________________
जगद्गुरुकाव्यम् ।
एवं तर्कपरस्य तस्य नृपतेर्मार्गे समागच्छतः
पार्श्वे श्रीजयमल्लनामनृपतिर्दूतं तदा प्राहिणोत् । दूतोऽप्याख्यदिदं महीश ! नृपतिश्रीराणभृत्यान्तिमो
मद्वक्त्रे जयमल्लभूपतिरिति त्वां ख्यापयत्युत्कटः ॥ ९९ ॥ त्वं चेद्भपहमाउनन्दन इति ख्यातोऽसि तीत्र मे
वक्त्रं दर्शय चेन्न तर्हि रुचिते स्थाने ब्रजान्यत्र वा। त्वद्भक्तिं च विधातुमत्र विभुना राणेन संस्थापितः
प्रेष्योऽहं परमेश्वरस्य तदनु श्रीराणभूस्वामिनः ॥ १०॥ दूताख्यातमिदं निशम्य नृपतिः पूर्व ततोऽत्रापतत् __ कोट्टं पर्वतमस्तकस्थितमसौ श्रीचित्रकूटाभिधम् । दध्यौ वीक्ष्य हृदीति किं सुरगिरिः किं वैष कैलासको
वैताढ्यः किमु किं हिमाचल इव श्रीरोहणाद्रिः कथम्?॥१०१॥ एवं तर्कपरोऽपि सत्त्वजलधिस्तद्भखनायोद्यत
श्चक्रेऽकब्बरभूपतिर्घनतरोपायान भटप्रेरकः । उच्चैःस्थो जयमल्लभूपतिरमुं वाणिज्यकारोपमं
चित्ते चिन्तयति स्म नृत्यमनिशं पात्रैस्तदाऽकारयत् ॥१०२॥ वीरास्तत्कपिशीर्षकेषु सबला भूपेन संस्थापिता__ वर्षन्तो विविधाश्मलोहनिबिडास्त्राणीव मेघाश्छटाः । चित्रं मुद्गललोकधान्यविषयं दुष्कालनीतिं तदा
चक्रुः कोट्टमहीतले च विजयव्यासङ्गसौभिक्षकम् ॥१०३॥ सामान्योऽपि जनस्तदा धनिबलात् कोहोर्द्धभूमौ स्थितो . · धिक्कारं वचसा विधाय मुमुचे यत् प्रस्तरार्द्धार्द्धकम् । तत् सैन्येऽजनि मौद्गले हरिकरव्यामुक्तवस्रोपमं
तेजस्विन्यधिपे दिवाकर इवाहःसन्निभाः सेवकाः ॥१०४॥ एवं श्रीजयमल्लभूपसुभटश्रीचित्रकूटाचल
त्राणार्थ स्वकरद्वयं खरतरैः शस्त्रैर्न शून्यं कृतम् । वक्त्रं मुद्गलनाथधिक्कृतिकृते दुष्टैर्वचोभिर्जनैः
सामान्यैरपि चित्रकूटनगरान्तर्वासिभिः सादरम्॥१०५॥