________________
श्रीपद्मसागरगणिविरचितं
ढक्कावादनपूर्वकं नरपति: सूरोऽपि सैन्यं निजं सन्नद्धं विविधाऽस्त्रपङ्क्तिकिरणैलुप्पोष्णपादांशुकम् । एकीकृत्य चचाल मुगलपतेः सैन्यं तृणप्रायकं
जानम् मत्तमतङ्गजावलिरणगुण्टारवाडम्बरः ।। ५० ।। सङ्ग्रामाङ्गणमागतं क्षितिपतिं दृष्ट्वा हमाऊनृप
स्तं वीरान् द्विसहस्रमानगणितान् युद्धार्थमाज्ञापयत् । प्राज्यान् यत्तृणपूलकान् शिखिकणा द्वित्रा न किं भस्मय- . न्त्येवं चेतास चिन्तयन्निजबलस्कन्धे स्थितः सोद्यमः ।। ५१ ।। तावद्भिः सुभटैर्घनैरिव भृशं बाणाम्बुधारोचयान्
वर्षद्भिर्नवलक्षसैन्यमसमं चक्रे विवद्व्याकुलम् | द्वित्राः किं न मृगारिमत्तशिशवः कोटी भदर्पापहाद्वित्रा बामृतबिन्दवः पृथुतराऽसाध्यैक रोगापहाः ||५२॥ तैः सैन्यं निजमाकुलं कृतमिदं वीक्ष्याशु सूरो नृपः
सङ्ग्रामाभिमुखोऽभवद्गजघटाध्यास्फालितारिव्रजः ।
·
निघ्नन् बाणगणैरलक्ष्यचरितैः कान्ताकटाक्षैरिव
त्यक्तास्त्रं द्विसहस्रमानगणितं सैन्यं चकारानुगम् ॥५३॥ सैन्ये तावति शस्त्रदर्परहिते पश्चात् समागच्छति द्विट्चक्रे जयतीह सूरनृपतिश्चेत्युद्धतं गर्जति । श्रीमन्मुद्गलनायकोऽपि सुभटैर्लक्षप्रमैरुत्थितः
किं शेषः स्वफणावृतः क्षितितलादागादरिप्रासकृत् ? ॥ ५४ ॥ श्रीसूरोऽपि हमाउरप्यभिमुखं बीरोर्नजेर्वेष्टितौ
कुर्वाणाविव युद्धमुद्धतामिमावादित्यराहू क्षितौ । किं व्योम्नः पतितौ पुनः पुनरिवोत्प्लुत्यान्तरिक्षाशयायातोऽप्यूर्द्धमितीह साधु कुरुतस्तर्क सतां मानसे ।। ५५ ।। तावत्काबिलनायकः करतले धृत्वा धनुर्दोष्मतां
मुख्यः सूरबले ललाटतिलकं केषां विभिन्नं पुनः । केषाञ्चिद् हृदयं चकार जठरं मूत्रप्रदेशं पुनः
केषाञ्चित्करयामलं करयुगं केषाञ्चिदत्रव्रजम् ॥ ५६ ॥ बाणासारमिति प्रवर्षति नृपे तस्मिन् स्वयं तद्भटे