________________
प्रास्ताविकम्
सुरभारतीसमुपासकानां शेमुषीमतामत्रभवतां समक्षं शोधप्रबन्धमिमं समुपस्थाप्य समुत्सारितगुरुभार इव सञ्जातोऽस्मि । सम्प्रत्यपि स्मर्यते तद्दिनं, यत्र वाराणसेय संस्कृतविश्वविद्यालयस्य जैनदर्शन प्राध्यापक पदमलङ्कुर्वतां श्रीमताममृतलालर्जनमहानुभावानां समक्ष जैनदर्शनमधिकृत्य शोधकार्यकरणार्थं वचनप्रदानेनाधिगृहीतभारोऽभवम् ।
द्विषष्ट्युत्तरैकोनविंशतिशततमे ( १९६२ ई०) खिष्ट्रान्दे झांसी मण्डलान्त: मऊरानीपुरस्थश्रीरामकृष्णसंस्कृतविद्यालयादुत्तरमाध्यमिकपरीक्षामुत्तीर्य, वाराणसेम्संस्कृतविश्वविद्यालये मुख्यविषयत्वेन नव्यव्याकरणमुपविषयत्वेन च फलितज्योतिषaftaara शास्त्रिप्रथमवर्षे पिपठिषुरहमेकदा स्वमित्रेण सह विश्वविद्यालयीयजैनदर्शनप्राध्यापक श्रीमदमृतलालजैनसकाशं समागत्य, समुपलब्धानायासस्नेहत्वात् समारब्धसत्सयनैरन्तर्यस्तेषां प्रेरणयोपविषयत्वेन गृहीतफलितज्योतिषस्थाने जैनदर्शनमधिकृत्य, शास्त्रिपरीक्षाञ्च प्रथमश्रेण्यामुत्तीर्याचार्यकक्षायामपि जैनदर्शन विषयाधिग्रहणाभिलाषी सञ्जातः ।
तत्र विश्वविद्यालयीय नियमातिक्रमणभिया व्याकरणविषयपरित्यागे प्रदत्तानुकम्पानां व्याकरणविभागाध्यक्षाणां श्रीमुरलीधर मिश्रमहोदयाना, विषयपरिवर्तनविधौ च समुत्तीर्णव्याकरणशास्त्रिपरीक्षस्य मम जैनदर्शनग्रहणाधिकाराभावेऽपि विशेषाधिकारेण प्रदत्ताशिषा तात्कालिकोपकुलपतिपदमलङ्कुर्वतां महामान्यानां श्रीमता सुरतिनारायणमणित्रिपाठि महोदयानाञ्च यदनुकम्पया जैनदर्शनाचार्य परीक्षामपि प्रथमश्रेण्यामुत्तीर्य जैन दर्शनविभागे सर्वतोऽधिकानङ्काश्चावाप्य लब्धस्वर्णपदकः चिरकृतज्ञोऽस्मि ।
ततश्चानुसन्धित्सुरपि पारिवारिक परिस्थितिवशाद्वाराणसीभगत्वा, मऊ रानीपुरस्थश्रीलक्ष्मणदासदमेले (इण्टर कालेज) उच्चतर माध्यमिक विद्यालये समुपलब्धाध्यापनकार्यभरेण, विश्वविद्यालयीयानुसन्धानसंचालकः श्रीमद्भिर्बलदेवोपाध्यायंरध्यापनेन साकमेवा,नुसन्धातुमनुमतेनापि, देश-काल- वातावरणपरिज्ञानेच्छ्या विद्यापीठीयशोधच्छात्रवृत्तिमुप- लब्धवताध्यापनाद्विरम्याष्टषष्ट्युत्तरं कोनविंशतिशततमखिष्टाब्दीयसितम्बरमासस्य चतुर्दशाद्दिवसात्, भारतराजधानीमनुसन्धानक्षेत्रत्वेनोद्दिश्यास्मिन् विद्यापीठे समागतेन विद्यापीठीयव्याख्यातृणां परमादरणीयाना डा० लालबहादुरशास्त्रिमहोदयानां शास्त्रीये व्यावहारिके च पथिप्रदर्शकत्वे, शोध-स्नातक-परिषदः सचिवत्वेन च विद्यापीठीयविद्ववृन्दानामाशिषम्, कार्यालयाधिकारिणां सुबहसहयोगम्, सहवगणां च हार्दिकीं सहानुभूतिमथ च परमादरणीयानां परिषदः संरक्षकानां निदेशकपदमलङ्कुर्वतां तत्रभवतां
n/