________________
अतेन करनेन 'यवात्मनोऽनादित्वमनन्तरबचानण्णमेव, तथा च जगतः सर्वाः अपि पटनाः सत्तासमूहाना सम्मिश्रणपृथक्करणपरिणामा एवं' इत्यात्मोपक्रमस्य विनाश एव स्यादत एतदर्षमात्मनो नैतिकमुत्तरदायित्वमपि व्यर्थ स्यात् ।।
भाग्यवादिनां चेयं कल्पना-जगतः सर्वा अपि घटनाः प्रकृत्या निर्धारितपूर्वा एव सन्ति' इति नात्र जीवस्य पौरुषार्थ किञ्चिदपि स्थानं स्वीक्रियते । किन्चात्र नैतिकमूल्याङ्कनार्थमिदं स्वीकरणीयमेव स्याद्यत् प्रत्येकमपि जीवः स्वमस्मिन् जगत्युन्नतमपि कत्तं भमोऽथवावनतमपि विधातु समर्थः, यतो ह्यात्मनोऽस्त्यत्र स्वतत्रमस्तित्वम्, यत्स मुक्तावप्याक्षुण्ण्येन स्थापयितु शक्नोति ।
(२) सामान्येनात्र विद्यमानं सर्वमपि वस्तुजातं स्वरूपस्थितं नित्यमेवेति स्वीक्रियते । तदापि जीवो नित्य एव, तस्य जन्म, परिवर्तनमन्तो वा नास्तीति न स्वीकुर्वन्ति, यतो ह्येषां दृष्ट्या प्रत्येकमपि द्रव्यमुत्पद्यते विनश्यते । यथास्य जगतो न त्वादि प्यन्तस्तथाप्यस्त्यस्तित्वम् । यद्यपि सर्वाण्यपीमानि द्रव्याणि नवीनान् पर्यायान् गृहणन्ति पूर्वकालिकांश्च परित्यजन्ति, तथापि केषाञ्चन् गुणानामुभयत्रविद्यमानतया नूत्नप्राचीनयोरप्येकत्वमुच्यते । एवमत्र तदेव द्रव्यं यस्खलु स्वगुणानां परिवर्तने सत्यपि स्वीयां स्थिति न व्यत्येति । एवमिदमेकं गतिशीलं याथायमीदशी' सत्ता वा द्रव्यम्, या प्रतिक्षणं पतिवर्तिता तिष्ठति ।
अत्रास्य दर्शनस्य बहवोऽशा सांख्यदर्शनेन साम्यं भजन्ते। इमे द्वे एव प्रकृतेरनाद्यनन्तत्वं स्वीकृत्य जगतः नैरन्तर्ये विश्वस्ते स्तः । अनयोयोद्वैतवादेऽयमेव विशेषः यत्सांख्यास्तावत् जगतः प्राणिनाञ्च विकास प्रकृतिपुरुषयोः सम्पन्नमामनन्ति यदा हि जैना एतस्य विकासस्य हेतुरूपेण केवलां प्रकृतिमेवा'भिदधन्ति ।
किञ्चात्मनो क्रियाशीलत्वे जनसिद्धान्तस्य साख्यापेक्षया न्यायवैशेषिकाभ्यामधिक साम्य, यतो हि सांख्यास्तु केवल जगतः साक्षिरूपेणव आत्मानं स्वीकुर्वन्ति । अतएवात्मनः कर्तृत्वे, कार्यकरणात्मकत्वे चानयोर्मतभेद एवावलोक्यते ।
(३) जैनदर्शने प्रकृतिबन्धनान्मुक्तो जीव एव आत्मेति अभिहितः । अर्थात् प्राकृतिकमलविरहिता विशुद्धचेतनवात्मेति । सेयं चेतना सर्वथा बाह्यरूपात् पृथक शुद्धाध्यात्मिकास्पदोन्नताकृतिविहीनं चैतन्यमात्रमेव । पुद्गलश्चाप्यत्र न केवल चेतनारहितः विशुद्धो भौतिकः सन् प्रकृतिरूपो विद्यतेऽपिस्वस्मिन्नपि पूर्वत आत्मना संश्लिष्टत्वादात्मनोऽस्तित्वमस्ति । एवमत्र जीविता सत्ता-आत्मा, प्रकृतिश्चासत्तत्वस्य निषेधात्मिका, जीवश्चोभयोस्संयोगरूपः भौतिक, आध्यात्मिकश्चास्ति।
१. सूत्रकृताङ्गसूत्रम्-प्रथम १११,१५॥ द्वि०.१०२२-२४॥ २. पंचास्तिकाय: ६,०,६,११॥ ३. The way to Nirvan P.67 ४. Outlines of Jainism P.77
प्रास्ताविकम