Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai
Catalog link: https://jainqq.org/explore/002309/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ रेयगाथा ००००००००००0000000000000000000000 જ્ઞાન ખંતન ફિ ન્યૂ સોયેય " पाती धर्मशण महावा. अहम् श्रीयशोविजयजैनग्रन्थमाला [१४] श्रीपद्मसागरगणिविरचितम् 300000000000000000000000000000000000000000000000000000000000000000000000 जगद्गुरुकाव्यम्। 000000000000000000000000000000000000000000000000000000000000000 Registered Under Sections 18 and 19 of Act XXV of 1867. Reशास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरि पादाम्भोजचञ्चरीकायमाणाभ्यां पं-हरगोविन्ददास-बेचरदासाभ्यां संशोधितम् । punea Published by Shah Harakhchand Bhurabhai Benares. Printed by Gauri Shanker Lal at the Chandraprabha Press, Benares City. 00009nd मूल्यम् ॥ ollo 0000000 Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ अर्हम् श्रीयशोविजयजैनग्रन्थमाला [१४] श्रीपमसागरगणिविरचितम्जगद्गुरुकाव्यम्। शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरि पादाम्भोजचश्चरीकायमाणाभ्यां पं-हरगोविन्ददास-बेचरदासाभ्यां संशोधितम् । Published by Shah Harakhchand Bhurabhai Benares. Printed by Gauri Shanker Lal at the Chandraprabha Press, Benares City. मूल्यम् ॥ Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ i Shastra Visharada Jainacharya Shri Vijaya Dharma Suri (Jain High-Priest.) Page #6 --------------------------------------------------------------------------  Page #7 -------------------------------------------------------------------------- ________________ ॥ प्रस्तावना अस्य खण्डकाव्यस्य कर्तारः श्रीपद्मसागरगणयः सुप्रतीता एव जैनानाम् । एतेषां सत्तासमयो जगद्गुरुश्रीहीरविजयसूरिसमान एवेत्यस्यैव काव्यस्य समूलचूलमालोकनतः, "चक्रे शास्त्रमिदं यत्नात् त्र्यग्निषट्चन्द्रवत्सरे। पद्मसागरसंज्ञेन घुधेन खात्मबुद्धये" ॥ ४ ॥ इत्येतैरेव विक्रमात् १६३३ संवत्सरे विरचितस्य स्वोपज्ञटीकासहितस्य श्रीनयप्रकाशाष्टकस्यान्तिमभागतश्च निःसन्दिग्धं व्यक्तीभवति । एभिर्ग्रन्थकर्तृभिः अन्येऽपि शीलप्रकाश-युक्तिप्रकाश-तट्टीकाश्रीउत्तराध्ययनकथासंग्रहादयोऽनेके ग्रन्था निरमायिषत । यैायसाहित्यादिविषयेषु तेषां अपूर्वा प्रतिभाशालिता स्पष्टमाविर्भवति । ____ काव्यस्यैतस्य नायकानां श्रीहीरविजयसूरीणां इतिहासोपयोगि अधिकं वृत्तान्तं पाठकानामावश्यकं मत्वा महोपाध्यायश्रीधर्मसागरगणिनिर्मिततपागच्छपट्टावलीतोऽत्रोध्रियते___ " श्रीविजयदानसूरिपट्टेऽष्टपञ्चाशत्तमाः श्रीहीरविजयसूरयः । किविशिष्टः संप्रति तपागच्छे आदित्यसदृशास्तदुद्द्योतकत्वात् । तेषां विक्रमतः त्र्यशीत्याधिके पञ्चदशशतवर्षे १५८३ मार्गशीर्षशुक्लनवमीदिने प्रहादनपुरवास्तव्य-ऊकेशज्ञातीयसा-कुंराभार्यानाथीगृहे जन्म । षण्णवत्यधिके १५९६ कार्तिकबहुलद्वितीयायां २ पत्तननगरे दीक्षा । सप्ताऽधिके षोडशशतवर्षे १६०७ नारदपुर्यो श्रीऋषभदेबप्रासादे पण्डितपदम् । अष्टाधिके १६०८ माघशुक्लपश्चमीदिने नारदपुर्यो श्रीवरकाणकपार्श्वनाथसनाथे श्रीनेमिनाथप्रासादे वाचकपदम् । दशाधिके १६१० सीरोहीनगरे सूरिपदम् । तथा येषां सौभाग्यवैराग्यनिःस्पृहतादिगुणश्रेणेरेकमपि गुण बचोगोचरीकर्तुं वाचस्पतिरप्यचतुरः । तथा स्तम्भतीर्थे येषु स्थितेषु तत्रत्यश्रद्धालुभिः टङ्ककानामेका कोटिः प्रभावनादिभिर्व्ययीकृता । येषां चरणविन्यासे प्रतिपदं सुवर्णटकरूप्यनाणकमोचनं, पुरतश्च मुक्ताफलादिभिः स्वस्तिकरचनं, प्रायसदुपरि च रौप्यकनाणकमोचनं चेत्यादि संप्रत्यऽपि प्रत्यक्षसिद्धम् । यैश्च सीरोwो श्रीकुन्थुनाथबिम्बानां प्रतिष्ठा कृता । तथा नारदपुर्यामनेकानि जिनबिम्बानि प्रतिष्ठितानि । तथा स्तम्भतीर्थाऽहम्मदावादपत्तननगरादौ अनेकटङ्कलक्षव्ययप्रकृयभिरनेकाभिः प्रतिष्ठाभिः सहस्रशो बिम्बानि प्रतिष्ठितानि। येषां च विहारादौ युगप्रधानसमानातिशयाः प्रत्यक्षसिद्धा एव । तथाऽहम्मदावादनगरे लुङ्कामता Page #8 -------------------------------------------------------------------------- ________________ [ २ ] ऽधिपतिः ऋषिमेघजीनामा स्वकीयमताऽऽधिपत्यं दुर्गतिहेतुरिति मत्वा रज इव परित्यज्य पञ्चविंशतिमुनिभिः सह सकलराजाधिराजपाति साहिश्री अकब्बरराजाज्ञापूर्वकं तदीयाऽऽतोद्यवादनादिना महामहपुरस्सरं प्रव्रज्य यदीयपादाम्भोज. सेवापरायणो जातः । एतादृशं च न कस्याप्याचार्यस्य श्रुतपूर्वम् । किञ्च । येषामशेषसंविग्नसूरिशेखराणामुपदेशात् सहस्रशो गजानां, लक्षशो वाजिनां, गूर्जर - मालवविहार-अयोध्या-प्रयाग - फतेपुर - दिल्ली - लाहुर - मुलतान - क्याबिल - अजमेर-बङ्गालायभिधानानामनेकदेशसमुदायात्मकानां द्वादशसूबानां चाधीश्वरो महाराजाधिराजशिरःशेखरः पातिसाहिश्रीअकब्बरनरपतिः स्वकीयाऽखिलदेशेषु षाण्मासिकामारिप्रवर्त्तनं जीजीयाsभिधानकरमोचनं च विधाय सकललोकेषु जाग्रत्प्रभावभवनं श्रीमजिनशासनं जनितवान् । तद्व्यतिकरो विस्तरतः श्रीहीरसौभाग्यकाव्यादिभ्योऽवसेयः । समासतस्त्वेवम् - एकदा कदाचित्प्रधानपुरुषाणां मुखवार्सया श्रीमद्गुरूणां निरुपमशमदमसंवेगवैराग्यादिगुणगणश्रवणतश्चमत्कृतचेतसा पातिसाहिश्री अकब्बरेण खनामाङ्कितं फुरमानं प्रेष्याऽतिबहुमानपुरस्सरं गन्धारबन्दिरात् दिल्लीदेशे आगराख्यनगरासन्नश्री फतेपुरनगरे दर्शनकृते समाकारिताः सन्तोऽनेकभव्यजनक्षेत्रेषु बोधिबीजं वपन्तः श्रीगुरवः क्रमेण विहारं कुर्वाणाः विक्रमत एकोनचत्वारिंशदधिकषोडशशतवर्षे १६३९ ज्येष्ठबहुलत्रयोदशीदिने तत्र संप्राप्ताः । तदानीमेव च तदीयप्रधानशिरोमणिशेषश्रीअबलफजलाख्यद्वारा उपाध्यायश्रीविमलहर्षगणिप्रभृत्यनेकमुनिनिकरपरिकरिताः श्रीसाहिना समं मिलिताः । तदवसरे च श्रीमत्साहिना _सादरं खागतादि पृष्ट्वा, स्वकीयास्थानमण्डपे समुपवेश्य च परमेश्वरस्खरूपं, धर्मखरूपं च कीदृशं कथं च परमेश्वरः प्राप्यत इत्यादिधर्मगोचरो विचारः प्रष्टुमारेभे । तदनु श्रीगुरुभिरमृतमधुरया गिराऽष्टादशदोषविधुरपरमेश्वरपञ्चमहाव्रतखरूपनिरूपणादिना तथा धर्मोपदेशो ददे यथा आगराद्रङ्गतोऽजमेरनगरं यावदध्वनि प्रतिक्रोशं कूपिकोपेतमनारान्विधाय स्वकीयाखेटककलाकुशलताप्रकटनकृते प्रतिमनारं शतशो हरिणविषाणारोपणविधानादिना प्राग् हिंसादिकरणरतिरपि स भूपतिर्दयादानयतिसङ्गतिकरणादिप्रवणमतिः सञ्जातः । ततोऽतीवसन्तुष्टमनसा श्रीसाहिना प्रोक्तम् । यत् पुत्रकलत्रधनस्वजनदेहादिषु निरीहेभ्यः श्रीमद्भ्यो हिरण्यादिदानं न युक्तिमत् । अतो यदस्मदीयमन्दिरे पुरातनं जैनसिद्धान्तादिपुस्तकं समस्ति, तल्लात्वाऽस्माकमनुग्रहो विधेयः । पश्चात् पुनः पुनराग्रहवशात् तत्समादाय श्रीगुरुभिः आगराख्यनगरे चित्कोशतयाऽमोचि । तत्र साधिकप्रहरं यावद्धर्मगोष्टीं विधाय श्रीमत्साहिना समनुज्ञाताः श्रीगुरवो महताडम्बरेण उपाश्रये समाजग्मुः । ततः सकलेऽपि लोके प्रवचनोन्नतिः स्फीतिमती सञ्जाता । वर्षे आगराख्यनगरे चतुर्मासककरणानन्तरं सौरीपुरे श्रीनेमिजिनयात्राकृते समागतैः Page #9 -------------------------------------------------------------------------- ________________ [ ३ ] श्रीगुरुभिः पुरातनयोः श्रीऋषभदेवश्रीनेमिनाथसम्बन्धिन्योर्महत्योः प्रतिमयोः, तदानीमेव निर्मितश्रीनेमिजिनपादुकायाश्च प्रतिष्ठा कृता । तदनु आगराख्यनगरे सामानसिंहकल्याणमल्लकारितश्रीचिन्तामणिपार्श्वनाथादिबिम्बानां प्रतिष्ठा शतशः सुवटङ्कव्ययादिना महामहेन निर्मिता । तत्तीर्थे च प्रथितप्रभावं सञ्जातमस्ति । ततः श्रीगुरवः पुनरपि फतेपुरनगरे समागत्य श्रीसाहिना साकं मिलिताः । तदवसरे च प्रहरं यावद्धर्मप्रवृत्तिकरणानन्तरं श्रीसाहिरवदत् यत् श्रीमन्तो मया दर्शनोत्कण्ठितेन दूरदेशादाकारिताः । अस्मदीयं च न किमपि गृह्यते । तेनास्मत्सकाशात् श्रीमद्भिः सचित्तं याचनीयं येन वयं कृतार्था भवामः । तत् सम्यग्विचार्य श्रीगुरुभिस्तदीयाखिलदेशेषु पर्युषणापर्वसत्काष्टाह्निकायाममारिप्रवर्तनं बन्दिजनमोचनं चायाचि । ततो निर्लोभताशान्तताद्यतिशयितगुणगणातिचमत्कृतचेतसा श्रीसाहिना अस्मदीयान्यपि चत्वारि दिनानि समधिकानि भवन्त्विति कथयित्वा स्ववशीकृतदेशेषु श्रावणबहुलदशमीत: प्रारभ्य भाद्रपद शुक्लषष्ठीं यावदमारिप्रवर्त्तनाय द्वादशदिनामारिसत्कानि काञ्चनरचनाश्चितानि खनामाङ्कितानि षट् फुरमानानि त्वरितमेव श्रीगुरूणां समर्पितानि । तेषां व्यक्तिः प्रथमं गूर्जरदेशीयं, द्वितीयं मालवदेशसत्कं तृतीयं अजमेरदेशीयं, चतुर्थे दिल्लीफत्तेपुरदेशसम्बन्धि, पञ्चमं लाहुरमुलतानमण्डलसत्कम्, श्रीगुरूणां पार्श्वे रक्षणाय षष्ठं देशपञ्चकसंबन्धि साधारणं चेति । तेषां च तत्तद्देशेषु प्रेषणेनामारिपटहोद्घोषणवारिणा सिक्ता सती पुराऽज्ञायमाननामाऽपि कृपावल्ली सर्वत्रार्याना - र्यकुलमण्डपेषु विस्तारवती बभूव । तथा बन्दिजनमोचनस्याप्यङ्गीकारपुरस्सरं श्रीसाहिना श्रीगुरूणां पार्श्वदुत्थाय तदैवानेकगव्यूतमिते डाबरनाम्नि महासरसि गत्वा साधुसमक्षं स्वहस्तेन नानाजातीयानां देशान्तरीयजनप्राभृतीकृतानां पक्षिणां मोचनं चक्रे । तथा प्रभाते कारागारस्थबहुजनानां बन्धनभञ्जनमप्यकारि । एवमनेकशः श्रीमत्साहेर्मिलनेन श्रीगुरूणां धरित्रीमरुमण्डलादिषु श्रीजिनप्रासादोपाश्रयाणामुपद्रवनिवारणायानेकफुरमानविधापनादिना प्रवचनप्रभावनादिप्रभावो यो लाभोऽभवत् स केन वर्णयितुं शक्यते ? । तदवसरे च संजातगुरुतरगुरुभक्तिरागेण मेडतीयसा – सदारङ्गेण मार्गणगणेभ्यो मूर्त्तिमद्गजदानद्विपशदऽश्वदानलक्षप्रासादविधानादिना, दिल्लीदेशे श्राद्धानां प्रतिगृहं सेरद्वयप्रमाणखण्डलम्भनिकानिर्माणादिना च श्रीजिनशासनोन्नतिश्चक्रे । तथैका प्रतिष्ठा सा थानसिंघकारिता । अपरा च सा- दूजणमल्लकारिता श्रीफतेपुरनगरेऽनेकटङ्कलक्षव्ययादिना महामहोत्सवोपेता विहिता। किश्च । प्रथमचतुर्मासकमागराख्यद्रङ्गे, द्वितीयं फतेपुरे, तृतीयमभिरामावादे, चतुर्थे पुनरप्यागराख्ये चेति चतुर्मासीचतुष्टयं तत्र देशे कृत्वा गूर्जरदेशस्थ श्रीविजयसेनप्रभृतिसंघस्याऽऽग्रहवशात् श्रीगुरुचरणा धरित्रीपवित्रीकरणप्रवणान्तःकरणाः श्रीशेपूजी श्रीपाद्जी -श्रीदानीआराभिधपुत्रादिप्रवरपरिकराणां श्रीमत्साहिपुरन्दराणां पार्श्वे Page #10 -------------------------------------------------------------------------- ________________ फुरमानादिकार्यकरणतत्परानुपाध्यायश्रीशान्तिचन्द्रगणिवरान् मुक्त्वा मेडतादिमागे -विहारं कुर्वाणा नागपुरे चतुर्मासी विधाय क्रमेण सीरोहीनगरे समागताः। तत्रापि नवीनचतुर्मुखप्रासादे श्रीआदिनाथादिबिम्बानां, श्रीअजितजिनप्रासादे श्रीअजितजिनादिबिम्बानां च क्रमेण प्रतिष्ठाद्वयं विधाय अर्बुदाचले यात्रार्थ प्रस्थिताः । तत्र विधिना यात्रां विधाय यावद्धरित्रीदिशि पादावधारणं विदधति तावत् महारायश्रीसुलतानजीकेन सीरोहीदेशे पुरा करातिपीडितस्य लोकस्य अथ पीडां न विधास्यामि, मारिनिवारणं च करिष्यामीत्यादिविज्ञप्ति खप्रधानपुरुषमुखेन विधाय श्रीगुरवः सीरोत्यां चतुर्मासीकरणायात्याग्रहात् समाकारिताः। पश्चात् तद्राजोपरोधेन, तद्देशीयलोकानुकम्पया च तत्र चतुर्मासी विधाय क्रमेण रोहसरोतरामार्गे विहारं कुर्वन्तः श्रीपत्तननगरं पावितवन्तः। अथ पुरा श्रीसूरिराजैः श्रीसाहिहृदयालवालारोपिता कृपालतोपाध्यायश्रीशान्तिचन्द्रगणिभिः स्वोपज्ञकृपारसकोशाख्यशास्त्रश्रावणजलेन सिक्ता सती वृद्धिमती बभूव । तदभिज्ञानं च श्रीमत्साहिजन्मसम्बन्धी मासः, श्रीपर्युषणापर्वसत्कानि द्वादश दिनानि, सर्वेऽपि रविवाराः, सर्वसंक्रान्तितिथयः, नवरोजसत्को मासः, सर्वे ईदीवासराः, सर्वे मिहरवासराः, सोफीआनवासराश्चेति पाण्मासिकामारिसत्कं फुरमानं, जीजीआभिधानकरमोचनसत्कानि फुरमानानि च श्रीमत्साहिपार्थात्समानीय धरित्रीदेशे श्रीगुरूणां प्राभृतीकृतानीति । एतच्च सर्वजनप्रतीतमेव । तत्र नवरोजादिवासराणां व्यक्तिस्तत्फुरमानतोऽवसेया । किञ्च । अस्मिन् दिल्लीदेशविहारे श्रीमद्गुरूणां श्रीमत्साहिप्रदत्तबहुमानतः निष्प्रतिमरूपादिगुणगणानां श्रवणवीक्षणतश्चानेकम्लेच्छादिजातीया अपि सद्यो मद्यमांसाशनजीवहिंसनादिरतिं परित्यज्य सद्धर्मकर्मासक्तमतयः, तथा केचन प्रवचनप्रत्सनीका अपि निर्भरभक्तिरतयः, अन्यपक्षीया अपि कक्षीकृतसद्भूतोद्भुतगुणततयश्चासन् । इत्याद्यनेकेऽवदाताः षड्दर्शनप्रतीता एव । तथा श्रीपत्तननगरे चतुर्मासककरणादनु विक्रमतः षट्चत्वारिंशदधिकषोडशशत १६४६ वर्षे स्तम्भतीर्थे सो-तेजपालकारिता सहस्रशो रूप्यकव्ययादिनाऽतीव श्रेष्ठां प्रतिष्ठां विधाय श्रीजिनशासनोन्नतिं तन्वानाः श्रीसूरिराजो विजयन्ते" अस्यैकैव प्रतिः अणाहलपुरपत्तनस्य (पाटन) “फोफलीयावाडा आगलीशेरी" इत्यस्य भाण्डागारात् श्रेष्ठिश्रीभोगीलाल-हालाभाई-द्वारोपलब्धा । अतोऽत्र स्थले तस्य श्रेष्ठिनो धन्यवादपुरस्सरं उपकारं मन्यावहे । तदेवमेकस्यैव पुस्तकस्याधारेण शोधितमुद्रितेऽप्यस्मिन् प्रन्थे जाताः स्खलनाः सहृदयाः कृपां विधाय शोधयिष्यन्तीति निवेदयतोहरगोविन्द-बेचरदासौ। Page #11 -------------------------------------------------------------------------- ________________ अहम् श्रीविजयधर्मसूरिभ्यो नमः । श्रीपद्मसागरगणिरचितंजगद्गुरुकाव्यम् । नत्वा श्रीबलिजं जिनं जयकर श्रीपार्श्वनाथं पुन ध्यात्वा श्रीत्रिपुरां त्रिलोकमाहितां सद्बुद्धिसिद्धिश्रियम् । काव्यं वक्ति जगद्गुरोः शिशुरसौ भावाऽवनम्रस्त्रिधा . हीराह्वस्मृति पद्मसागरकविः सौराष्ट्रराष्ट्रस्थितः ॥ १॥ जम्बूद्वीपभुवो विभूषणतरे क्षेत्रे वरे भारते . स्वर्णस्थालतलस्य दीपक इवोद्यन्मोदकक्षोदके । अस्ति स्वस्तिगृहं द्विषोडशसहस्रोद्दामदेशोल्वणं खण्डं मध्यममुत्तमैनरवरर्भोज्यं सदाज्यान्नवत् ॥ २ ॥ देशस्तत्र च गूर्जरोऽजरजनः स्ववत् सुवर्णान्वितो .. गीर्वाणाऽचलवद् गुणादरकरः कामं धनुर्धारिवत् । ... '. साध्वीसाधुविशेषसंयमसुखः सद्गच्छवच्छ्रीयुतः शश्वत् केशववद्विचित्ररचनः शृङ्गारवद्राजते ॥ ३ ॥ श्रीप्रह्लादननामकं पुरवरं तत्राऽस्ति यत्रैधते श्रीप्रह्लादनपार्श्वनाथसदनं चक्रेशसैन्यं यथा । सद्रत्नाऽक्षतपूरपूर्णनिधिकं चित्राङ्गमातङ्गजो दाराश्वं च पुरोहिताङ्गसचिवं वीराधिवीराश्रितम् ॥ ४ ॥ कुंरस्तत्र वणिक्कलासु निपुणः सम्यक्तपूतोऽभव दोकेशान्वयभूषणं धनवतां मध्ये प्रतिष्ठां गतः । जिग्ये येन सितोदरः पटुधनैर्वर्गत्रयीसाधनै नोंचेदेष ततः कथं नरपुरे नामाऽवशिष्टोऽधुना ? ॥ ५॥ नाथी तस्य पतिव्रता कुलवधूधर्मोदिता सुन्दरी गेहं भूषयतीव कल्पलतिका मेरुं सुपर्वोत्सवम् । Page #12 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितंयस्याः शीलगुणेन नागरजनैः सीता स्मृति प्रापिता शृङ्गारैः कमला धिया भगवती रूपेण कामाङ्गना ॥ ६॥ सा सौख्यं विषयोत्थितं निजपतिप्रत्तं मयूरी यथा । __ वार्वाहार्पितमम्बु शोकरहिताऽप्यास्वादयन्ती सती । सिंहस्वप्नमवाप्य पुत्रमनघं गर्भेऽवतीर्ण निजे मेने पूरितदोहदेहितफलप्राप्तेः स्वभर्तुगिरा ॥ ७॥ साऽसूतान्यदिने सुतं दिनकर पूर्वेव तेजस्विनं हंसी हंसमिवेन्दिरेव मदनं स्कन्दं पुनः पार्वती। यजन्मन्यभवन् प्रसन्नवदनाः काष्ठा गृहान्तःस्थिता दीपा: कान्तिविलोपकार्भकभया मन्दाः पतद्वत्तयः ।। ८॥ वप्ता तत्र ददर्श बालमनघं विज्ञो यथा देवराट ___ जातं तीर्थकरं सुलक्षणतया चक्रे विचार विमम् । दुष्टैस्तावदभेद्य एष भविता हीरो यथाऽमूल्यक स्तद्धीरेत्यभिधानमस्त्विति कुटुम्बाग्रेऽवदन्मोदतः ॥ ९॥ हीरः कुंरगृहाङ्गणेऽथ ववृधे कल्पद्रुमस्ताविषे . विन्ध्याद्राविव कुजरो मणिगणः श्रीरोहणे पर्वते । चन्द्रः पक्ष इवाऽमले च कमले कोशः शुचावम्बुदः कन्दोऽम्भोधितले प्रवालज इवाऽर्हद्धानि धर्मक्रमः ॥१०॥ हीरोऽध्यापकहृद्गतानि सकलान्यादत्तवान् बुद्धित: ___ कुंरस्तस्य ददौ च काञ्चनचयं हीराङ्गभारप्रमम् । विद्याप्राप्तिरिह त्रिधा हि विनयैरथैः पुनर्विद्यया । जानन्नीतिमिमां विचारचतुरः सर्वोचितार्थप्रदः ॥ ११ ॥ हीरो द्वादशवार्षिकोऽभवदथ स्पष्टैर्गुणैर्दक्षतौ___ दार्याधैर्गुणवत्सु भारतभुवि प्राप्तकरखः परम् । लोकानां नयनेषु रूपकमलारेखा अनेका ददौ बुद्ध्यानन्त्वमशेषरोचकतया चित्तेषु चाश्चर्यतः ॥ १२ ॥ अन्येद्युनगरान्निजात् स्वभगिनीगेहे समाजग्मिवान् __ श्रीमद्गुर्जरपत्तने कविजनैः स्वःखण्डताख्यापिते । हीरस्तत्र मुनीश्वरान् विजयतो दानाऽभिधानान् मुदा Page #13 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम् । प्राप्तः साधुगृहस्थितांस्तपगणस्वामित्वमाप्तान् स्फुटम् ॥ १३ ॥ तेषां वाचमनेकवाङ्मयरसक्लिन्नां विरक्तात्मनां वैराग्याऽमृतवर्द्धिनीं श्रुतिपुटद्वारा हृदि न्यस्तवान् । हीरो हीरकवद्भवाऽधिकरणैर्लो हैर भेद्यस्ततः शुद्धाचारतपोग्रहोद्यतमतिर्जातः सुजाताङ्गवत् ॥ १४ ॥ वैराग्यं भवरङ्गरूक्षहृदयादाविश्वकार स्वसु गत्वा धानि पुरस्तथाविधवचः श्रेण्याऽतिपुण्यास्थया । मृत्खण्डादिव काञ्चनं रचनया स्वर्णधमः शुद्धया भूमध्यादिव वा जलं खननकुच्छक्त्या करप्राप्तया ।। १५ ।। तं दीक्षा परमानसं स्वसृवरा ज्ञात्वा कुटुम्बं निजं तत्राकार्य पितुः पुरोऽवददिदं मुक्ताश्रुभूभेदिनी । भ्राता मे भवभीरुरेष भवतां पुत्रस्तपस्याग्रही वार्यो वर्यधिया कुलाचल इवास्त्येको भवन्मन्दिरे ॥ १६ ॥ पुत्रीवाक्यमिदं निशम्य जनकः स्माख्याति हीरं सुतं वत्स त्वं मम जीवनं मम गृहस्तम्भः समर्थः पुनः । आशा ते महती ममास्ति मम तद्वृद्धस्थिति पालय त्वं मद्नेहधुरं वहाऽहमधुना धर्म करोमि स्थिरः ॥ १७ ॥ श्रुत्वा वाक्यमिदं पितुः समवदद्धीरः पवित्राशयः संसारो यमवन्ममाऽतिभयकृद्भातः पितः ! सांप्रतम् । तत्त्वं तारय संसृतेः सुजनको यत् सौख्यदः सन्तते चारित्रग्रहणे ममास्तु भवतां वंशस्य चास्तूदयः ॥ १८ ॥ वाग्युक्त्या पितरं प्रबोध्य भगिनीं वा मातरं शुद्धया तैर्दत्ताऽनुमतिर्व्रतं स जगृहे पौरैः कृतात्युत्सवम् । बाले प्रव्रजति प्रधानधनभुक् त्यक्ता कुटुम्ब निजं धन्यंमन्यतयाऽत्र को न कुरुते श्राद्धो निजद्धिंव्ययम् ॥ १९ ॥ हर्षस्तत्र बभूव हीरकमणिप्राप्त्येव हीरादतः साधूनां व्यवहारिणामिति गुरुः श्रीहीरहर्षाभिधाम् । चक्रे वर्गविलोकनादपि निजाद्दाद्यक्षरप्रीतित: सन्तोऽन्वर्थकनाम यद्विदधति प्राज्ञे विनेये सुते ॥ २० ॥ Page #14 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितधृत्वा पञ्चमहाव्रतानि समितिप्रोद्दामगुप्त्यङ्किता न्येष प्रोद्धृतमेरुमानवमहीसाम्यं क्षमातोऽभजत् । साधूनां विविधैर्गुणैधुरि तपःकृत्येऽभवद्धौर्यवत् शाकट्येऽध्ययने च देवगुरुवदर्भाग्रबुद्धिर्मुनिः ॥ २१ ॥ विद्यासागरवाचकस्य गुणिभिः शिष्यैवयोधीसमैः सार्द्ध सदतिधर्मसागरवरैः श्रीमद्गुरोरप्रतः । सम्यग् व्याकरणं कवित्वरचनाग्रन्थांस्तथाऽर्हन्मत न्यायं कर्मविचारसंग्रहणिकां स्माध्येति हीरो मुनिः ॥२२॥ सर्वार्हन्मतशास्त्रपारमगमच्छ्रीहीरहर्षो मुनि__ र्जातोऽन्यागमदर्शनोत्सुकमनाः श्रीमद्गुरोर्नीतिवित् । सार्द्ध धर्ममुनीश्वरैरिति गिरा विज्ञप्तिकामातनोत् __ स्वामिन् ! मे परशासनागमवचोयुक्तिप्रकाशे मनः ॥ २३ ॥ श्रुत्वेत्याह गुरुस्ततो व्रज मुने ! श्रीदक्षिणाशा प्रति योग्यं धर्ममुनि सहायमधुनैवादाय रामो यथा । श्रीमल्लक्ष्मणमन्यशास्त्रपठनं तत्रान्यपाधै कुरु ___ स्पष्टाः स्वागमयुक्तयो हि धनिनां तत्रैव तद्वादिनः ॥ २४ ॥ लब्ध्वाज्ञामिति सद्गुरोः कविवरः श्रीहरिहर्षो मुनिः सार्द्ध धर्ममुनीश्वरेण चलितः श्रीदक्षिणाशां प्रति । गत्वा देवगिरौ सदाऽऽस्तिककृतद्रव्यव्ययाद्भट्टतो मण्याद्यागमयुक्तिपाठमनघं प्रारब्धवानादृतः ॥ २५ ॥ प्रन्था न्यायविदां विवेचनकृतां वैशेषिकाणां पुन___भीदृस्याऽपि तथागतस्य कपिलप्राभाकराणां पुनः । मीमांसाद्वयवादिनामपि परब्रह्माद्वयोत्संविदा भट्टात्पण्डितचक्रिणोऽत्र पठिताः श्रीहीरहर्षेण ते ॥२६॥ सार्द्ध धर्ममुनीश्वरेण सकलपन्थार्थपारङ्गमी भूत्वा श्रीगुरुसन्निधौ पुनरगात्तत्स्तोत्रपाठे पटुः । शिष्याणां हि गुणार्थिनां चिरतरं दूरे गुरोन स्थितिः । सिद्धेऽर्थे तु गुरुर्न शिष्यमनघं दूरे व्यवस्थापयेत् ।। २७ ।। योग्यत्वं गुरुरेतयोनिजधिया विज्ञाय शास्त्रश्रियो Page #15 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम् | व वाचकसंज्ञितं पदमुदारानेकसभ्याग्रहात् । शिष्यं योग्यमवाप्य चेन्न पदवीमारोपयेद्यो गुरुः स स्यात्प्राज्यभवभ्रमी निजगुणध्वंसी गुणोपेक्षणात् ॥ २८ ॥ गच्छैश्वर्यमथ प्रदातुमनयोर्मध्ये विशेषं गुरु जिज्ञासुर्जिनशासनामरमसावाराधयत् साधनात् । मन्त्रस्योत्तमगच्छनाथजपनार्हस्याघविध्वंसिनः षण्मासी तपसा विमुक्तवचनव्यापारदीप्तिस्पृशा ।। २९ ।। ध्यानाकृष्टतया ततोऽमरवरः सद्यः समाजग्मिवान्नत्वा पादपयोरुहं गणपतेराख्यद्विशिष्टं गुणैः । श्रीहीरं गुरुपङ्क्तिभूषणकरं राजप्रबोधोदितं व्यक्तं भाविनमत्र सूरिपदवीयोग्ये तपाख्ये गणे ॥ ३० ॥ दैवं वाक्यमिदं निशम्य मुमुदे श्रीमत्तपागच्छराद् मोदः कस्य भवेन्न यत् स्वपदवीयोग्ये सुशिष्ये श्रुते । मुक्त्वा ध्यानमथागमन्निजयतिश्राद्धैौघपर्षद्यह र्वक्त्रे भानुरिवोदयाऽद्रिशिरसि प्रोल्लासितेजः स्थितिः ॥ ३१ ॥ सङ्घाग्रे सुरवाक्यमेतदभवच्छ्रीमद्गुरुगौरवात् सङ्घो यज्जिनसंमतो गुरुतरैनपेक्ष्यते बुद्धिमान् । कृत्वा सङ्घमतं न्यवेशयदसौ श्रीहीरहर्ष निजे पट्टेऽर्हन्मतसारसूरिपदवीयोग्ये मुहूर्त्ते सुधीः ॥ ३२ ॥ सीरोहीनगरे बभूव विजयो हीरादतस्तद्गुरु मास्याशु चकार हीरविजयं सद्भिस्तदा स्वीकृतम् । इभ्यैः सूरिपदोत्सवस्तु विविधश्चक्रे तथेन्द्रैर्यथा श्रीवीरेण सुधर्मगौतमशिरःपट्टप्रदानक्षणे ॥ ३३ ॥ आचार्यैः सममेतके गुरुवरादेशात्ततः प्रस्थिता आयाता अणहिल्लपत्तनपुरे तस्थुचतुर्मासकम् । पोता अम्बुनिधाविवोडुपभरैनडे यथा पक्षिणः स्वापत्यैर्मुनिचक्रसेोवितपदाः संसारलेपोज्झिताः ॥ ३४ ॥ गूढानायजिनो तवाङ्मयरसं श्रीहीरकोष्ठे गुरु दुग्धभिवं प्रकृष्टकनकामत्रेऽनिशं क्षिप्तवान् । Page #16 -------------------------------------------------------------------------- ________________ ६ श्रीपद्सागरगणिविरचितं लब्धे शिष्यवरे हि यः शुचितमां दत्ते न विद्यां निजां निर्विद्यः स भवे परत्र भविता धिक्कारमेत्यत्र च ।। ३५ ।। शुद्धांशे सकलग्रहेषु पदवीमुच्चाङ्गतेषूत्तमे श्रीगुरुभूपतिर्विधिधरः श्रीसूरिमन्त्रं ददौ । लक्षेभ्यैर्विहितेऽत्र हीरविजयाचार्याय कोटिव्यये हीरार्थं कुरुते न किं धनिजनः कोटिव्ययं बुद्धिमान् १ ||३६|| निश्चिन्ता गुरवः स्वपट्टविवधारोपात् स्वशिष्येऽधिके श्रीहीरे निजकार्यसाधनपरा व्यापारमासूत्रितम् । गच्छस्यास्य विमुच्य संयमसुखे मग्ना रसे शान्तिके जग्मुर्देवगृहं विशुद्धमनसोऽर्हदुध्यानलीनास्ततः ॥ ३७ ॥ गच्छेऽस्मिन्नथ चारुहीरविजया भट्टारकत्वं गता निर्ग्रन्थान् द्विसहस्रमानगणितान् संशिक्षयन्त्यादृताः । वाक्यैर्हचितैर्मितैर्हितकरैर्जेने रिवाकर्कशे श्वारित्रोपकृतिप्रदानविधिना सन्तोषयन्ति क्रमात् ॥ ३८ ॥ देशे यत्र पुरेषु येषु विहृतिं चक्रुस्त्विमे सूरयः सप्तक्षेत्रधनव्ययो धनिकृतस्तत्राऽभवत्तेषु वा । जीवाऽमारिरहर्निशं व्रतकृतिदनोद्धृतिर्भाविनां प्रासादोद्धरणं च भक्तिकरणं साधर्मिकाणां पुनः ॥ ३९ ॥ अन्येद्युर्भुवि सूरिहीरविजया गन्धारपूर्वी स्थिताः कृत्वाऽवग्रहमब्धिमासनियतं साधुव्रजभ्राजिता: । दिल्लीशेन यथा श्रुताः कृतिनरैराकारिताः सत्कृताजीवामारणवर्त्तनैरिति तथा सर्वे मया प्रोच्यते ॥ ४० ॥ अस्तिं श्रीमति भारतक्षितितले श्रीमध्यदेशः शुचिप्रासादप्रतिमासु पुस्तकनिधिर्वर्यार्यलोकाश्रितः । देशाः सार्द्धकपञ्चविंशतिमिताः सन्त्येव यत्र स्फुरश्ञ्चक्रिश्रीजिनविष्णुमुख्यपुरुषश्रेष्ठाऽवतारोदिताः ॥ ४१ ॥ अस्त्यत्र प्रवरा पुरी नरभरैरापूरिता काबिला - भिख्या सत्खुरसानदेशनिकटे वीराधिवासोचिता । यस्यां मुद्गललक्षमक्षतबलं हिन्द्वासुरत्रासकं Page #17 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम् । स्वैरं द्रव्यशतानि सार्द्धघटिकामध्येऽत्ति भोगैर्घनैः ॥ ४२ ॥ आसीत्तत्र हमाउनामनृपतिर्दैत्यावतारोऽरिषु म्लेच्छानामाधिपः प्रतापतपनश्चक्रीव युद्धे जयी। यस्याश्वा इव राक्षसा गिरिशिरःस्फालाः प्रलम्बानना स्वासं हस्तिवरानपीव महिषान्नित्यं नयन्ति क्षणात् ।। ४३॥ अन्येयुःस सुतेऽष्टवर्षवयास स्पष्टोदयेऽकब्बरा भिख्ये राज्यभरं निवेश्य चलितः कर्तु महीमात्मसात् । अब्ध्यन्तां प्रलयाब्धिसैन्यकलितस्तावत् समेतः पुरे दिल्लीनाम्नि भटालिदुर्घटतटे कोटीश्वराभ्याश्रिते ॥ ४४ ॥ तत्राभून्नवलक्षवाजिसुभटः सूरः प्रतिष्ठानपो ___ मत्तेभाद्विचतुःसहस्रगुणनः कोटयुप्रपत्तीश्वरः । युद्धे येन च राष्ट्रकूटकुलभूः श्रीमल्लदेवो जितः श्रीमद्योधपुरेश्वरो मरुपतिदुर्वारवीरावृतः ॥ ४५ ॥ तस्मै सूरनरेश्वराय निपुणं दूतं तदा प्राहिणो च्छ्रीमन्मुद्गलनायकः परिसरे स्थित्वा सुनीति वहन् । दूतोऽप्याऽऽख्यदिदं हमाउनृपतेः पादप्रणामं कुरु __ श्रीदिल्लीश ! भवाहवायं सुतरां सज्जोऽथवेतो व्रज ॥ ४६ ।। श्रुत्वा दूतवचोऽवदन्नरपतिः सूरोऽतिगर्वोद्धुरः कोऽयं मत्पुरतो हमाउनृपतिर्वाणिज्यकृद्धम्भ्रमी। दत्त्वाऽश्वांश्चिरसञ्चितान्मणिगणान् स्वर्ण च रुप्यं वशा वीराणां च शिरांसि यास्यति वपुःशेषः सुशेषीभवन् ॥४७॥ याहि त्वं वद दूत ! मद्वच इदं तस्मै निजस्वामिने . भूयाः सज्ज इहाहवेऽहमनुगस्तेऽभ्यागतः सांप्रवम् । इत्युक्त्वा गलहस्तदानमकरोदूतस्य सूरो नृपः ___ कोपो यत्स्वविनाशकारिसमये दुष्टं विधिं कारयेत् ॥४८॥ दूतस्तद्वचनं स्खलाघवकृतिं स्माख्याति तन्मत्ततां श्रुत्वा काबिलनायकोऽपि हृदयेऽप्युल्लासमुच्चैर्दधौ । नोभीतिं निजबाणवीर्यचकितं जाननदृश्यं हरि कि पर्जन्यविगर्जनश्रवणतो बिभ्येति पाथःपतिः ?॥४९॥ Page #18 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितं ढक्कावादनपूर्वकं नरपति: सूरोऽपि सैन्यं निजं सन्नद्धं विविधाऽस्त्रपङ्क्तिकिरणैलुप्पोष्णपादांशुकम् । एकीकृत्य चचाल मुगलपतेः सैन्यं तृणप्रायकं जानम् मत्तमतङ्गजावलिरणगुण्टारवाडम्बरः ।। ५० ।। सङ्ग्रामाङ्गणमागतं क्षितिपतिं दृष्ट्वा हमाऊनृप स्तं वीरान् द्विसहस्रमानगणितान् युद्धार्थमाज्ञापयत् । प्राज्यान् यत्तृणपूलकान् शिखिकणा द्वित्रा न किं भस्मय- . न्त्येवं चेतास चिन्तयन्निजबलस्कन्धे स्थितः सोद्यमः ।। ५१ ।। तावद्भिः सुभटैर्घनैरिव भृशं बाणाम्बुधारोचयान् वर्षद्भिर्नवलक्षसैन्यमसमं चक्रे विवद्व्याकुलम् | द्वित्राः किं न मृगारिमत्तशिशवः कोटी भदर्पापहाद्वित्रा बामृतबिन्दवः पृथुतराऽसाध्यैक रोगापहाः ||५२॥ तैः सैन्यं निजमाकुलं कृतमिदं वीक्ष्याशु सूरो नृपः सङ्ग्रामाभिमुखोऽभवद्गजघटाध्यास्फालितारिव्रजः । · निघ्नन् बाणगणैरलक्ष्यचरितैः कान्ताकटाक्षैरिव त्यक्तास्त्रं द्विसहस्रमानगणितं सैन्यं चकारानुगम् ॥५३॥ सैन्ये तावति शस्त्रदर्परहिते पश्चात् समागच्छति द्विट्चक्रे जयतीह सूरनृपतिश्चेत्युद्धतं गर्जति । श्रीमन्मुद्गलनायकोऽपि सुभटैर्लक्षप्रमैरुत्थितः किं शेषः स्वफणावृतः क्षितितलादागादरिप्रासकृत् ? ॥ ५४ ॥ श्रीसूरोऽपि हमाउरप्यभिमुखं बीरोर्नजेर्वेष्टितौ कुर्वाणाविव युद्धमुद्धतामिमावादित्यराहू क्षितौ । किं व्योम्नः पतितौ पुनः पुनरिवोत्प्लुत्यान्तरिक्षाशयायातोऽप्यूर्द्धमितीह साधु कुरुतस्तर्क सतां मानसे ।। ५५ ।। तावत्काबिलनायकः करतले धृत्वा धनुर्दोष्मतां मुख्यः सूरबले ललाटतिलकं केषां विभिन्नं पुनः । केषाञ्चिद् हृदयं चकार जठरं मूत्रप्रदेशं पुनः केषाञ्चित्करयामलं करयुगं केषाञ्चिदत्रव्रजम् ॥ ५६ ॥ बाणासारमिति प्रवर्षति नृपे तस्मिन् स्वयं तद्भटे Page #19 -------------------------------------------------------------------------- ________________ - जगद्गुरुकाव्यम् । ब्वेवं वर्षदनेकशस्त्रनिकरेष्वेकोऽपि कश्चिद्वले । सौरेऽभून भटः पटुः स्फुटकणैर्यो जर्जरश्चेषुभि___ स्तत्किं ध्वान्तमिहाऽस्ति यद्रविकरैर्नो भिद्यतेऽत्युज्ज्वलै:?॥५५॥ भग्नं सौरबलं विमुच्य सकलं वित्तं गजाश्वादिकं नष्टं दिक्षु विदिक्षु निःखतुषवत्फूत्कारसाध्यं गतम् । देशं तस्य विभुत्वमश्वनिकरं स्वर्ण मणीन् हस्तिनः ... कोशं वा जगृहे हमाउसुभटोणिः स्वनाथाज्ञया ॥ ५८॥ नष्टे सूरनृपे सदीयसुभटान् कृत्वा खसेवापरान् निर्दण्डान सुखिनश्च देश्यमनुजाभिर्भीतिराज्यं दधौ । दिल्लीकाबिलमार्गसश्चरदिभाश्वोक्षोष्ट्रमानुष्यक .. मुक्तारत्नसुवर्णराशिरचितोत्तुङ्गाद्रिकोट्यालयम् ॥ ५९ ॥ किं चाऽस्मिन् समये विशिष्टमनुजे श्रीगूर्जरे मण्डले भूभुग बादरसंज्ञितः करिबलः षड्लक्षसैन्योद्धरः। सामुद्रानपि भूपतीनिजपदाम्भोजन्मसेवोद्यतान् कुर्वन्मालवदक्षिणोत्तमपतिश्रेण्यर्चितश्चाभवत् ॥ ६॥ भन्येयुः स च मेदपाटधनिकं श्रीरत्नसिंह रणे जित्वा तनगरं बभज हठतः श्रीचित्रकूटाभिधम् । तत्र क्षत्रियपुत्रिकाततिरभूद्वहिप्रवेशाद्गत प्राणाश्चापरमानवा भटचयव्यापारितासात्तथा ॥ ६१ ॥ तहुःखादसमाधिवासितहृदा श्रीरत्नसिंहक्षमा पालेनेति हमाउभूमिपतये विज्ञप्तिराविष्कृता। साहाय्यं कुरु मे तथा नरपते ! दुष्टं यथाऽन्यायिनं बध्वा बादरनामकं करतले देहि क्षमस्त्वं यतः ॥ ६२ ॥ तस्याभ्यर्थनयेति काबिलपतिः सैन्यावृतो बादर क्षोणीशग्रहणाय बद्धकवचः सद्यश्चचालोद्धतः । दिल्लीतस्तृणवच्च गूर्जरभटांश्चित्ते निजे कल्पयन् दोर्वीर्य निजमग्निवद्धरिहरब्रह्मादिवीर्याधिकम् ॥ ६३ ॥ यावच्छ्रीमति चित्रकूटनिकटे दिल्लीपतिश्चागत त. . । Page #20 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितं स्तावद्वादरभूपतिनिजबलाविष्टः प्रनष्टस्तदा । गत्वा मालवमण्डलेऽतिगहने कोट्टं दृढं मण्डपा__भिख्य सज्जयति स्म सजविभवस्तत स्पष्टयुद्धासहः ॥ ६४ ॥ तं नष्टं स निशम्य मालवपथे व्यक्ताभिमानोऽचल हूरे मालवको यमस्य किमयं दृष्टान्त इत्येष यत् । रुद्धा मण्डपकोट्टमुद्भटभटैम्ब्वाख्यमब्धिर्यथा द्वीपं दुर्द्धरवीचिभिः स्थितिमसौ दिल्लीपतिर्निर्ममे ॥ ६५ ॥ भनः स्तोकदिनैर्गजैर्भटघटानुन्नैः स वप्रो दृढो ऽपीवाद्रिः कुलिशानलैर्हरिकराध्यास्फालनोत्थैस्ततः । नष्टस्तुच्छभटः प्रकम्पहृदयः स्पष्टं गतो गौजरे पावाद्रौ विविधर्द्धिभूषितगृहे स्वर्गावतारेऽधिकम् ॥ ६६ ॥ लात्वा मण्डपपर्वतं धनरथाश्वेभैश्च मत्त्यैर्भूतं . कोटीशैः स्वविलासधिक्कृतनराधीशैरुदारात्मभिः। आज्ञा मालवमण्डले निजभटैसर्द्धि समारोपय द्वाट्यां कल्पलतामिवोत्तमफलामारामिकः सिद्धिवित् ॥ ६७ ॥ पावाद्रौ विहितस्थिति निजचरैर्मत्वा पुनर्बादरं दिल्लीशः स्वभटावृतोऽत्र गतवान् सद्यः प्रयाणैः सुधीः । कर्तु यद्विबुधैः समस्तपुरुषाध्यक्षं मुखे भाषितं तत्कार्य न समाप्तिमेति सुधियां यावन्न तावत् स्थितिः॥ ६८॥ श्रुत्वा काबिलनायकागममसौ नष्टस्ततो बादरो___ यो यस्माच्चकितो हि तस्य पुरतस्तस्यैवमेवं गतिः । श्रीमत्स्तम्भनपार्श्वनाथविशदे श्रीस्तम्भतीर्थे गतः सद्धर्मादिकवर्गसाधकजनाकीर्णे धनाध्यासिते ॥ ६९ ॥ ज्ञात्वा तत्र गतं चरैश्च चलितः सद्यो हमाउस्ततः सन्ध्यायां स तथा यथागमदिह प्रातर्भटावेष्टितः। अब्धेर्भानुरिवाशुपूरकलितः खेऽन्यायिघूकक्षयी तेजस्वी नयतः करोति हृदये शङ्कां व्रजन सर्वतः ॥ ७० ॥ रत्नस्वर्णभृतान्यनेकशकटान्यब्धेस्तटे बादुर Page #21 -------------------------------------------------------------------------- ________________ ११ जगद्गुरुकाव्यम् । स्त्यक्त्वा तुच्छभटावृतोऽम्बुधितरद्वीपेऽविशद्धेकवत् । तीर्थान्तस्तु हमाउनामनृपतिर्भूभुग् गृहान्तर्यथा हस्ती गन्धवरः स्ववैरिमदहृत्प्राप्तप्रतिष्ठोऽभितः ।। ७१ ।। मत्वा नष्टसमस्तसंपदमसौ जीवन्मृतं बादरं तद्बन्धाग्रहमामुमोच हृदये दिल्लीपतिः शक्तिमाम् । यद्वायुर्न तृणानि नीचनमनान्युन्मूलयत्युद्धतः सद्यो वृक्षचयं समुच्छ्रिततरं विस्तीर्णभूच्छायकम् ॥ ७२ ॥ तत्राज्ञां स्वभटैः समं कृतिवरः श्रीगुर्जरे मण्डले दिल्लीशः स समप्रभूमिवलये कीर्त्ति यथाऽरोपयत् । खड़ क्षालयति स्म नीरधिजले तीर्थे यथा निर्मल: प्राणी पाप्म निजं सुपात्रततये सद्वस्तुदानोद्यतः ॥ ७३ ॥ कृत्वा गुर्जर मालवादिकमहादेशेषु सौरथ्यं पुनदिल्ल्यां मुद्गलनायकः शतगुण श्रीवृद्धिमानागतः । एकच्छत्रमकण्टकं सुखभरं राज्यं बभारोत्तरं 'जाति को न वाञ्छितततिं प्राप्नोति यस्माज्जनः ॥ ७४ ॥ अन्येद्युः स सुपर्वपर्वतसमप्रोचालयोद्धुं गतः पश्यन् स्वं नगरं विशालनयनः प्रोत्फुल्ल चित्ताम्बुजः । मत्तुल्योऽयमभूदितीव विधिना स्पर्द्धिष्णुना पातितः संप्राप्तभ्रमिराशु कालसदनं प्राप्तः पृथिव्यां पलन् ॥ ७५ ॥ धिग् धिग् धिग् विधिमेनमङ्गिनिवहं कृत्वा जगत्स्वामिनं गर्त्ता धूलिशयं करोति सहसा यः सज्जनो दुर्जनः । . एवं सर्वजना विलाप तुमुलं चक्रुस्तदा तत्पुरे सूर्येऽस्तंव्रजतीह को न विवश: शोके न चान्धो भवेत् ॥ ७६ ॥ खद्योता इव तत्र सूरसुभटा अस्तङ्गते भास्करे तस्मिन् कालगृहं गते गतभयास्तत्पुत्रमप्रेसरम् । कृत्वा दुर्वहशस्त्रपाणिपटवो निर्नायकान् मुद्गला नाम वितर्जयन्ति हि जयो निर्नायकानां कुतः ॥ ७७ ॥ ते संभूय ततः स्वकाबिलपूरीमुद्दिश्य तत्तर्जिता Page #22 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितनेशुश्चारकसंस्थितो नरभरः प्राप्नोति यद्वारकम् । यावत्तावदकब्बरो लघुवया अप्युग्रतेजःस्फुर प्रौषीत् स्वपितुम॒तिं निजभटत्रासं च दस्यूदयम् ।। ७८ ॥ शोकं स क्षणमात्रमात्मकुलजैः कृत्वा समं काबिला पुर्याः पञ्चशतीभटैः परिवृतः सद्यः समाजग्मिवान् । स्वं बन्धुं च निवेश्य तत्र नगरे शिक्षाविधानोद्यतं तेजो यत् सहते न वैरिकुलजं वीराधिवीरः परम् ॥ ७९ ॥ श्रीमल्लाहुरनाम्न्यापूर्वनगरे सैन्याय तत्त्रासतो ऽत्रायाताय नरेश्वरोऽमिलदिवाऽकाण्डेऽभिमन्युक्षये । पार्थो धिक्कृतिकारकः कथमहो नश्यद्भिरत्रागतं श्रीमद्भिर्न मृतं निहत्य सकलान् सौरान भटानित्यवक् ॥ ८ ॥ ते ऽप्यूचुः सुभटास्त्वदक्षियुगलस्याने वयं तान् ध्रुवं हन्तुं सजकरा रवेरिव तमांस्येषोऽरुणो नान्यथा । एवं तान् वदतो वचः कुशलतावेदी भृशं सत्कृतां श्चक्रेऽकब्बरभूपतिर्निजबलाऽवज्ञातदैत्याधिपः ॥ ८१ ॥ सत्र द्वादशवार्षिकोऽपि नृपतिस्तत्सैन्यवीरावृतः सौरे सैन्यभरे समापतदिवागस्तिः सरिनायके । चित्रं तद्भटशोषमेष विदधे स्वाहाक्षरभावणात् स्वं सैन्यामृतवारिधिं जयरसापूर्ण पुननिर्ममे ॥ ८२ ॥ भग्नं सौरबलं गतं यमगृहे किञ्चिद्रेिर्गहरे किश्चिद्वारिनिधौ वनेऽतिगहने किञ्चिन्न किञ्चित्करम् । जातं वीक्ष्य पुनर्निज नरपतिलब्धद्धिहस्त्यश्वकं प्रत्येकं स्वभटेषु चक्रितुलनां मेने जयावाप्तितः ।। ८३ ॥ लब्धोऽनेन जयो नृपेण विशदो यस्मिन् महीमण्डले __ तस्मिन् यावनभाषयाऽक्षरवरं फत्तेपुरं वासितम् । कृष्णेनेव विशालसुन्दरगृहं श्रीद्वारिकानामकं भूपानां स्थितिरेषकैव हि जयस्थाने पुरस्थापनम् ॥ ८४ ॥ राज्यं तत्र करोति लब्धविजयः श्रीपातिसाकब्बरः Page #23 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम् । श्रीफत्तेपुरनामके पुरवरे व्यापारिवर्गाश्रिते । चातुर्वर्ण्यगृहै जिनेश सदनैः षड्दर्शनोद्यन्मठैः शोफीसद्दरवेशमुद्गलपदैश्वाट्टैवरैभ्रजिते ॥ ८५ ॥ १३ अश्वा लक्षचतुष्टयं गजवरा द्वित्वे सहस्रा दश क्रीडन्तीप्सितभोज्यलाभपटवो गावस्तु संख्यातिगाः । उष्ट्रा वा महिषीगणा नृपगृहद्वारेऽधिकाः पत्तयो वीरा यत्र विलासलालसवपुः शोभा नृपाऽऽत्तैर्द्धनैः ॥ ८६ ॥ द्वात्रिंशन्मणभारलोहकमयीं हस्तेन यः शृङ्खला मुत्पाट्याभ्रपथेऽल्पकन्दुकमिव प्रोच्छालयत्यञ्जसा । एष श्रीमदकब्बरः क्षितितले केषां न हिन्द्वासुरक्ष्मापानां हृदये चमत्कृतिकरोऽस्त्यादर्शयन् दोर्बलम् ॥ ८७ ॥ केचिद् हिन्दुनृपा बलश्रवणतस्तस्य स्वपुत्रीगणं गाढाभ्यर्थनया ददत्यविकला राज्यं निजं रक्षितुम् । केचित्प्राभृतमिन्दुकान्तरचनं मुक्त्वा पुरः पादयोः पेतुः केचिदिवानुगाः परमिमे सर्वेऽपि तत्सेविनः ॥ ८८ ॥ हिन्दुम्लेच्छसुताः स्वरूपविजित श्रीशादिदेवाङ्गनाः श्रूयन्तेऽस्य सहस्रमानगणिताः कान्ता लसद्भाग्यतः । तासां भोगफलं तु पुण्यललितं पुत्रत्रयं श्रूयते जीवाः स्तोकतरा भवे सुततया ये स्युः क्षितिस्वामिनः ॥ ८९ ॥ अन्येद्युः स समस्त हिन्दुकलशं श्रीमदपाटाधिपं श्रीराणोदयसिंहमुद्धतबलं म्लेच्छाय पुत्री निजा । दत्ताऽस्मत्कुलपूर्वजैर्न च मया देयेति गर्न गिरा व्याख्यान्तं श्रुतवानकब्बरनृपः क्षोणीशशिक्षापरः ॥ ९० ॥ तस्मै भूपतये विचारचतुरः प्रैषीन्निजं मन्त्रिणं भूपः श्रीमदकब्बरः क्षितिपतिं राणं विशिष्टं विदन् । गत्वा मन्त्रयवदत्तदीयसदसि स्पष्टं गिरा सारया सन्तो यन्न वचः स्थितिं क्वचिदपि प्रोल्लङ्घयन्त्यग्रतः ॥ ९१ ॥ देहि त्वं स्वसुतामकव्वरमहीभर्त्रे परैर्हिन्दुभि Page #24 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितंर्यदत्ताः स्वसुताः खराज्यविभवक्षेमाय नाभ्यर्थितैः । एतावत् समयं प्रतीक्षितमिहाप्यर्थेन तद्युक्तिम धत्त्वं दक्षतमोऽसि योग्यसमयज्ञानाय किं कथ्यते ? ॥ ९२॥ राणोऽप्याख्यदिदं कुलस्थितिरियं मे पूर्वजैः पालिता यनम्लेच्छाय न दीयते निजसुतेऽत्युल्लङ्घयते नो मया । देशो यातु गजाश्च यान्तु विभवध्वंसोऽस्तु मे पर्वते वासोऽप्यस्तु कुलस्थितिः पितृकृताप्येकैव मे तिष्ठतु ॥ ९३ ॥ ॥ तदुक्तम् ॥ लब्धां गुणौघजननी जननीमिवार्या मत्यन्तशुद्धहृदया अनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति · सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ ९४ ॥ मन्त्र्याख्यन् नृपराण ! यनिजसुतादाने हठः सांप्रतं वाक्यं वादयतीह तादृशफलं तत्तेऽचिरादास्यति । यद्यद्भावि तदनतो निजमुखात् प्रायेण निष्काशये देवं प्रोच्य गतः प्रधानसचिवश्वाकब्बरस्यान्तिके ॥१५॥ उक्तं तस्य पुरो यथार्थवचनं राणोदितं मन्त्रिणा सन्तोऽपीष्टमनिष्टमप्यवितथं कुर्वन्ति वाग्गोचरे । तद्वाक्यश्रवणादनन्तरमसौ फत्तेपुरान्निर्गतः सैन्यैः सारतरैर्वृतो गिरिशिरःकोट्टादिभङ्गोद्यतैः ॥१६॥ तस्याऽभ्यागमनश्रुतेर्निजपुराद्राणो धनाद्यं निजं लात्वा कुम्भलमेरुकोट्टमभजन ग्राह्यं न वीरोत्तमैः । सामन्तो जयमल्लनामनृपतिः श्रीचित्रकूटेऽचट घोळू म्लेच्छबलैः समं खरभटस्तन्मार्गमध्यस्थिते ॥९॥ तं वृत्तान्तमकब्बरक्षितिपतिः शुश्राव मार्गे वहं श्चित्ते चिन्तयदित्यशेषसुभटैः किं चित्रकूटाचलः । . पूर्व प्राह्य उतैष कुम्भलगिरिः श्रीराणभूपाश्रयस्तभृत्यो जयमल्लभूपतिरसौ मन्मार्गवक्त्रे स्थितः ॥ ९८ ॥ Page #25 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम् । एवं तर्कपरस्य तस्य नृपतेर्मार्गे समागच्छतः पार्श्वे श्रीजयमल्लनामनृपतिर्दूतं तदा प्राहिणोत् । दूतोऽप्याख्यदिदं महीश ! नृपतिश्रीराणभृत्यान्तिमो मद्वक्त्रे जयमल्लभूपतिरिति त्वां ख्यापयत्युत्कटः ॥ ९९ ॥ त्वं चेद्भपहमाउनन्दन इति ख्यातोऽसि तीत्र मे वक्त्रं दर्शय चेन्न तर्हि रुचिते स्थाने ब्रजान्यत्र वा। त्वद्भक्तिं च विधातुमत्र विभुना राणेन संस्थापितः प्रेष्योऽहं परमेश्वरस्य तदनु श्रीराणभूस्वामिनः ॥ १०॥ दूताख्यातमिदं निशम्य नृपतिः पूर्व ततोऽत्रापतत् __ कोट्टं पर्वतमस्तकस्थितमसौ श्रीचित्रकूटाभिधम् । दध्यौ वीक्ष्य हृदीति किं सुरगिरिः किं वैष कैलासको वैताढ्यः किमु किं हिमाचल इव श्रीरोहणाद्रिः कथम्?॥१०१॥ एवं तर्कपरोऽपि सत्त्वजलधिस्तद्भखनायोद्यत श्चक्रेऽकब्बरभूपतिर्घनतरोपायान भटप्रेरकः । उच्चैःस्थो जयमल्लभूपतिरमुं वाणिज्यकारोपमं चित्ते चिन्तयति स्म नृत्यमनिशं पात्रैस्तदाऽकारयत् ॥१०२॥ वीरास्तत्कपिशीर्षकेषु सबला भूपेन संस्थापिता__ वर्षन्तो विविधाश्मलोहनिबिडास्त्राणीव मेघाश्छटाः । चित्रं मुद्गललोकधान्यविषयं दुष्कालनीतिं तदा चक्रुः कोट्टमहीतले च विजयव्यासङ्गसौभिक्षकम् ॥१०३॥ सामान्योऽपि जनस्तदा धनिबलात् कोहोर्द्धभूमौ स्थितो . · धिक्कारं वचसा विधाय मुमुचे यत् प्रस्तरार्द्धार्द्धकम् । तत् सैन्येऽजनि मौद्गले हरिकरव्यामुक्तवस्रोपमं तेजस्विन्यधिपे दिवाकर इवाहःसन्निभाः सेवकाः ॥१०४॥ एवं श्रीजयमल्लभूपसुभटश्रीचित्रकूटाचल त्राणार्थ स्वकरद्वयं खरतरैः शस्त्रैर्न शून्यं कृतम् । वक्त्रं मुद्गलनाथधिक्कृतिकृते दुष्टैर्वचोभिर्जनैः सामान्यैरपि चित्रकूटनगरान्तर्वासिभिः सादरम्॥१०५॥ Page #26 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितंदृष्ट्वा वीरकरान समस्तमनुजास्योद्भूतदुर्वाक्चयं श्रुत्वा चाख्यदकब्बरो नरपतिर्गृह्णामि चेदेतकम् । तत्सर्वान् पुरुषानिहन्मि पनिताबन्धं भटैः कारया मीति स्पष्टगिरा समस्तसुभटानुत्साहयन् सत्त्वतः ।। १०६ ॥ कुद्धोऽकब्बरभूपतिगिरितले गुप्तं तथा खानयन् मातं तत्र यथा चतुर्दशशतप्रायैर्मणैरौषधम् । भृत्पात्र शिखिबिन्दुसङ्गविलसत्तेजोऽतिशक्त्या दृष द्वर्गास्फालनतो मनुष्यनिकरव्यापत्तये सज्जितम् ॥१०७॥ तद्भाग्याद् जयमल्लनामनृपतेः श्रीचित्रकूटाचल व्यावाधां न चकार सम्मुखमदः सैन्ये पतन्मौद्गले । मातङ्गांश्च नरान् सहस्रगणितान् हन्ति स्म जातं ततः सत्यं यच्च परस्य चिन्त्यत इहाभ्येत्येव तत् सम्मुखम् ॥१०८॥ तज्ज्ञात्वा जयमल्लनामनृपतेर्वारा जहर्षुस्तदा गायन्ति स्म च राणगीतनिकरं नित्योत्सवानन्दिनः । मत्वाऽकब्बरभूपतिनिजबलध्वंसं मनोदुःखवान् यावत्तद् ग्रहणग्रहं श्लथतरं कृत्वा विखिन्नोऽभवत् ।।१०९॥ तावन्नागपुरीयगच्छशिथिलोपाध्यायलिङ्गी खरः शास्त्राजीवनकृञ्चकार विशदं कोट्टस्य चक्रं हृदा । आख्यत् सप्तदिनैश्च भङ्गमतुलव्यायाससाध्यं गिरे भूपाने जयमल्लभूपमरणं रोमीकरायोधनात् ॥११०॥ तच्छ्रुत्वा स्वबलं गिरिग्रहपरं सज्जास्त्रमश्वस्थित भूपः प्रेरितवान् करासिविभवः पृष्ठे स्थितो भापयन् । पश्चादापततो भटान्निजपदोपास्त्युद्यतं रोमिकं चैकं श्रीजयमल्लभूपतिवधे स्वर्णार्पणेनादिशत् ॥११॥ दुष्टात्मा किल रोमिकोऽपि सहसोत्प्लुत्याद्रिमूर्द्धस्थितः स्वास्त्रं गोलकमग्निपुञ्जकलितं चिक्षेप तत्सम्मुखम् । सोऽपि श्रीजयमल्लभूपतिशिरोमध्ये विशन्निर्गतः . शास्त्रं जाल्महृदीव धार्मिकहृदीवासभ्यवाक्यान्वयः ॥११२॥ Page #27 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम् । तावच्छ्रीजयमल्लभूपतिरसौ भूमौ पतन्नित्यवक् भो वीराः ! अथ यास्यतीव कुसुतो हस्तादयं पर्वतः । तस्मान्मन्मुखदर्शनो धनजनानत्राधिरूढान्निजे स्थानं साधु नयन्तु मार्गकरणेनात्मीयदोर्वीर्यतः ॥११३॥ जल्पन श्रीजयमल्लभूपतिरिति प्राप्तस्तदा पञ्चतां __ लोकास्तत्र घनाः स्थिता निजनिजश्रीदेवसेवापराः । वीराः श्रीमति चित्रकूटनगरद्वारेऽसिकुन्तग्रहा निघ्नन्तोऽभिपतद्भटावलिशिरांसीवाममृगोलकान् ॥११४॥ भूपाकब्बरनुन्नवीरनिचयाः सद्योऽधिरूढा गिरौ __ हत्वा श्रीजयमल्लभूपतिभटान्निर्नायका यत् कुतः । जीवन्तो जयिनो भवन्ति च तथा बीराधिवीराप्रतः प्रायः स्वामिदशानुसारिबलिनः स्युः सेवकाः सर्वदा ॥११५॥ वीरैस्तत्र वृतोऽप्यकब्बरनृपोऽध्यारूढ उच्चैरिव व्योम्न्यर्कः प्रबलप्रतापकलितः कोपोद्धरस्तन्नृषु । आदेशं स वधस्य मुद्गलततेः शीघ्रं ददौ यन्नरः कोपात् किं न करोति वक्ति च हृदन्धीकारकत्वस्पृशः?॥११६॥ भूपाकब्बरवाक्यमाप्य सुभटा दुष्टास्तथा चक्रिरे ___ तत्राऽभूद्भुवि शोणितोदकनदीपूरं यथा सर्वतः । तत्र स्थालुमशक्त एष नृपतिर्नीचैस्ततोऽप्युत्तरन् मार्गस्थां च विदारितोदरतलां निष्फातिताऽङ्गोद्भवाम् ॥११७॥ दृष्ट्वा सुन्दरसुन्दरी नरपतिः कारुण्यपूर्णस्तदा हा हा किं मयकाऽत्र कारितमिदं चण्डालकर्माधिकम् ? । कुवैश्वानुशयं शिरः करयुगेणास्फालयन्नित्यवक् यः पापं किल चित्रकूटरचनं गृह्णाति तस्याप्यहम् ॥११८॥ एनं देशपुरान्वितं गिरिवरं स्वर्णादिकं चार्पया मीत्याकर्ण्य नराऽधमोऽथ जगृहे कश्चित्त्वघं मुद्गलः । तहत्तं च गिरीश्वरं पुरवरग्रामाद्युपेतं तदा लोभात् किं न नरः प्रपद्यत इह स्वाम्युक्तवाक्सञ्चयम्॥११९॥ Page #28 -------------------------------------------------------------------------- ________________ १८ श्रीपद्मसागरगणिविरचितं ॥ त्रिभिः कुलकम् ।। भूपोऽप्येष समाधिमानिजभटैरावेष्टितो राणके देशे शासनमुत्तमं निजपदेनावर्त्तयत् सर्वतः । जीवन्तं किल पापभीरुकतया राणं पुनर्मुक्तवान् भव्यः पापकृतेर्बिभेति हृदये कृत्वैकवार पुनः ॥१२०॥ एवं मालवमेदपाटधनिकान् श्रीगुर्जरस्वामिनो जित्वाऽकब्बरभूपतिनिजपुरे सौख्यात्समापेतिवान् । राज्यं पालयति प्रपञ्चनिपुणः षाड्गुण्यसच्छक्तिमान् सम्यग्दर्शनपण्डितादरकरस्तच्छास्त्रशुश्रूषया ॥१२१॥ अन्येयुः स समस्तदर्शनयतीनाकार्य धर्मस्य स त्तत्त्वं पृच्छति शुद्धबुद्धिविभवः स्मार्थी शिवस्यादरात् । तेऽप्याहुर्निजदर्शनोदितपथं वागविभ्रमैरभ्रमै नैकस्यापि बभूव तस्य रुचये मार्गो विचाराऽसहः ॥१२२॥ एवं तस्य शिवार्थिनः प्रतिदिनं धर्म बुभुत्सोः शुचिं शुद्धावैकगवेषकस्य नगरे काचित्परा श्राविका । षण्मासप्रतिमोपवासरचनां कुर्वत्यसंख्योदया यान्त्यर्हत्प्रतिमाप्रणामविधये दृग्मार्गमभ्यागता ॥१२३॥ इभ्यर्या नरवाह्यवाहनचतुष्कोणाङ्गणे स्थापिता वाद्याडम्बरमण्डिता घनजनव्यूहान्विता निर्मला । गङ्गेवाऽखिलपण्डितस्तुतिपदान्यासादयन्ती सती शुद्धानन्ततपःप्रभावजनितं तेजो वहन्त्युत्तरम् ॥ १२४ ॥ केयं याति किमर्थमत्र नगरे कृत्वा महाडम्बर मित्थं प्रश्नपरं नरेश्वरवरं प्रत्याह रामात्मजः । मन्त्री स्थानकसिंह आहेतपतिर्बद्धाञ्जलिहे प्रभो ! षण्मासीतप एतयादृतमिहार्हच्छास्त्रवित्कारितम् ॥ १२५ ॥ नान्नं नापि फलं न दुग्धमथवा तक्रं न दध्यादिकं पक्कानं न लवङ्गपूगशकलं नास्वादयत्यह्नि वा । रात्रौ यावदियं विशिष्टतपसः षण्मासकालस्थितेः Page #29 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम्। पूर्ति चोष्णजलं दिवैव पिबति श्रीवीतरागाज्ञया ॥१२६।। इत्याकर्ण्य नरेश्वरो निजचरैश्छन्नं हि तस्याः स्थिति रात्रौ वाहि गवेषयत्यनुदिनं तद्वाक्परीक्षाकृते । तस्यास्ते विमलं तपोविधिमलं निश्चित्य सत्यंवदाः सत्यं प्राहुरिहाऽस्ति नैव कपटं न्याये यथा त्वत्कृते ॥१२७॥ श्रुत्वा वाचमिमां चरनजमुखाञ्चित्ते चमत्कारवां स्तामाकार्य वरादरेण नृपतिः पप्रच्छ भक्त्येत्यसौ । हे मातः ! तप ईदृशं खरतरं कस्याऽनुभावात्त्वया शुद्धं साधु विधीयते वद मनःशङ्कां विहायोत्तमे!॥१२८॥ सा प्राहाऽत्र तपस्कृतौ नरपते ! श्रीदेवगुर्वोर्ममा ऽतुच्छः सूर्यकरावदातचरितः सम्यक्प्रभावोऽस्त्यहो । को देवस्तव को गुरुश्व जगतीत्युक्ते नृपेणाऽवदत् - सा श्राद्धी जिनशास्त्रतत्त्वविशदा चेत्थं स्वरूपं तयोः ॥१२९॥ नो रागाङ्गारसङ्गो न मदनमदिरा न द्विषद्वेषदोषो नो सम्मोहप्ररोहो न विकटकपटाटोपसंपञ्च यस्य । शान्तः कान्तस्त्रिलोकीकलनकुशलवित् कोऽपि कोपादिमुक्त स्त्यक्तः संसारपाशैः स भवति भविनां देवता दैवयोगात्॥१३०॥ ईदृग् देव इहाऽस्ति बिम्बरचनाध्येयोऽधुना सिद्धिद- श्चित्ते मे सुगुरुस्तु संयमधनः स्वान्यात्मतुल्याशयः । मित्रे शत्रुचये समोऽश्मनि मणौ स्त्रैणे तृणोघे पुन नांना सांप्रतमस्ति हीरविजयाचार्यः सुसाधूत्तमः ।।१३।। श्राद्धीवाक्यमिदं निशम्य नृपतिस्तां पूजयित्वाऽधिकं स्वस्थाने विससर्ज मन्त्रिणमथोचे स्थानसिंहाभिधम् । कस्मिन्नऽस्ति पुरे स हीरविजयाचार्यः सुसाधूत्तमः संप्रत्यऽप्यधिको यदीयमहिमाऽऽचारश्च पूर्व श्रुतः ॥१३२॥ मन्त्र्याख्यन् नृप! नास्ति तस्य वसतिइँकत्र देशे पुरे सर्वत्र द्विसहस्रसंयमिगुरोः पादश्रमेणाटनम् । वर्षामासचतुष्टयस्थितिमसावेकत्र कुर्वन् क्रमात Page #30 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितं संप्रत्युत्तमधार्मिकेऽस्ति नगरे गन्धारके बन्दिरे ॥ १३३॥ श्रुत्वेत्याह महीपतिर्मम महाभृत्यान् सलेखानितः पार्श्वे तस्य गुरोरिहोत्तमगुरोराकारणायोद्यतान् । शीघ्रं प्रेषय तं च शिष्यकलितं ह्यत्रानयेत्युत्तमा. माज्ञां प्राप्य महीपतेः स सचिवः सर्वे तथा निर्ममे ॥ १३४ ॥ गन्धाराख्यपुरे तदैव नृपतेर्दूताः सलेखाः शुभा - आयाता इति रामजीकमनजीकाद्यैर्महाश्रावकैः । श्रुत्वा हर्षभरात् सुवर्णमणिभिर्वर्द्धापिताः श्रीगुरोभूपाज्ञां निजहस्तलेखलिखितां सन्दर्शयन्त्युद्वदाः ।। १३५ ॥ आज्ञां भूमिपतेर्विचार्य यतिराद् शिष्यान्वितस्तत्पुराद्वर्षामा सचतुष्टयादनु शुभे सद्यचचाल क्षणे । रात्रौ ध्यानधरस्य तस्य सुगुरोः सुप्तस्य पेतुः पुरे कस्मिंश्चिज्जिनशासनामरकरान्मुक्ताः शिरस्युज्ज्वलाः ॥