानि तत्त्वानि प्रति मानवः प्रवर्तितः ।
एवं संस्कृतवाङ्मयस्य परिशीलनाज्जायते यद्दर्शनपदेन योऽर्थो दार्शनिविद्वद्भिर्वा स्वीकृतः, न स वैदिककालेऽवलोक्यते, यतो हि ते तु धर्मे, देववादे वैव विश्वस्ताः, यज्ञर्दानैश्चैवेहपरला कसुखाभिलाषिण आसन् । 'विश्वमिदं प्राक्कीदृशमासीत्, अस्यान्तः पश्चाद्वा काचित् शक्त्यप्यस्ति किम् ?' एतादृशाना विचाराणामाभासमात्र एव ऋग्वेदे', यजुर्वेदस्यान्तिमेऽध्याये चावलोक्यते । एते एव विचारा उपनिषत्काले दर्शन रूपेण विकासमुपगताः । सम्प्रति चैषां विभिन्न शाखा - सम्प्रदायात्मकं बाहुल्यमेव दरीदृश्यते
२५