________________
३३
जगद्गुरुकाव्यम् ।
त्वं त्वेवं भुवनोपकारकरणेनैवाऽसि तृप्तः सदा
त्वामेवं विबुधाः स्तुवन्ति गुणिषु प्राप्तैकरेखं समम् || २२५ || त्वत्कण्ठोपमितिं मुनीश्वर ! समासाद्येव कम्बुर्वरः कृष्णस्याऽपि जयप्रदाननिपुणः संजायते मङ्गलम् । तत्रत्यां स्वरसारतां बुधजनाः पीत्वेव तृप्ता इदं
भाषन्तेऽमृत पूर्ण पूर्णकलशः किं वेधसाऽयं कृतः ? ॥ २२६ ॥ विद्याभिस्तव गच्छनाथ ! हृदयं सर्वाभिरष्याश्रितं
क्षीराम्भोधिरिवाऽमलाभिरमलं स्रोतस्विनीभिः श्रिये । तज्जानेऽजनि सर्वतः पृथुतरं तद्वासदानाय यत्
सन्तः स्युर्वसति प्रदानमतयः स्वैकाश्रयप्राणिनाम् ॥ २२७॥ देव ! त्वद्भुजयामलं मतिमतां दृग्मार्गमभ्यागतं
हृद्येवं विदधाति तर्कमिह किं धात्रा समर्थाविमौ ? | सृष्टी मूर्द्धनि दुष्प्रहारविधये दण्डौ त्रिलोकोद्गत
स्यानङ्गस्य महाभटस्य परमस्थाम्नाऽधिकत्वस्पृशा ॥ २२८ ॥ त्वत्कोष्ठे जलधाविवाऽतिगहने सिद्धान्तरत्नान्यहो !
तिष्ठन्ति प्रकटानि नायक ! तथा तस्थुर्यथा निर्मले । श्रीसौधर्मगणेशमुख्यसकलाचार्योदरे तद्बुधा
मत्वेतीव वदन्ति तत्तदनुगं त्वां ख्यातविद्यागुणम् ॥ २२९ ॥ उत्सङ्गस्तव देव ! देववनितातुल्याङ्गनालिङ्गन
त्यागी शैशवजातितोऽपि विबुधाधीशोऽस्ति मन्ये ततः । साधुत्वे सदृशेऽपि देववनितोत्सङ्गा वशिष्ठादिका
लज्जातो मुनयो गताः कचिदहो ! निर्मानुषे कानने ॥ २३० ॥ • देवो रुद्रमद्भुतं तव सदारम्भाफलाभ्यन्तरस्पर्श नैव कदाचिद्द्भुततरं पस्पर्श नारीतलम् । मत्वेतीव सुवृत्तजानुमिषतः सद्वृत्तकोशं न्यधाद्धाता तत्र ततस्तपोगणपते ! सद्वृत्तता ते मता ॥२३१॥ देव ! त्वश्चरणौ सुरासुरनराधीशप्रणामोचितौ
मत्वेतीव विधिश्वकार विशदच्छत्रादिचिह्नाङ्कितौ ।