Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai

View full book text
Previous | Next

Page 8
________________ [ २ ] ऽधिपतिः ऋषिमेघजीनामा स्वकीयमताऽऽधिपत्यं दुर्गतिहेतुरिति मत्वा रज इव परित्यज्य पञ्चविंशतिमुनिभिः सह सकलराजाधिराजपाति साहिश्री अकब्बरराजाज्ञापूर्वकं तदीयाऽऽतोद्यवादनादिना महामहपुरस्सरं प्रव्रज्य यदीयपादाम्भोज. सेवापरायणो जातः । एतादृशं च न कस्याप्याचार्यस्य श्रुतपूर्वम् । किञ्च । येषामशेषसंविग्नसूरिशेखराणामुपदेशात् सहस्रशो गजानां, लक्षशो वाजिनां, गूर्जर - मालवविहार-अयोध्या-प्रयाग - फतेपुर - दिल्ली - लाहुर - मुलतान - क्याबिल - अजमेर-बङ्गालायभिधानानामनेकदेशसमुदायात्मकानां द्वादशसूबानां चाधीश्वरो महाराजाधिराजशिरःशेखरः पातिसाहिश्रीअकब्बरनरपतिः स्वकीयाऽखिलदेशेषु षाण्मासिकामारिप्रवर्त्तनं जीजीयाsभिधानकरमोचनं च विधाय सकललोकेषु जाग्रत्प्रभावभवनं श्रीमजिनशासनं जनितवान् । तद्व्यतिकरो विस्तरतः श्रीहीरसौभाग्यकाव्यादिभ्योऽवसेयः । समासतस्त्वेवम् - एकदा कदाचित्प्रधानपुरुषाणां मुखवार्सया श्रीमद्गुरूणां निरुपमशमदमसंवेगवैराग्यादिगुणगणश्रवणतश्चमत्कृतचेतसा पातिसाहिश्री अकब्बरेण खनामाङ्कितं फुरमानं प्रेष्याऽतिबहुमानपुरस्सरं गन्धारबन्दिरात् दिल्लीदेशे आगराख्यनगरासन्नश्री फतेपुरनगरे दर्शनकृते समाकारिताः सन्तोऽनेकभव्यजनक्षेत्रेषु बोधिबीजं वपन्तः श्रीगुरवः क्रमेण विहारं कुर्वाणाः विक्रमत एकोनचत्वारिंशदधिकषोडशशतवर्षे १६३९ ज्येष्ठबहुलत्रयोदशीदिने तत्र संप्राप्ताः । तदानीमेव च तदीयप्रधानशिरोमणिशेषश्रीअबलफजलाख्यद्वारा उपाध्यायश्रीविमलहर्षगणिप्रभृत्यनेकमुनिनिकरपरिकरिताः श्रीसाहिना समं मिलिताः । तदवसरे च श्रीमत्साहिना _सादरं खागतादि पृष्ट्वा, स्वकीयास्थानमण्डपे समुपवेश्य च परमेश्वरस्खरूपं, धर्मखरूपं च कीदृशं कथं च परमेश्वरः प्राप्यत इत्यादिधर्मगोचरो विचारः प्रष्टुमारेभे । तदनु श्रीगुरुभिरमृतमधुरया गिराऽष्टादशदोषविधुरपरमेश्वरपञ्चमहाव्रतखरूपनिरूपणादिना तथा धर्मोपदेशो ददे यथा आगराद्रङ्गतोऽजमेरनगरं यावदध्वनि प्रतिक्रोशं कूपिकोपेतमनारान्विधाय स्वकीयाखेटककलाकुशलताप्रकटनकृते प्रतिमनारं शतशो हरिणविषाणारोपणविधानादिना प्राग् हिंसादिकरणरतिरपि स भूपतिर्दयादानयतिसङ्गतिकरणादिप्रवणमतिः सञ्जातः । ततोऽतीवसन्तुष्टमनसा श्रीसाहिना प्रोक्तम् । यत् पुत्रकलत्रधनस्वजनदेहादिषु निरीहेभ्यः श्रीमद्भ्यो हिरण्यादिदानं न युक्तिमत् । अतो यदस्मदीयमन्दिरे पुरातनं जैनसिद्धान्तादिपुस्तकं समस्ति, तल्लात्वाऽस्माकमनुग्रहो विधेयः । पश्चात् पुनः पुनराग्रहवशात् तत्समादाय श्रीगुरुभिः आगराख्यनगरे चित्कोशतयाऽमोचि । तत्र साधिकप्रहरं यावद्धर्मगोष्टीं विधाय श्रीमत्साहिना समनुज्ञाताः श्रीगुरवो महताडम्बरेण उपाश्रये समाजग्मुः । ततः सकलेऽपि लोके प्रवचनोन्नतिः स्फीतिमती सञ्जाता । वर्षे आगराख्यनगरे चतुर्मासककरणानन्तरं सौरीपुरे श्रीनेमिजिनयात्राकृते समागतैः

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46