SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीपद्मसागरगणिविरचितं स्तावद्वादरभूपतिनिजबलाविष्टः प्रनष्टस्तदा । गत्वा मालवमण्डलेऽतिगहने कोट्टं दृढं मण्डपा__भिख्य सज्जयति स्म सजविभवस्तत स्पष्टयुद्धासहः ॥ ६४ ॥ तं नष्टं स निशम्य मालवपथे व्यक्ताभिमानोऽचल हूरे मालवको यमस्य किमयं दृष्टान्त इत्येष यत् । रुद्धा मण्डपकोट्टमुद्भटभटैम्ब्वाख्यमब्धिर्यथा द्वीपं दुर्द्धरवीचिभिः स्थितिमसौ दिल्लीपतिर्निर्ममे ॥ ६५ ॥ भनः स्तोकदिनैर्गजैर्भटघटानुन्नैः स वप्रो दृढो ऽपीवाद्रिः कुलिशानलैर्हरिकराध्यास्फालनोत्थैस्ततः । नष्टस्तुच्छभटः प्रकम्पहृदयः स्पष्टं गतो गौजरे पावाद्रौ विविधर्द्धिभूषितगृहे स्वर्गावतारेऽधिकम् ॥ ६६ ॥ लात्वा मण्डपपर्वतं धनरथाश्वेभैश्च मत्त्यैर्भूतं . कोटीशैः स्वविलासधिक्कृतनराधीशैरुदारात्मभिः। आज्ञा मालवमण्डले निजभटैसर्द्धि समारोपय द्वाट्यां कल्पलतामिवोत्तमफलामारामिकः सिद्धिवित् ॥ ६७ ॥ पावाद्रौ विहितस्थिति निजचरैर्मत्वा पुनर्बादरं दिल्लीशः स्वभटावृतोऽत्र गतवान् सद्यः प्रयाणैः सुधीः । कर्तु यद्विबुधैः समस्तपुरुषाध्यक्षं मुखे भाषितं तत्कार्य न समाप्तिमेति सुधियां यावन्न तावत् स्थितिः॥ ६८॥ श्रुत्वा काबिलनायकागममसौ नष्टस्ततो बादरो___ यो यस्माच्चकितो हि तस्य पुरतस्तस्यैवमेवं गतिः । श्रीमत्स्तम्भनपार्श्वनाथविशदे श्रीस्तम्भतीर्थे गतः सद्धर्मादिकवर्गसाधकजनाकीर्णे धनाध्यासिते ॥ ६९ ॥ ज्ञात्वा तत्र गतं चरैश्च चलितः सद्यो हमाउस्ततः सन्ध्यायां स तथा यथागमदिह प्रातर्भटावेष्टितः। अब्धेर्भानुरिवाशुपूरकलितः खेऽन्यायिघूकक्षयी तेजस्वी नयतः करोति हृदये शङ्कां व्रजन सर्वतः ॥ ७० ॥ रत्नस्वर्णभृतान्यनेकशकटान्यब्धेस्तटे बादुर
SR No.002309
Book TitleJagadgurukavyam
Original Sutra AuthorN/A
AuthorHargovinddas Pandit, Bechardas Pandit
PublisherHarakhchand Bhurabhai
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy