________________
श्रीमतां डा० भण्डनमिश्रमहोदयानां विद्यापीठजनकानामिव 'कुमार्गनिवारणसुमार्गसंयोजनात्मकं संरक्षणञ्चाधिगतेन मया सोत्साहं शोधकार्यावधिः समनुष्ठितः ।
अत्रास्मिन् शोधकार्यकाले समुपलब्धपारिवारिकवातावरणः,प्रमादवादनधिगतापेक्षितसाहित्यसाधनः, अदत्तापेक्षितकालः, विविधैर्विद्वद्भिरसम्बन्धितसम्बन्धश्चापि, यथासमुपलब्धसाहित्येन स्थानीयविद्वदभिश्च स्थापितसम्बन्धोऽहं शोधप्रबन्धममुमत्रभवता समक्षमुपस्थातु सक्षमोऽभवम् ।।
सप्ताध्यायात्मकेऽस्मिन् शोधप्रबन्धे मया प्रथमेऽध्याये दर्शनानां सामान्यपरिचये जैनदर्शनस्य प्राचीनत्वसाधिका आस्तिकत्वनास्तिकत्वविमर्शिकाश्च युक्ती: सविशेष समुपस्थाप्य, द्वितीयेऽध्याये-जैनदर्शनस्य सामान्यपरिचयेन द्रव्यव्यवस्थाया आपेक्षिकमहत्वेन साकमेव द्रव्याणां विवेचने धर्मद्रव्यस्यानन्यभूतस्य विशिष्टं विवेचनम्, द्रव्यव्यवस्थायाः विवेचकस्य स्याद्वादस्य, तद्वाचकानां च सप्तभंगानां नयद्वारेण विश्लेषणं विधाय, तृतीयेऽध्याये-शोधप्रबन्धस्यास्य विषयभूतस्यात्मनो सामान्य-विशेषगुणानां विश्लेषणानन्तरमात्मनः संसारिरूपाणामनेकभेदानामपि तदङ्गत्वात् विस्तरभयात् संक्षेपर्णव केवलं नाममात्र निर्दिश्य चतुर्थेऽध्याये परिगणनं विधाय, पंचमेऽध्याये बन्धस्यलक्षणभेदनिर्देशनान्ते, बन्धप्रक्रियायाः हेतुभूतानां मिथ्यादर्शनादीनां बन्धविधिस्तविनाशक्रमश्च चतुर्दशगुणस्थानक्रमरूपेण विश्लेष्य, षष्ठेऽध्याये-मोक्षस्य, तन्मागंभूतानां सम्यग्दनिज्ञानचारित्राणां, तज्जन्यकृत्स्नकर्मविप्रमोक्षं मोक्षं तद्युक्तानां च मुक्तात्मनां स्वरूपं निर्दिश्यान्तिमेऽध्याये जैनेतरदर्शनानामात्मसिद्धान्त. सह समालोचनञ्चापि कृत विद्यते ।
संस्कृतवाङ्मये सन्ति बहूनि दर्शनानि, परं तेषु भिन्नबुद्ध्यात्मकत्वात् वैभिन्न्य स्पष्टमवलोक्यतेऽतो जैनदर्शनस्याप्यन्येभ्यो भेदः स्वाभाविक एव । तत्र सन्त्यस्यानेके विशेषाः, यैरहमस्मिन् शोधकार्यार्थ प्रेरितस्ते च यथा
(१) भारतीयदर्शनेषु येषु नैतिकमुत्तरदायित्वं जीवस्यानपेक्षितमवलोक्यते, तस्य मोक्षे निर्णायकत्वात् जैनरस्य सिद्धान्तस्य प्राधान्य स्वीकृतम् । ईश्वरेणव सृष्टेरुत्पादकत्वस्य, असत: (ब्रह्मणः) सद्रूपस्यास्य जगतः सृष्टेश्च सिद्धान्तानामालोचनस्यात्रायमेवाभिप्रायो विद्यते, यदेते सिद्धान्ताः न तु दुःखेभ्यः, नापि तदुत्पत्तितश्च मोक्षदायका: सन्ति । नैतिकदृष्ट्या ‘पञ्चभूतानां सम्मेलनादेव बुद्धिसम्पन्नं चैतन्यमुत्पद्यते' इति सिद्धान्तोऽयं तथैव निरर्थकः, यथा खल्वेकस्मात् यस्मात्कस्मात् वा बुद्धिसम्पन्नात् (ब्रह्मणः) सृष्टेर्नानात्वस्य कल्पन' निरर्थकम् । आत्मनो निष्क्रियत्वे स्वीकृते सति नैतिकविभेदस्य महत्वमपि न तिष्ठति ।
१. सूत्रकृताङ्गसूत्रम्-प्रथम-११, ३, ५-६॥ -२. सूत्रकृताङ्गसूत्रम्-प्रथम ११, ७-१०।११-१२ द्वितीय १११६,१७॥ १८
जैनवर्शन आत्म-व्यविवेचन