________________
नानामयं दृढ़ो विश्वासः यद्विशुद्ध आत्मा, विशुद्धा प्रकृतिः, उभयोस्संयोगरूपश्च जीवः, एते त्रयोऽपि सत्पदार्था । पुद्गलस्कन्धं च यद्वयं प्रकृतिरूपं पश्यामश्चतन्यस्या. स्त्यत्राप्येकोऽशोऽतोऽत्र जीवाजीवयोः, आत्मनः (चैतन्यस्य) प्रकृतेर्वा न पृथगनुभवः शक्यः, द्वयोरपि परस्परं बन्धं प्रत्येकत्वात् । एवमत्र याथार्थ्येन वेतनाचेतनात्मके एव मूलभूते परस्परविरुद्ध तत्त्वे, तयोश्च जीवे चैतन्यस्यांशः, अजीवे चाचैतन्यस्यांशः प्राधान्येन विद्यते । इमावेवास्य सम्पूर्णजगतः द्वयोविभिन्नावस्थयोः प्रतिनिधिभूती।
(४) तथा चात्र जीवश्रेणीनां व्यवस्था आत्मनोऽनात्मनि (आत्मनः प्रकृती) __न्यूनाधिकप्रभावापेक्षिकवास्ति। अस्योदाहरणरूपेण जैनदर्शने-दिव्यजीवावस्थायां
(पवित्रात्मसु सिद्धेषु) यत्र न प्रकृते. (अजीवस्य) लेशमात्रोऽपि प्रभावोऽवशिष्टः, आत्मनोऽ नात्मनि सर्वतोऽधिक प्रभावो द्रष्टु शक्यते। निम्नतमावस्थायां च पदार्थान्वितोऽनात्मनोऽत्यधिकः प्रभावोऽवलोक्यते । यदा चात उपरि दृष्टिपातः क्रियते, तत एव वृक्षादिषु, कीटादिषु चात्मनोऽधिकोऽ शः, अनात्मनश्च सूक्ष्मोऽ शोऽवलोक्यते । एवं क्रमश अयमनात्मांशः यदा सर्वथा ह्रासमुपगतोऽवलोक्यते, तदेवात्मनो वास्तविक यथ.थं स्वरूपम् । एवमत्रात्मनो यत्स्वरूपमनात्मत्वेन सयुक्त तदेव जीवपदेनोच्यते, यच्च विशुद्ध मनात्मविरहितं तदेवात्मेति ।
(५) एवमय जीवश्चतन्ययुक्तः स्वभावत एवास्ति, आत्मनोऽ शप्राधान्यात् । तच्चेदं चैतन्य ज्ञानदर्शनद्वैविध्येनाभिव्यक्तं भवति । अत्र ज्ञान पदार्थाना सूक्ष्मविवरणयुक्तम्, दर्शनञ्च तद्विरहित सामान्यावबोधमात्रमेवार्थात् यत्र वस्तूना विशेषगुणप्रभावाधिक्यमेवास्ति, सूक्ष्मगुणग्रहणाभावात् 'तदेव दर्शन मिति'।
अत्र ज्ञानस्य तद्विषयस्य च पारस्परिकः सम्बन्धो भौतिकपदार्थेषु केवल बाह्य एवास्ति, यदा ह्यात्मचेतनाविषयकोऽयमेतद्भिन्नोऽर्थादाभ्यंतरिक एव तिष्ठति । जीवचेतना च सर्वदेव क्रियात्मकत्वात् प्रतिक्षण स्व परपदार्थाश्चापि प्रकाशयन्ती तिष्ठति यथा खलु प्रकाश' स्वपरप्रकाशकस्तथैवेद ज्ञानमपि स्वस्यान्येषामपि अभिव्यक्ति विदधाति । अनेन ज्ञायते यज्जनरत्र न्याय-वैशेषिकयोरयं सिद्धान्तः-यत् 'प्रकाशस्तु केवल स्वव्यतिरिक्तानेव पदार्थान् प्रकाशयति' इति न स्वीकृतः । य कमपि पदार्थमभिजानन्नात्मा स्वकमपि विजानाति । प्रत्येकमपीन्द्रियबोधे, ज्ञानक्रियायां वेदमुपलक्ष्यते'यदहमिदमनेन जानामि' । ज्ञानस्य पदार्थाभिव्यञ्जकत्वादेव स्वभावादिद कथन निरर्थकमेव यच्चतन्य कथमचेतन जडपदार्थ प्रकाशयति ? इति ।
अत्र ज्ञानज्ञेययो' (प्रमा-प्रमेययो.) सम्बन्धोऽत्यन्तसन्निकृष्टात्मकत्वादविभाज्यात्मक एवास्ति, एव ज्ञानस्य विषयी (प्रमाता), विषयः (प्रमेय),ज्ञानञ्चेति (प्रमा चेति) आत्मचैतन्यस्यैव पक्षभूतास्तिष्ठन्ति । यतो हि, यदि कश्चनापि जीवः ज्ञानविरहितः
जैनदर्शन आत्म-व्यविवेचनम्