________________
स्वीक्रियते, तस्यायमेवाभिप्रायः स्यावत् जीवस्य तदीयं स्वरूपममहत्य, तस्य जीवत्वमेयाः विनाशोऽचीवरेण्याः प्रादुर्भावस्तथा च ज्ञानस्यापि जीवविरहात् निराश्रयात्मकत्वात् विनाशो भवतीति । अतएव जैननिस्यास्मनाविनाभावसम्बन्धः स्वीकृतः । अस्मात्कारणादेव मोक्षेऽप्यात्मा झस्वभावात्केवलमास्मन्येव विचरति ।
प्रकृतेर्भारो यदास्मना परित्यज्यते, तदा तदभारवियुक्तः सन् स्वभावत ऊर्वयमनात सिद्धानामन्तिकं लोकान्तमधिगच्छति । तदेतन्मोक्षावाप्त्यै यथार्थसत्तायां विश्वासः, संशयभ्रान्तिरहित यथार्थतत्वज्ञानम्, जगत: बाह्यपदार्थेषु रागद्वेषादिभावविरहितं माध्यस्थ्यरूपम् यथार्थाचरणञ्चेति जिनोपदिष्टानि त्रीण्येव रत्नानि समुदितानि मागंभूतानि।
जीवस्य नूनकर्मणा निरोधाय सदाचारः (सम्यक्चारित्रम्) आवश्यकः, सम्यग्दर्शनज्ञानयुक्तेऽप्यस्याभावे न जीवेन कथमपि मुक्ति: प्राप्या भवति । यदाच मुमुक्षुणा जीवेन सम्यग्दर्शनज्ञानमधिकृत्य मोक्षावाप्त्य सम्यगाचरणं विधीयते, तत्र क्रमशः सफलत्वमधिगच्छता श्रेण्यारोहण च विधास्यता यदा केवलत्वमुपलभ्यते, तत एव सः सांसारिकबन्धनात्सर्वथा विमुक्तो जायते, किन्तु जैनदर्शनानुसारेण यावत्पूर्वकर्मजन्यमायुष्कर्म न सर्वथा क्षयमधिगच्छति, तावद् देहयुक्त. सन्नत्रैव (जगति) सम्यगाचरणं पुष्टतरं विदधाति । तत्र केवलत्वाधिगतावस्थातः समारभ्य यावत्तेन न निर्वाणमुपलभ्यते, तावत्कालिकी तस्यावस्था मोक्षलाभे सत्यपि, सिद्धान्तिकत्वाभावात् नव स 'सिद्ध' इत्यपि वक्तु शक्यते, नापि च जगति स्थितावपि लब्धमोक्षोऽय 'जीव' इत्यप्यभिधातु शक्यते । अत एवेयमवस्था जैनदर्शने जीवन्मुक्तपदेनाभिहिता, येन ज्ञायते यदय जीवो मोक्षलाभे सत्यपि जगति स्थितः निर्वाण प्रतीक्ष्यमाणस्तिष्ठति । अन्ते च परमात्मत्वमधिगम्य निर्विकारो निरजनः सजायते।
प्रबन्धममुमत्रभवता समक्षमुपस्थापयितु सक्षमोऽह श्रीलालबहादुरशास्त्रि:केन्द्रीयसस्कृतविद्यापीठस्य (तदानी) निदेशकपदमलकुर्वता श्रद्धास्पदाना डा० श्रीमण्डनमिश्रमहोदयाना च स्नेहात्सरक्षणाच्च शोधच्छात्रवृत्तित्वं प्राप्तः, जनदर्शनविभागाध्यक्षाणा मान्याना डा०लालबहादुरशास्त्रिमहानुभावानां, सहजोदारप्रकृत्या तत्त्वबोधिन्या बुद्ध्या च मार्गनिर्देशने प्रबन्धप्रारूपविनिश्चयनात् पूर्णताप्राप्तिपर्यन्त साहाय्यमुपगतः, (सम्प्रति) शोधविभागीयप्रवाचकपदमलकुर्वता गुरु-मित्र कल्पानां डा० रुद्रदेवत्रिपाठिमहोदयाना, येभ्यो विविधानि ग्रन्थरत्नानि शोध-विषयसम्बद्धचर्चणफलितानि चावाप्तः, पुराणेतिहासव्याख्यातृणा (स्थानीय)सरक्षककल्पानामाचार्यश्रीरमेशचतुर्वेदाना, राजनीतिविषयव्याख्यातृणामग्रजकल्पानां श्रीसतीशकीलावतमहाशयानां शोधप्रबन्धस्य टङ्कणविधौ सौलभ्य प्राप्तः, विद्यापीठीयपुस्तकालयाध्यक्षाणामन्येषाञ्चाध्यापक-कर्मचारिवृन्दाना येषामत्र सहयोगोधिगतस्तेषां सर्वेषामपि चिरकृतज्ञोऽस्मि ।
प्रास्ताविकम्