SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अहम् श्रीविजयधर्मसूरिभ्यो नमः । श्रीपद्मसागरगणिरचितंजगद्गुरुकाव्यम् । नत्वा श्रीबलिजं जिनं जयकर श्रीपार्श्वनाथं पुन ध्यात्वा श्रीत्रिपुरां त्रिलोकमाहितां सद्बुद्धिसिद्धिश्रियम् । काव्यं वक्ति जगद्गुरोः शिशुरसौ भावाऽवनम्रस्त्रिधा . हीराह्वस्मृति पद्मसागरकविः सौराष्ट्रराष्ट्रस्थितः ॥ १॥ जम्बूद्वीपभुवो विभूषणतरे क्षेत्रे वरे भारते . स्वर्णस्थालतलस्य दीपक इवोद्यन्मोदकक्षोदके । अस्ति स्वस्तिगृहं द्विषोडशसहस्रोद्दामदेशोल्वणं खण्डं मध्यममुत्तमैनरवरर्भोज्यं सदाज्यान्नवत् ॥ २ ॥ देशस्तत्र च गूर्जरोऽजरजनः स्ववत् सुवर्णान्वितो .. गीर्वाणाऽचलवद् गुणादरकरः कामं धनुर्धारिवत् । ... '. साध्वीसाधुविशेषसंयमसुखः सद्गच्छवच्छ्रीयुतः शश्वत् केशववद्विचित्ररचनः शृङ्गारवद्राजते ॥ ३ ॥ श्रीप्रह्लादननामकं पुरवरं तत्राऽस्ति यत्रैधते श्रीप्रह्लादनपार्श्वनाथसदनं चक्रेशसैन्यं यथा । सद्रत्नाऽक्षतपूरपूर्णनिधिकं चित्राङ्गमातङ्गजो दाराश्वं च पुरोहिताङ्गसचिवं वीराधिवीराश्रितम् ॥ ४ ॥ कुंरस्तत्र वणिक्कलासु निपुणः सम्यक्तपूतोऽभव दोकेशान्वयभूषणं धनवतां मध्ये प्रतिष्ठां गतः । जिग्ये येन सितोदरः पटुधनैर्वर्गत्रयीसाधनै नोंचेदेष ततः कथं नरपुरे नामाऽवशिष्टोऽधुना ? ॥ ५॥ नाथी तस्य पतिव्रता कुलवधूधर्मोदिता सुन्दरी गेहं भूषयतीव कल्पलतिका मेरुं सुपर्वोत्सवम् ।
SR No.002309
Book TitleJagadgurukavyam
Original Sutra AuthorN/A
AuthorHargovinddas Pandit, Bechardas Pandit
PublisherHarakhchand Bhurabhai
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy