SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ जगद्गुरुकाव्यम् । तावच्छ्रीजयमल्लभूपतिरसौ भूमौ पतन्नित्यवक् भो वीराः ! अथ यास्यतीव कुसुतो हस्तादयं पर्वतः । तस्मान्मन्मुखदर्शनो धनजनानत्राधिरूढान्निजे स्थानं साधु नयन्तु मार्गकरणेनात्मीयदोर्वीर्यतः ॥११३॥ जल्पन श्रीजयमल्लभूपतिरिति प्राप्तस्तदा पञ्चतां __ लोकास्तत्र घनाः स्थिता निजनिजश्रीदेवसेवापराः । वीराः श्रीमति चित्रकूटनगरद्वारेऽसिकुन्तग्रहा निघ्नन्तोऽभिपतद्भटावलिशिरांसीवाममृगोलकान् ॥११४॥ भूपाकब्बरनुन्नवीरनिचयाः सद्योऽधिरूढा गिरौ __ हत्वा श्रीजयमल्लभूपतिभटान्निर्नायका यत् कुतः । जीवन्तो जयिनो भवन्ति च तथा बीराधिवीराप्रतः प्रायः स्वामिदशानुसारिबलिनः स्युः सेवकाः सर्वदा ॥११५॥ वीरैस्तत्र वृतोऽप्यकब्बरनृपोऽध्यारूढ उच्चैरिव व्योम्न्यर्कः प्रबलप्रतापकलितः कोपोद्धरस्तन्नृषु । आदेशं स वधस्य मुद्गलततेः शीघ्रं ददौ यन्नरः कोपात् किं न करोति वक्ति च हृदन्धीकारकत्वस्पृशः?॥११६॥ भूपाकब्बरवाक्यमाप्य सुभटा दुष्टास्तथा चक्रिरे ___ तत्राऽभूद्भुवि शोणितोदकनदीपूरं यथा सर्वतः । तत्र स्थालुमशक्त एष नृपतिर्नीचैस्ततोऽप्युत्तरन् मार्गस्थां च विदारितोदरतलां निष्फातिताऽङ्गोद्भवाम् ॥११७॥ दृष्ट्वा सुन्दरसुन्दरी नरपतिः कारुण्यपूर्णस्तदा हा हा किं मयकाऽत्र कारितमिदं चण्डालकर्माधिकम् ? । कुवैश्वानुशयं शिरः करयुगेणास्फालयन्नित्यवक् यः पापं किल चित्रकूटरचनं गृह्णाति तस्याप्यहम् ॥११८॥ एनं देशपुरान्वितं गिरिवरं स्वर्णादिकं चार्पया मीत्याकर्ण्य नराऽधमोऽथ जगृहे कश्चित्त्वघं मुद्गलः । तहत्तं च गिरीश्वरं पुरवरग्रामाद्युपेतं तदा लोभात् किं न नरः प्रपद्यत इह स्वाम्युक्तवाक्सञ्चयम्॥११९॥
SR No.002309
Book TitleJagadgurukavyam
Original Sutra AuthorN/A
AuthorHargovinddas Pandit, Bechardas Pandit
PublisherHarakhchand Bhurabhai
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy