________________
श्रीपद्मसागरगणिविरचितं
संप्रत्युत्तमधार्मिकेऽस्ति नगरे गन्धारके बन्दिरे ॥ १३३॥ श्रुत्वेत्याह महीपतिर्मम महाभृत्यान् सलेखानितः पार्श्वे तस्य गुरोरिहोत्तमगुरोराकारणायोद्यतान् । शीघ्रं प्रेषय तं च शिष्यकलितं ह्यत्रानयेत्युत्तमा. माज्ञां प्राप्य महीपतेः स सचिवः सर्वे तथा निर्ममे ॥ १३४ ॥ गन्धाराख्यपुरे तदैव नृपतेर्दूताः सलेखाः शुभा -
आयाता इति रामजीकमनजीकाद्यैर्महाश्रावकैः । श्रुत्वा हर्षभरात् सुवर्णमणिभिर्वर्द्धापिताः श्रीगुरोभूपाज्ञां निजहस्तलेखलिखितां सन्दर्शयन्त्युद्वदाः ।। १३५ ॥ आज्ञां भूमिपतेर्विचार्य यतिराद् शिष्यान्वितस्तत्पुराद्वर्षामा सचतुष्टयादनु शुभे सद्यचचाल क्षणे । रात्रौ ध्यानधरस्य तस्य सुगुरोः सुप्तस्य पेतुः पुरे कस्मिंश्चिज्जिनशासनामरकरान्मुक्ताः शिरस्युज्ज्वलाः ॥१३६॥ ईर्याशुद्धिधरा विहारपटवः श्रीसूरयोऽभ्यागताः दीप्रेऽहम्मदवादनामनगरे भूभूषणेऽर्हद्गृहैः । श्राद्धास्तत्र निवासिनो घनतरं चक्रुः प्रवेशोत्सवं
कान्तारेऽपि सतां महोत्सवभवश्चेत्तन्न किं सत्पुरे ? ॥१३७॥ खानस्तत्र च साहिबाख्यनृपतिः श्रीपातिसाऽकब्बरादेशस्थः स्वसभाङ्गणे गुरुवरानाकार्य चक्रेऽर्चनाम् । अ ढौकितवांश्च रत्नकनकस्थालं विशालं न तनिर्ग्रन्थावलिनायकैर्गुरुवरैः स्पृष्टं करेणाप्यहो ॥१३८॥ एते निःस्पृहपुङ्गवा यतिवरांः श्रीमत्खुदारूपिणो
दृश्यन्तेऽत्र न वेदृशाः क्षितितले दृष्टा विशिष्टाः कचित् । एवं तेन तदीयमुद्गलभटैः सम्यक्स्तवं प्रापिता
२०
बाद्याडम्बरपूर्वकं निजगृहात् साध्वाश्रमे प्रेषिताः ॥ १३९॥ तस्माच्छ्रीगुरवः पुराच्छुभदिने चेलुर्यतिभ्राजिताः
स्युर्हसा इव साधवः स्वसमये नैव प्रमत्ता यतः । आयाताः क्रमतो विहारचारिणः श्रीपत्तनाख्ये पुरे