________________
नाना प्राचीनतायाः ग्रन्थान्तरेषल्लेखः किंञ्च - हिन्दु - वेद-पुराण - धर्मशास्त्रप्रभृतिग्रन्थेष्वपि जैनधर्मस्य प्राचीनतायाः समर्थकानि, जैनसिद्धान्तानाम्, ऐतिहासिकपुरुषाणाञ्चोल्लेखानि विद्यन्ते। वर्तमाना ऐतिहासिकाः विद्वांसो आर्य धर्मसम्बन्धिनां वेदानां माधीनतां पञ्चशतोत्तरत्रिसहस्रवर्षात्मिकां स्वीकुर्वन्त्येव (३५००), किन्तु पदार्या अत्र समागतवन्त आसंस्तदात्रातिप्राचीनकालात्प्रचलितस्यास्य जैनधर्मस्याध्या त्मकतया पवित्रतया चैताशा प्रभाविता अभवन्, यद्वेदेषु, पुराणेषु स्मृतिषु च तद्रचनाकाले जैनतीर्थकराणा (धर्मगुरूणा) स्मरणं स्वीयया भक्त्या श्रद्धया वा समादरेण तैः कृतमासीत् । येषु धर्मशास्त्रादिग्रन्थेषु जैनसम्बन्ध्युल्लेखाः प्राप्यन्ते तेषामत्र विवरण नानुचितम्, अतः प्रदीयन्ते केषाञ्चन् ग्रन्थानामुद्धरणानि ।
श्रीमद्भागवतादिपुराणेषल्लेखः श्रीमद्भागवतस्य प्रथमे स्कन्धे चतुर्विशत्यवताराणा वर्णने ऋषभं सर्वाअमनमस्कृविशेषणेन स्मृतम्। द्वितीयस्कन्धे चास्य परमहंसस्वरूपवर्णनं विद्यते ।" पञ्च मे स्कन्धे तृतीयाध्याये ऋषभावतारवर्णने 'तस्मिन् यज्ञे ऋषीणां प्रसादतः, नाभेः राज्ञोऽभिलषितं पूरयितु, तस्य राज्या धर्म दर्शयितुमिच्छिन् दिगम्वरः, तपस्वी, ज्ञानी, नैष्ठिको ब्रह्मचारी, उर्ध्वरेता विष्णुः ऋषिभ्य उपदेष्टु, शुक्लदेहधारिणा ऋषभदेवेनावतरितम्' । अस्यैव स्कन्धस्य पञ्चमेऽध्याये ऋषभस्य ब्रह्मस्वरूपधारणस्येत्यं वर्णनं विद्यते-'ऋषभेण स्वीयं ज्येष्ठं पुत्र भरतं राज्यभारं समर्म्य, शरीरपरिग्रह संधाय केशलुञ्चनं कृत्वा ब्रह्मस्वरूपं धतम् अत्र केशलुञ्चनपदेन ज्ञायते यदनेन जैनश्रमणदीव गृहीता, यतो हि पद्धतिरियं जैनसाधुसाध्विष्वेव वर्तते, अन्यधर्मावलम्बिनस्तु दीक्षिते सति केशमुण्डनं, जटावर्धनं वैव कुर्वन्ति, न तु लुञ्चनम् । अस्यैव स्कन्धस्य षष्ठेऽध्यायेऽस्मै ऋषभाय महतादरेण नमस्कृतम् तथा चास्मिन्नेव स्कन्धे ऋषभपुत्रभरतनाम्ना भारतवर्षस्य नामकरणं स्पष्टम्-'शतपुष्वग्रजः, अतएव ज्येष्ठः, श्रेष्ठगुणश्च भरत आसीत्, तस्यैव नाम्नास्य देशस्य नाम भारतवर्षः, इति प्रचलितम् ।" मार्कण्डेयपुराणेऽप्यग्नीन्ध्रसूनोभि, नाभेः ऋषभस्य, ऋषभस्थ च शतपुत्रवरस्य वीरस्य भरतस्योल्लेखो विद्यते ।"
जैनवर्शन आरम-ब्यविवेचना