१३६॥ ईर्याशुद्धिधरा विहारपटवः श्रीसूरयोऽभ्यागताः दीप्रेऽहम्मदवादनामनगरे भूभूषणेऽर्हद्गृहैः । श्राद्धास्तत्र निवासिनो घनतरं चक्रुः प्रवेशोत्सवं कान्तारेऽपि सतां महोत्सवभवश्चेत्तन्न किं सत्पुरे ? ॥१३७॥ खानस्तत्र च साहिबाख्यनृपतिः श्रीपातिसाऽकब्बरादेशस्थः स्वसभाङ्गणे गुरुवरानाकार्य चक्रेऽर्चनाम् । अ ढौकितवांश्च रत्नकनकस्थालं विशालं न तनिर्ग्रन्थावलिनायकैर्गुरुवरैः स्पृष्टं करेणाप्यहो ॥१३८॥ एते निःस्पृहपुङ्गवा यतिवरांः श्रीमत्खुदारूपिणो दृश्यन्तेऽत्र न वेदृशाः क्षितितले दृष्टा विशिष्टाः कचित् । एवं तेन तदीयमुद्गलभटैः सम्यक्स्तवं प्रापिता २० बाद्याडम्बरपूर्वकं निजगृहात् साध्वाश्रमे प्रेषिताः ॥ १३९॥ तस्माच्छ्रीगुरवः पुराच्छुभदिने चेलुर्यतिभ्राजिताः स्युर्हसा इव साधवः स्वसमये नैव प्रमत्ता यतः । आयाताः क्रमतो विहारचारिणः श्रीपत्तनाख्ये पुरे Page #31 -------------------------------------------------------------------------- ________________ २१ जगद्गुरुकाव्यम् । तत्रत्ययवहारिभिर्वरमुदाङ्गेष्वर्चिताः स्वर्णकैः ॥ १४०॥ श्राद्ध्या तत्र कयाचिदत्यधिकया भावेन वित्तेन च .. कर्तुं श्रीजिनशासनोदयमिति श्रीमद्गुरोरागमात् ।। षड्लझै रचना त्रिकोघटनामहद्गृहस्सादरा द्विम्बन्यासमकारयच विविधानेकाङ्गिबोधिप्रदम् ॥१४१॥ विजयसेनमहोदयसूरिभिर्षिमलवाचकधर्मकसागरैः। घनतरैरपरैश्च कवीश्वरैः परिवृता गुरवोऽत्र समागताः ॥१४२॥ तत्राभूब्यवहारिवर्गविहितस्तादृक् तदाऽत्युत्सवो यादृग् वीरजिने समस्तगणभृत्साध्वन्वितेऽप्यागते । देवेन्द्रर्विहितश्चतुर्थसमये साक्षात्रिकोट्टाश्रये । सत्सु स्थान हि किं सतामनुकृतिः सर्वत्र सञ्चारिषु ?॥१४३॥ एवं सप्त दिनानि हीरविजयाचार्याः पुरेऽत्र स्थिता नित्यं सत्प्रतिमाप्रणामसमये तादृग्महःपूर्वकम् । चेलुस्तत्र च धर्मसागरमहोपाध्यायमुख्यान् यतीन् संस्थाप्याऽनुगमोद्यतान हितकरी दत्त्वा सुशिक्षां ततः ॥१४४॥ विजयसेनमहोदयसूरयो हठधरा निजसद्गुरुसेवने । अनुचरा इव सद्गुरुभिः समं पुरवरे खलु सिद्धपुरे गताः ॥१४५॥ तांस्तत्रैव विशिष्टवाक्यरचनां शिक्षा स्वगच्छार्पणा हत्त्वाऽऽस्थाप्य च तेऽथ शिष्यकलिताः श्रीशान्तिचन्द्रादिकान् । लात्वा सार्द्धमनल्पशास्त्रनिपुणांश्चेलुस्ततः पण्डितान् विज्ञा एव हि राजसंसदि सदा स्युर्भूषणं नापरे ॥ १४६ ॥ ते श्रीसूरिवराः सुहीरविजयाचार्या विहारक्रमाद् ग्रामे कौलिकराजके सुरतरौ प्राप्ताः सुशिष्यान्विताः । तत्राऽनेकमहोत्सवं धनिजनैः सार्द्ध स राजा व्यधा च्छ्रीगुर्वागममोदतो गुरुगुणश्रुत्यैव सावर्जनः ॥१४७।। राजा तत्र निजे गृहे निजवशावन्दापनार्थ गुरू नाकार्य स्वगृहाङ्गणे धृतपदान्मुक्ताफलैर्देववत् । वर्द्धाप्योत्तमवत्रचक्रममुचत्तेषां पुरो भावतः Page #32 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितं संगृह्णन्ति न तस्य खण्डमपि ते स्म त्यक्तलोभास्तदा ॥ १४८ ॥ तेषां निःस्पृहचेतसां नरवरः शुद्धोपदेशं तदा श्रुत्वा कौलिकनायकः पशुवधस्तैन्यादिदुष्कर्मणाम् । प्रत्याख्यानमनन्तसौख्यकरणं चक्रे स्वभृत्यैः समं सन्तो दुष्कृतवर्जका निजगिरा स्युर्दुष्कृतध्यायिनाम् ॥ १४९ ॥ भूपं कौलिकचक्रमादृतमहाधर्म विधायोद्यताश्वेलुस्तन्नगरात् सुहीरविजयाचार्या विहारक्रमात् । सीरोह्यां जिनचैत्यसन्ततिजितस्वर्नाथपुर्यां गताः पुर्या भावुकलोकनेत्रयुगलानन्द प्रदास्याम्बुजाः ॥ १५०॥ तत्र श्रीसुलताननामनृपतिः श्रुत्वा तदीयागमं पुर्यौ घोषणमित्यकारयदहो हट्टे गृहे मण्डनम् । स्वे स्वे यो न करिष्यति प्रणयतः श्रीमद्गुरोरागमे दण्ड्यो मे भविता स सर्वविभवध्वंसस्तु तस्यागतः ॥ १५१ ॥ श्रुत्वैवं सुगुरुप्रवेशमहसे चक्रुर्जना मण्डनं धाम्नां हट्टततेरिवात्ममनसां द्रव्यव्ययाद्वर्णकैः । मातङ्गांश्च हयान् विशिष्टरचनान् कृत्वा नृपोऽभ्यागतः पौरैर्निर्मलभूषणैः सममसौ तेषां पपात क्रमे ।। १५२ ।। पादाभ्यां नृपतिर्गुरोः पुर इव प्रेष्यश्चलन् भक्तितः पुर्या कारयति स्म दत्तविभवोऽर्थिभ्यः प्रवेशं तदा । श्राद्धानां हृदयेऽभवद्धरिकृतश्री नेमिनाथागम प्रोद्दामोत्सवराजिराजिततर श्रीद्वारिकापूः स्मृतिः ॥ १५३ ॥ तत्रार्हत्सदनेषु बिम्बनिवहं रूप्याश्मचामीकरा - रब्धं सूरिवराः प्रणेमुरनिशं राजेभ्यवर्गान्विताः । व्याख्यान्ति स्म च जैनवाङ्मयरसं राजादिसभ्याग्रतो राजस्त्रीभिरनेकयुक्तिरचनोद्यन्मौक्तिकस्वस्तिकाः ।। १५४ ॥ स्थित्वा तत्र कियद्दिनानि सुकृतप्राग्भारसंवर्द्धनं कुर्वन्तः पुरतस्ततोऽथ चलिताः सूरीश्वराश्चर्यया । ग्रामाऽनेक पुराणि पावितमहीपीठानि नित्याक्रमा - २२ Page #33 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम् । दुल्लङ्घयाशु गताः सुसाधुकलिताः श्रीमेडताख्ये पुरे ॥१५५॥ श्रुत्वा तत्र भटालिसेवितपदः श्रीसादिमो मुद्गल श्चक्रे सङ्घपुरस्कृतो हयगजैीरैः सहाभ्यागतः । सूरीणां नगरप्रवेशमहसे सर्वार्थिसाल्लक्षशो वित्तानि स्वभुजार्जितानि रचयन् श्रीजैनमार्गोदयम् ॥१५६॥ तेनेत्थं विविधोत्सवेन गुरवस्तत्र प्रवेश्यार्चिता स्तेषां शासनमात्ममूर्द्धनि धृतं जीवाऽवनाद्यं निजे । तत्र श्रीगुरुजातमत्सरभराः केचित् पुनर्लिङ्गिन___ स्तद्योग्योत्कटशिक्षया निजधिया कामं निषिद्धास्तदा ॥१५७॥ तत्राईत्प्रतिमाप्रणामविधये श्रीसूरयः सोद्यमाः सप्तक्षेत्रधनव्ययोत्थितफलं व्याख्यानयन्तोऽङ्गिनाम् । सम्यक्त्वं ब्रतधारितां यतिपथं वा भद्रकान्तस्थितिम् - केषाञ्चित् स्म ददत्यनन्वगुणिनः स्युर्यत्पराग्रहाः ॥१५८॥ स्थित्वा तत्र दिनद्वयं गुरुवराः शीघ्रं ततश्चारिणो मार्गाऽतिक्रमणेन संयमियुताः सन्मार्गनिर्वाहकाः । साङ्गानेरपुरे गता धनजनानन्दप्रदा दुर्मति च्छेदैर्विश्रुतनामधेयमहिमव्याप्तान्तरिक्षोदराः ॥१५९॥ साङ्गानेरपुरागमं यतिपतेः शुश्राव दिल्लीपतिः श्रीफत्तेपुरसर्ववर्णनिकरं चाभ्यागमे प्राहिणोत् । श्राद्धास्तत्र सुखासनोत्तमगजाध्यारूढपुत्राङ्गना युक्तास्तच्चरणारविन्दनतये तावत्ततोऽभ्यागताः ॥१६०॥ श्राद्धास्तत्र नवाङ्गपूजनाममे चक्रुः सुवर्णैस्तथा सूरीशस्य यथा च तैः समुदितैः कोशो भवेद्भपतेः । एकस्तीर्थकरोपमः कलियुगे संसारदुःखातिह चेन्नायं किल पूज्यते तदिह कः स्यात्पूजनार्हः परः ॥१६॥ श्राद्धैर्लक्षमितैविलक्षगणितैश्चान्यैर्नरौर्दल्लिराट् शिक्षातोऽत्र समागतैः परिवृताश्चेलुस्ततः सूरयः । श्रीमद्वीरजिनेन्द्रमन्त्रजपकास्तच्छासनोद्दीप्तये Page #34 -------------------------------------------------------------------------- ________________ २४ श्रीपद्मसागरगाणविरचितं भूपाकब्बर संगमाय विहितोत्साहाः पवित्राशयाः || १६२ || आयाता इह नाथहीरविजयाचार्याः सुशिष्यान्विताइत्थं स्थानकसिंहवाचिकमसौ श्रुत्वा नृपोऽकब्बरः । स्वं सैन्यं सकलं फतेपुरपुराद्गव्यूतषङ्कान्तरायातानामभिसम्मुखं यतिपतीनां प्राहिणोत् स्फीतियुक् ॥ १६३॥ पुत्रैरेव निजैस्त्रिभिः परिवृतस्तस्थौ नृपः पर्षदि म्लेछाः काफर एष जात इति मा कुर्वन्तु हृत्खेदिताम् । ध्यात्वैवेति न राज्यसंभवमदाद्यत्तादृशानां तथा सर्वेषामनुवर्त्तनं न च मदः स्वप्रेऽपि संपत्तिजः ॥ १६४॥ तत्सैन्यैर्ह यहस्तिवीरपदिकेरावेष्टिताः सर्वतः श्रीसूरिप्रवरास्तदीयवदनाम्भोजेक्षणप्रार्थिभिः । ब्रह्माण्डोदरपूरकारवभरेषूद्दामवाद्येष्विभ स्कन्धारूढसहस्रसंख्यमनुजाभ्यास्फालितेषूचकैः ॥१६५॥ श्राद्धीभिश्च पदे पदे निजकरप्रोच्छालितेषूलसन्मुक्ताराशिषु सर्वलोकवनितावर्गेण संनिर्मिते । रूप्यैर्न्यच्छनके विशिष्टवनिता क्लृप्तेषु गीतेष्विह प्राप्ताः श्रीमद्कब्बरौकसि तदा फत्तेपुरान्तः स्थिते ॥ १६६॥ ॥ युग्मम् ॥ स्वौकोद्वारि समागतान् यतिपतीन् दृष्ट्वा नृपोऽकब्बरः पुत्रैः स्वैः सममेव संभ्रमवशादुत्थाय सिंहासनात् । अभ्यागत्य ननाम तेन विधिना येनैष विज्ञैस्तदा श्राद्धः प्राचि भवे बभूव मनसीत्याशङ्कितं तार्किकैः ॥१६७॥ चङ्गाहोगुरुजीतिवाक्यचतुरो हस्ते निजे तत्करम् कृत्वा सूरिवरान्निनाय सदनान्तर्वस्त्ररुद्धाङ्गणे । तावछ्रीगुरवस्तु पादकमलं नारोपयन्तस्तदा वस्त्राणामुपरीति भूमिपतिना पृष्टाः किमेतद् गुरो ! ॥ १६८ ॥ आहुः सूरिवरा नरेन्द्र ! वसनाधः कीटिकाद्यङ्गिनां पीडा मत्क्रमजास्तु मेति हृदये धीः स्याद्यतेर्यत्नतः । Page #35 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम्। नैतस्योपरि मुच्यते न मयका वं पादपद्म जिनैः सर्वत्रापि यतेविशेषयतना प्रोक्ता स्वकीयागमे ॥१६९॥ सूरीणामितिवाक्यसंश्रवणतः श्रीपातिसाऽकब्बर स्तद्वस्ने स्वकरेण दूरविहितेऽधःकीटिकानिर्गमम् । दृष्ट्वा प्राप चमत्कृतिं गुरुगिरिप्रत्यक्षसंवादतः । सर्वज्ञागम एव शुद्ध इति चाहच्छासनस्थां पुनः ॥१७०॥ शुद्धायां भुवि सञ्चरन्नथ नृपः सञ्चारयंस्तान गुरून् । स्वस्वर्णासनसन्निधिं सुवचनैर्नीत्वाऽवदन्नीतिमान् । अत्रैवोपदिशन्तु धार्मिकशिरश्चूडामणिस्वक्रम स्पर्शात्पावितमध्यमेतदपि च स्याद्भालवन्मे गुरो ! ॥१७१॥ आहुः श्रीगुरवः सुवर्णरजतस्पर्शो न कल्प्यः सदा भिक्षूणामिति भूपते ! ननु मया तन्नोपवेश्यं त्विह । इत्युक्त्वा नृपतेरवग्रहमहीदेशे पवित्रे स्थिता भास्वत्पण्डितशान्तिचन्द्रगणिराड्धन्यादिशिष्यान्विताः।।१७२।। तेषां भूमिपतिः पुरः स्थित इति स्पष्टं जगौ शुद्धधी र्द्धम मुक्तिकरं वदन्तु मम भोः ! निर्दम्भवाक्यैर्मुदा । यादृग् वाङ्मयसन्ततौ त्रिजगतीनाथेन सन्दर्शितो यादृक् संप्रति साधुभिश्च गृहिभि नैरनुष्ठीयते ॥१७॥ इत्युक्ते क्षितिपेन भिक्षुपतयः प्राहुर्जिनोक्तागम___ श्लोकोच्चारपुरस्सरं विशदया वाचा सुधासारया । धर्म साधुगृहस्थयोग्यमसमैः सत्त्वाधिकैः पालितं ___ पाल्यं साम्प्रतबिन्दुमात्रमपि तं सिद्धिप्रदं शुद्धितः ॥१७४॥ तद्धर्मश्रवणादनन्तरमसौ चक्रे परीक्षां नृपः सूरीणां पुरतः सुवर्णनिभृतं स्थालत्रयं मुक्तवान् । द्रव्याऽमूल्यकवस्त्रराशिममुचद् गृह्णन्तु यच्छन्तु वा ऽन्येभ्यश्चेत्यवदद्विनीतवचनः श्रीपातिसाऽकब्बरः ॥१७५॥ प्राहुः सूरिवरास्तपोधनततेः कल्प्यं न चामीकरं द्रव्यं चान्यदपीह मोहजननात् संसारसंवर्द्धकम् । । Page #36 -------------------------------------------------------------------------- ________________ २६ श्रीपद्मसागरगणिविरचितं वस्त्रं चैतदपीशपिण्डकतया मूल्याऽतिरेकादपि ग्राह्यं नैव परप्रदानविधयोऽन्यार्थस्य नो सङ्गताः ॥ १७६॥ इत्थं सूरिवरान् परीक्ष्य विविधोपायैर्महीनायकतद्युतिमतां परीक्षितुमथ स्वैस्तार्किकैः पण्डितैः । सार्द्धं शास्त्रविचारसत्यसमयज्ञानाय सोऽवादय दक्षः शक्तियुतो दृढं हि कुरुते कार्य जनश्लाघितम् ॥ १७७॥ तत्रैकेन समस्त भूपविबुधोत्तंसेन सूरीश्वराः सार्द्धं जल्पमनल्पकल्परचितं कुर्वन्त्यनिन्द्यं स्म ते । भास्वत्पण्डितशान्तिचन्द्रगणयस्त्वन्यैः समयैः समं दत्ताज्ञा गुरुभिर्नृपेण च समं शिष्या विनीता यतः ॥ १७८॥ ते सर्वे विबुधास्तदीयवचनैन्ययोपपन्नैश्चम त्कारं प्राप्तहृदो वदन्ति नृपतेः स्मेत्यप्रतस्तात्त्विकाः । नास्माभिर्नरनाथ ! सुश्रुतवरा एतादृशाः पण्डिता युक्तिक्षोदसहार्यमार्गरचनावक्तृत्वयुक्पालनाः ॥१७९॥ इत्थं तैर्विहितस्तवं निजधियाऽऽचारं च तेषां नृपः श्रुत्वा वीक्ष्य परीक्षणक्षममसौ निर्दूषणं रञ्जितः । सूरीणामिदमाह योजितकरद्वन्द्वः पतन्मस्तको भूपाः स्युर्ननु भृत्यकर्मनिपुणा यन्निःस्पृहाणां पुरः || १८०॥ तुष्टोऽहं भवतां विचारचतुराचारं पुनस्तार्किक - श्रेणिश्लाघ्यविचक्षणत्वमसमं दृष्ट्वा गुणावर्जितः । भो श्रीसूरिवराः ! तदिष्टमनघं मत्तो ध्रुवं मार्गयन्तूक्तं यद्भवदागमे नृपहरिश्रीचक्रिभिः साधितम् ॥ १८१॥ इत्युक्ते क्षितिपेन हीरविजयाचार्या जगुर्भो नृप ! त्वत्पार्श्वेऽत्र यमर्थिभिर्गतभयैरस्माभिरभ्यर्ध्यते । गुप्तिक्षिप्त समस्त बन्दिजनतामोक्षः पुनर्डाबरे नो मत्स्यादिवधो न चागलितवाग्रहस्तटाकोत्तमे ॥ १८२॥ प्राप्ते पर्युषणाख्यपर्वणि तथाऽमारिप्रघोषो दिनान् यावत् सूर्यमितांस्त्वदीय सकले देशे त्वयाब्दं प्रति । Page #37 -------------------------------------------------------------------------- ________________ २७ जगद्गुरुकाव्यम् । कार्यश्चेति मदीप्सितं त्रयमिदं राज्याङ्कमुद्राङ्कितं कामं दत्तवता न किं नरपते ! दत्तं त्वया सांप्रतम् ? ॥१८॥ इत्युक्ते यतिपुङ्गवर्नरपतिस्तान बन्दिलोकान् घनान् गुप्त्यन्तश्विरसञ्चितान् कृतमहामन्तून मुमोच खयम् । यातस्तानिजपादनत्यनुरतान् श्रीमद्गुरूणां क्रम द्वन्द्वे पातयति स्म चाशिषदिमान् श्रीहीरनामाक्षरान् ॥१८४॥ मत्स्याद्यङ्गिगणावधं गलितवाहिं समुद्दिश्य स श्रीमहाबरनामकोग्रसरसि श्रीपातिसाऽकब्बरः । भृत्यैरुत्पटहं पुरेऽखिलजनज्ञानाय चाऽवादय चत्रैतद्विधिलोपकग्रहकृते छन्नं चरानादिशत् ॥१८५॥ प्रत्यब्दं नृपतिः समागतमहापर्वण्यमारिक्रमः कार्यो मद्विषयष्विति स्वलिखितं दत्ते स्म सङ्काय सः । यावहादशवासरानथ महापर्वागमे तादृशं तत्सर्वत्र तदर्थमेति सचरं तत्साधकं वर्त्तते ॥१८६॥ एवं श्रीगुरुमार्गितं नरपतिर्वस्तुत्रयं दत्तवान् सन्तः प्रार्थितदायका इति वचस्तेनैव सत्यं कृतम् । धन्यास्ते गुरवो यदीयवचनं भूमौ मनानापत द्धन्योऽसावपि यत्पुरो गुरुवरा जातास्तदभ्यर्थकाः ॥१८७।। श्राद्धोपाश्रयभूमिपावनकृते तेनैव भूस्वामिना दत्ताज्ञा अथ सूरिहीरविजया राजाङ्गणादुत्थिताः । तन्नुन्नैः कविराजतार्किकगणैर्वीरैरमात्यैः पुर. श्रेष्ठैश्वानुगतास्तदीयसदनद्वारादहिर्निर्गताः ॥१८८।। तावत्पादचरोऽनुगः क्षितिपतिः पादौ प्रणम्य स्थितः स्वौकोद्वारि समस्तसैनिकजनांस्तेषामनुप्राहिणोत् । वाद्यानीभशिरःस्थयोग्यपुरुषाध्यास्फालितान्युश्चकैः सूरीणां पुरतश्चकार च रथाश्वेभादिकां स्वश्रियम् ॥१८९॥ एवं भूपतिकारितेन महता ह्याडम्बरेणाथ ते सूरीशा नगरे चतुष्पथपथान्तःसञ्चरन्तस्तदा । Page #38 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितंशङ्कां तीर्थकरागमस्य हृदये केषां न चक्रुस्तथा प्रेम्णे तीर्थकरा इवाधिकधियां चासन् गुणैर्निर्मलैः ॥१९॥ श्राद्धास्तत्र पदे पदेऽथ मुमुचुर्वस्त्राणि सौवर्णिकान् सूरीणां जगृहुश्च याचकजनास्तेषां गुणाभाषिणः । श्राद्धीभिर्वरमौक्तिकैमणिगणैर्वर्धापनार्थ तदा नुन्नैः पाणियुगेन वारिनिधिवत्तद्भूतलं व्यानशे ॥१९१।। . आयाता अथ सूरयो यतियुता योग्ये पवित्राश्रये श्लोकं धार्मिकमेकमाप्तवचनं व्याख्यान्ति ते स्माऽनघम् । ब्रह्माऽयं किमिहागतः शुचितरं धर्म पुरस्ताच्चतु वर्णानामुपदेष्टुमेवमखिलाश्चक्रुर्विजाः शङ्कितम् ॥१९२॥ तत्र स्वस्तिकलक्षमक्षतगणाकीर्ण धनिस्वीकृता नेकन्युञ्छनवित्तकोटिरभवच्छ्रीस्थानसिंहादिकैः । इभ्य रूप्यसुवर्णनव्यवसनत्यागेन कोटिव्यया द्देश्यो मार्गणसञ्चयः परमहीजातोऽपि सन्तोषितः ॥१९३॥ कश्चिद्भट्टकविः कवित्वमतुलं नव्यं विधायोच्चकैः सूरीणां पुरतोऽवदच्च भवतां स्तोत्रेण लक्षं धनम् । लप्स्ये मत्तमतङ्गजं यदि भवद्भक्तैकसभ्येभ्यत स्तर्हि श्रीगुरुनायकान् क्षितितले श्रीधर्मराजान ब्रुवे ॥१९४॥ श्रुत्वा तद्वचनं गुरून्नतिकृते श्राद्धः सदारङ्गकः सान्वर्थो गजराजयुक्तमखिलं तस्मै धनं दत्तवान् । एवं श्रीगुरुराजहीरविजयाचार्यस्तवाधायिनः के के तत्र महार्थपात्रमभवन्नो मार्गणाः पण्डिताः ॥१९५॥ तस्मिन् वर्षचतुष्टयं नरवरस्यासन्नदेशे स्थिताः सूरीशा नृपपुङ्गवेन विविधोपायज्ञविनिजैः । रात्रावह्नि परीक्षिताः स्वयमपि च्छन्नं कृतश्रावका नेकास्तिक्यसुलक्षणेन विशदप्रज्ञेन शुद्धार्थना ॥१९६।। शुद्धाः सर्वपरीक्षणैर्गुरुवरा ज्ञात्वेति पृथ्वीपतिः सभ्यानां पुरतः स्वपर्षदि गुणांस्तेषां स्वधीशोधितान् । । Page #39 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम् । उक्त्वा सर्वयतीशहीरविजयाख्यानामदाद् भक्तितः - स्वैवाक्यबिरुदं जगद्गुरुरिति स्पष्टं महःपूर्वकम् ॥१९७॥ सूरीणां करतोऽथ शान्तिविबुधस्यादापयत्तार्किक__ श्रेष्ठत्वादिगुणैश्चमत्कृतमनाः श्रीवाचकाग्ज्यं पदम् । सद्यः स्थानकसिंहमुख्यसकलश्राद्धास्तदात्युत्सवं चक्रुः श्रीमति वित्तकोटिकलिताः फत्तेपुरे सर्वतः॥१९८॥ अन्येधुर्नरनाथहस्तलिखितं लात्वा त्रिलोकीगुरोः ___ शिष्याः श्रीगुरुमान्यधन्यविजयास्तभृत्यसंसेविताः । सूरत्यादिषु मुद्गलाश्रितजिनौकःसाधुसद्मव्रजं तन्मुक्तं जिनबिम्बसाधुकलितं श्राद्धस्तदाऽकारयन् ॥१९९॥ एवं श्रीगुरुहीरहीरविजयाचार्यान्नृपाऽकब्बरे णात्यन्तं रचितस्तुतीन् कृतमहापूजान् पुनः सत्कृतान् । आयातानथ गौ रे क्षितितले श्रुत्वा पुरान्मङ्गलात् स्तौतीत्थं शिशुपद्मसागरकविः प्रेम्णा विवेकान्वितः ॥२००॥ नत्वा सत्त्वनिधत्ततत्त्वचरितं श्रीपार्श्वनाथं जिनं स्तौमि श्रीनिधिमूत्तिहीरविजयं भट्टारकाग्रेसरम्। यस्य स्तोत्रधनुष्यसंख्यविदुषामासेदुषां शेमुषी बाणाली गुणसंस्थिताऽपि भुवने व्याप्ता न कैः श्लाघ्यते ॥२०१॥ श्लाघा ते मुनिराज ! कस्य वदने जिह्वेव नो विद्यते विद्या साऽपि न काऽस्ति देव ! तव या जिह्वान्तमासेदुषी । सन्ति त्वय्यनघाः पवित्रितदिशः सम्यग्गुणाश्चापरे • मत्वेतीव समस्तगच्छजनता त्वां स्वामिनं मन्यते ॥२०२॥ सोमत्वं तव निष्कलङ्कमतुलं नित्यप्रसारैः करै मन्ये व्योग्नि समेत्य शीतकिरणो जात्यार्थिवद्याचते । आदित्यस्तु तव प्रतापमचलं विश्वत्रयव्यापिनं तेन त्वत्पुरतो न कः क्षितितले सजायते याचकः ॥२०३॥ सूर्याचन्द्रमसौ गुणान्तममलं ते वीक्षितुं नायक ! .. स्रष्ट्रा व्योमतलाध्वशीघ्रतरगौ दूताविव प्रेषितौ । Page #40 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितंअप्राप्येव तदन्तमम्बुधितले खिन्नोऽविशद्भानुमान श्यामास्यः पुनरागतः शशधरो रात्रौ कलङ्कच्छलात् ॥२०॥ स्रष्टाऽथ स्वयमेव निर्मितगतियोम्नीव ताराच्छलात् स्वामिस्त्वद्गुणसंग्रहं निशि करोत्याक्षेपवान् सर्वदा । तद्यनाय दिवा तु निश्चलमतिर्भूत्वेव तिग्मच्छवि स्तिष्ठत्येष यतः सतां मतिरियं सद्वस्तुनः पालने । २०५ ॥ मूर्तिस्ते जिनमूर्तिवत्कलियुगे दुष्कल्मषध्वंसिनी शान्तैः कान्तमनोभिरीहिताहितैश्चित्ते निजे न्यस्यते । दुष्टैः कैश्चिदुपेक्ष्यतेऽथ तव न द्वेषो न चोल्लासिता __शीतांशोरमृते दुरम्बुनि समः किं नो भवेत्सङ्क्रमः? ॥२०६॥ देव ! त्वद्गुणसन्ततिर्गुणिजनैयस्ता निजे मानसे चित्रावल्लिरिव प्रवृद्धिजनिकाऽभूत्तद्गुणानां जने । दोषाक्तैरथ दूरिताऽद्भुतमिदं तदोषसंवर्धिनी यद्वा नाऽद्भुतमेतदुग्रमनसामुग्रा प्रवृत्तिर्भवेत् ॥२०७।। श्रीवीरस्य शिवङ्गतस्य विरहे दुःखार्दतप्राणिनां दुःखध्वंसकृते कलाविव विधिस्तत्तुल्यहीरं व्यधात् । तस्येवास्य भवेद्यदीयहृदयेऽभेदप्रतीतिः परा श्रेयःश्रीः करपङ्कजे स्थितवती कुर्याच तं तनिभम् ।।२०८॥ स्वस्त्यऽर्काय तमोभिदे भगवते लोकप्रकाशात्मने विश्वायाघनदानतो अवसरे वृत्तिं परां तन्वते । जाड्यच्छेदपराय दूरगजनोत्तापाय शस्तोदये भूदेवैर्विहितार्चनाय भवते भूयात् स्फुरद्रोचिषे ॥ २०९ ॥ लोकोन्मार्गनिदर्शनोद्भवमिव स्वागः स्मरन् लौकिकः शम्भुस्त्वय्युदिते श्रुते मुनिपते ! नश्यन् सुनीत्यद्भुते । भारं मूर्ति विमृश्य शीतकिरणं यं पुष्करे मुक्तवान् सोऽयं प्रभ्रमतीव सार्थपतिना मुक्तो गलिगौं: पथे ॥ २१० ।। कुर्वाणस्तव दर्शनं नयनयोर्लोकोऽनिमेषोऽभवत् त्वद्भाषाश्रवणाद्विवेकविकलोऽप्यासीद्विवेकान्वितः । Page #41 -------------------------------------------------------------------------- ________________ जगद्गुरुकाव्यम् | त्वत्पादाब्जनमस्कृतेर्मुनिपते ! निःस्खोऽपि सस्खोऽभवन्माहात्म्यं ननु कस्य मानसमिदं नो रञ्जयत्यद्भुतम् ॥२११॥ व्याप्तस्य प्रकटं त्रिलोकमपि ते स्वामिन् ! प्रतापोज्ज्वलद्वह्नेर्व्यानि गतेषु तारकमिषात्तारं स्फुलिङ्गेष्वहो । मन्ये दाहभयेन रात्रिसमये नोदेति भासांपतिवीरोऽप्युत्कटशक्तिमत्यपबलोऽदृश्यो भवेदागते ॥ २१२ ॥ मत्वैकं सुभटं त्रिलोकविकटं श्रीनन्दनं भस्मसा चक्रे ते मुनिराट् ! प्रतापहुतभुग् दुःसाध्यतेजा असौ । तस्मादप्यधिकस्य नेत्रकपटाद्वालं स्वयं भिन्नवान् गौरीशस्य ततस्त्रिलोचनतयेवाख्याऽभवद्भूतले ॥ २१३॥ ये श्रीवीरजिनेन्द्रशासनमिदं विस्तारयन्तः क्षिता भोदा इव दुग्धसिन्धुसलिलं प्राप्तास्ततोऽप्युन्नतिम् । केषां नो रुचये भवन्ति गुरुताश्रद्धानपूतात्मनां कामं काङ्क्षितदर्शना घनजनैर्जात्प्रभावाः कलौ || २१४॥ यान्नूनं प्रणमन्ति मानवगणाः सम्यग्गुरुत्वाशयानिर्णीयाऽपरगच्छनायकगणे सम्यग्गुरुत्वक्षयम् । प्रत्यूषे शशलाञ्छनादिनिकरे दृष्ट्वा प्रकाशक्षयं मार्त्तण्डं किमु नार्चयन्ति दिवसाधीशत्वसम्भावनात् ॥ २१५॥ यैश्चक्रे कृतिनां मतिः शुभतरा श्रद्धानपूतात्मनां श्रीमद्वीरजिनेन्द्रशासनतरोर्भास्वत्फलास्वादने । उच्छेद्यापरतीर्थमोहमदन दुन्मादनिष्णाततां यद्वैद्यान्निपुणान्न कः प्रकुरुते पथ्यादनं शुद्धधीः ॥ २१६ ॥ येभ्योऽयं गुणिपूरितस्तपगण: प्राप्नोत्युदग्रं यशस्तेजोजात्यमणेर्यतोऽधिकतरं हारोऽपि मुक्तान्वितः । येभ्यश्चेह परत्र मङ्गलधिया के के नमस्यन्ति न प्राप्तं केन यतोऽमृतं क्षितितले नास्वाद्यते धीमता ॥ २१७॥ येभ्यो नश्यति शासनं हरिहरब्रह्मादिदेवोदितं ध्वान्तं तिग्मकरादिवाधिकतमं रात्रिप्रभावोदितम् । ३१. Page #42 -------------------------------------------------------------------------- ________________ ३२ श्रीपद्मसागरगणिविरचितंयेभ्यश्चापि चकास्ति शासनमिदं स्याद्वादवादाङ्कितं ___ व्योमेवोष्णकरान् मनुष्यनिकरावस्थानमूर्द्धस्थितम् ॥२१८।। येषां प्राप्य पवित्रदाक्षिणकरस्पर्श निजे मस्तके ___ जायन्तेऽतिनिकृष्टवृत्तय इमेऽप्युत्कृष्टशिष्टश्रियः । वर्णत्वं किमु नाश्रयन्ति भुवने लोहानि योगीशितु• लब्ध्वा शुद्धरसान्वयं यत इह स्याद्रङ्गितासङ्गतः ॥२१९।। संक्रान्ता बत येषु निर्मलगुणाः ख्यातिं लभन्तेतरां __ शीतांशोरिव चन्द्रकान्तिमणिषु ज्योत्स्नाः सुधासङ्गतिम् । येषु स्वामिषु सत्सु भारतमिदं विभ्राजते सर्वतः श्रीसीमन्धरतीर्थनेतरि यथा क्षेत्रं विदेहाऽभिधम् ।। २२० । तेषां सद्वचनानि शुद्धरचनान्याकर्ण्य विद्वजना जानन्तीति कलावपीह भरते किं तीर्थनाथागमः ? । किंवा गच्छभृदागमः परकृते क्षेत्राद्विदेहाभिधात् स्वर्गाद्वा धिषणागमः किमथवा शुक्रागमो भूतलात् ॥२२१॥ स्वामिंस्त्वच्चरणे पतन्ति विमलात्मानो जनाः केवलं ये ते स्युर्भुवि भूरिमूर्द्धमणयश्चित्रं समानोदयाः । श्रुत्वा ख्यातिमिमां तवेश ! विशदां भाग्याधिलब्धर्द्धयः के के न भ्रमरीभवन्ति चरणाम्भोजे सदास्वादिनि ॥२२२।। नाथ ! त्वद्वदनोपमानमनघं दत्तं कवीशैः शशी आसाद्येव हरस्य मूर्ध्नि वसतिं लेभे कलाभ्युन्नतः । त्वद्वाणीसमतामवाप्य वसुधा मन्येऽभवन्नाकिनां भोग्या योग्यतया हि वस्तुनि न कः स्यादुद्यतः शुद्धधीः ॥२२॥ दृष्टं त्वद्वदनं गणेश ! गुणिनां दोषापहं सर्वदा चान्द्र मण्डलमन्यथेति विबुधैः किं गीयते तत्समम् ? । एषा मे वचनीयता क्षितितले माभूदितीवैणभृ च्छम्भोर्मूनि तपस्तनोत्यतनुकं गङ्गातटे निर्मले ॥२२४॥ पीत्वा त्वद्वचनं मनुष्यनिकरः सुस्थः समाध्युद्भवाहवानां निकरस्तु तत्समसुधां तृप्तस्तथा चाभवत् । Page #43 -------------------------------------------------------------------------- ________________ ३३ जगद्गुरुकाव्यम् । त्वं त्वेवं भुवनोपकारकरणेनैवाऽसि तृप्तः सदा त्वामेवं विबुधाः स्तुवन्ति गुणिषु प्राप्तैकरेखं समम् || २२५ || त्वत्कण्ठोपमितिं मुनीश्वर ! समासाद्येव कम्बुर्वरः कृष्णस्याऽपि जयप्रदाननिपुणः संजायते मङ्गलम् । तत्रत्यां स्वरसारतां बुधजनाः पीत्वेव तृप्ता इदं भाषन्तेऽमृत पूर्ण पूर्णकलशः किं वेधसाऽयं कृतः ? ॥ २२६ ॥ विद्याभिस्तव गच्छनाथ ! हृदयं सर्वाभिरष्याश्रितं क्षीराम्भोधिरिवाऽमलाभिरमलं स्रोतस्विनीभिः श्रिये । तज्जानेऽजनि सर्वतः पृथुतरं तद्वासदानाय यत् सन्तः स्युर्वसति प्रदानमतयः स्वैकाश्रयप्राणिनाम् ॥ २२७॥ देव ! त्वद्भुजयामलं मतिमतां दृग्मार्गमभ्यागतं हृद्येवं विदधाति तर्कमिह किं धात्रा समर्थाविमौ ? | सृष्टी मूर्द्धनि दुष्प्रहारविधये दण्डौ त्रिलोकोद्गत स्यानङ्गस्य महाभटस्य परमस्थाम्नाऽधिकत्वस्पृशा ॥ २२८ ॥ त्वत्कोष्ठे जलधाविवाऽतिगहने सिद्धान्तरत्नान्यहो ! तिष्ठन्ति प्रकटानि नायक ! तथा तस्थुर्यथा निर्मले । श्रीसौधर्मगणेशमुख्यसकलाचार्योदरे तद्बुधा मत्वेतीव वदन्ति तत्तदनुगं त्वां ख्यातविद्यागुणम् ॥ २२९ ॥ उत्सङ्गस्तव देव ! देववनितातुल्याङ्गनालिङ्गन त्यागी शैशवजातितोऽपि विबुधाधीशोऽस्ति मन्ये ततः । साधुत्वे सदृशेऽपि देववनितोत्सङ्गा वशिष्ठादिका लज्जातो मुनयो गताः कचिदहो ! निर्मानुषे कानने ॥ २३० ॥ • देवो रुद्रमद्भुतं तव सदारम्भाफलाभ्यन्तरस्पर्श नैव कदाचिद्द्भुततरं पस्पर्श नारीतलम् । मत्वेतीव सुवृत्तजानुमिषतः सद्वृत्तकोशं न्यधाद्धाता तत्र ततस्तपोगणपते ! सद्वृत्तता ते मता ॥२३१॥ देव ! त्वश्चरणौ सुरासुरनराधीशप्रणामोचितौ मत्वेतीव विधिश्वकार विशदच्छत्रादिचिह्नाङ्कितौ । Page #44 -------------------------------------------------------------------------- ________________ ३४ सर्वोर्द्धार्थविशेषसंगमवशात्तत्रोर्द्धरेखां व्यथा दैवं त्वां स्तवनं नयन्ति विबुधाः श्रीहीरभट्टारक ! ॥२३२॥ मङ्गलाख्ये पुरे मोदादेवं काव्यं जगद्गुरोः । चकार सर्वसिद्ध्यर्थे पण्डितः पद्मसागरः ॥ २३३ ॥ इति महोपाध्यायश्रीधर्मसागरगणिपण्डितोत्तंसपं-श्रीविमलसागरगणिशिष्यपं - पद्मसागरगाणविरचितं जगद्गुरुकाव्यं संपूर्णम् । लिखितं मङ्गलपुरे संवत् १६४६ वर्षे द्वितीयभाद्रपदसित ११ दिने ॥ पृष्ठम् पङ्क्तिः १ २४ ५ " १३ १४ " १९ २४ २५ " २६ G १६ २७ ५ w or 5 w o २६ २ ५ श्रीपद्मसागरगाणिविरचितं ६ २० तृणो २१ ॥ शोधनपत्रम् ॥ अशुद्धम् नव षण्मासी तपसा -गुरु वचः स्थिति -सुते • -श्चित्ते नाथ - गिरिप्र -च्छासनस्थां 元 भो शुद्धम् न चे षण्मासीतपसा -गुरो वचःस्थितिं -सुते -श्चित्तेs तृणौघे नाथ ! -गिरि प्र -च्छासनास्थां भोः ! Page #45 -------------------------------------------------------------------------- ________________ यशोविजयजैनग्रन्थमालायामधाच १. प्रमाणनयतत्त्वालोकालङ्कारः-जैनन्यायदर्शनस्यापूर्वोऽयं प्रवे शग्रन्थः, कर्ता चास्य श्रीवादिदेवमूरिः। मूल्यम् ०-८-० २. हैमलिङ्गानुशासनम्-अवचूरिसहितम् । लिङ्गबोधकोऽयं मनो हरो ग्रन्थः । कर्ताऽस्य श्रीहेमचन्द्राचार्यः। ०-५-० ३. सिद्धहेमशब्दानुशासनम्-लघुत्तिधातुपाठादिसहितम्-व्या करणे व्युत्पित्सूनां सरलोऽयं ग्रन्थः-कर्ता ऽस्य श्रीहेमचन्द्राचार्यः, २-८-० ४. गुर्वावलिः-श्रीमुनिसुन्दरमरिरचिता-अस्यां श्रीमहावीरमारभ्य मुनिसुन्दरमरिपर्यन्तं तपागच्छीया_याणां संक्षिप्तमितिवृत्तम् । ५. रत्नाकरावतारिकायाः टिप्पणपञ्जिकासहितायाः परिच्छेदव यम्-प्रमाणनयतत्त्वालोकालङ्कारस्य व्याख्यानरूपं रत्नप्रभाचार्यविरचितम् । १-०-० ६. सिद्धहेमशब्दानुशासनम्-मूलमात्रम् । ०-५-० ७. जैनस्तोत्रसंग्रहः-प्रथमो भागः। ०-६-० ८. द्वितीयो भागः। १-०-० ९. मुद्रितकुमुदचन्द्रप्रकरणम्-श्रीश्रावकयशश्चन्द्रकृतम् ०-८-० १०. क्रियारत्नसमुच्चयः-गुणरत्नमरिरचितः-सकलवैयाकरणानामुपकारी २-०-० ११. श्रीसिद्धहेमशब्दानुशासनमूत्रपाठस्याकारादिक्रमेण सूचीपत्रम् । ०-४-० १२. कविकल्पद्रुमः-श्रीहर्षकुलगणिविरचितः। आाछन्दसा नि बद्धोऽयं ग्रन्थो धातुतदर्थतदनुबन्धादिप्रबोधको विद्यार्थिजनानामुपकारकः। ०-४-० Page #46 -------------------------------------------------------------------------- ________________ श्रीपद्मसागरगणिविरचितं .: श्रीसिद्धसेनसर्वोर्द्धार्थविशेषसंगमवशात्तत्रो देवं त्वां स्तम्-..गच्छायामयदेवमूरिरचितया त पायेन्या व्याख्यया विभूषितः / अयं ग्रन्थो जैनदार्शनिकविषयस्य सम्यग्विवेचकः सकलन्यायग्रन्थानां मौलिमुकुटतामावहति / 3-0-0 14. जगद्गुरुकाव्यम्-श्रीपद्मसागरगणिविरचितम् / अस्मिन् खण्डकाव्ये जगद्गुरोः श्रीहीरविजयसूरेः संक्षिप्तमपि रसपरिपूर्ण जीवनचरित्रं वर्तते / पूज्यसूरेः श्रीमदकब्बरसाहिना सह जाताया धर्मचर्चाया मनोहरं वृत्तान्तमपि निवेदितं अस्ति / ग्रन्थका चेदं काव्यं ऐतिहासिकदृष्टयाऽपि समीचीनतया वर्णितम् / यस्य पठनेन सर्व स्वयमेवाविर्भविष्यतीत्यलं बहुना / 0-4-0 15. श्रीशालिभद्रचरितम्-टिप्पणसहितं श्रीधर्मकुमारसुधिया विरचितम् / अपूर्वोऽयं कथाग्रन्थः / 1-4-0 16. न्यायसंग्रहः-न्यायार्थमञ्जूषाबृहद्वृत्तिन्यासादिसहितः। स कलन्यायानां (परिभाषाणां) ज्ञापकादिबोधकोऽयं ग्रन्थः / कर्ताऽस्य श्रीहेमहंसगणिः / 3-0-0 gyanmandir@kobatirth.org. ग्रन्थेषु Serving Jinshasan 1. महाकाव्यानि(१) श्रीमेरुतुङ्गाच श्रीशीलरत्नसू 080059 (2) सिद्धसारस्वत वेलासकाव्यम् (3) श्रीरत्नमण्डनगणिकृतं सुकृतसागरकाव्यम्(४) श्रीअमरचन्द्रसूरिविरचितं, पद्मानन्दकाव्यम् -प्राप्तिस्थानम् :शा. हर्षचन्द भूराभाई अंग्रेजीकोठी, बनारस सिटी /