________________
६
श्रीपद्सागरगणिविरचितं
लब्धे शिष्यवरे हि यः शुचितमां दत्ते न विद्यां निजां निर्विद्यः स भवे परत्र भविता धिक्कारमेत्यत्र च ।। ३५ ।। शुद्धांशे सकलग्रहेषु पदवीमुच्चाङ्गतेषूत्तमे
श्रीगुरुभूपतिर्विधिधरः श्रीसूरिमन्त्रं ददौ ।
लक्षेभ्यैर्विहितेऽत्र हीरविजयाचार्याय कोटिव्यये
हीरार्थं कुरुते न किं धनिजनः कोटिव्ययं बुद्धिमान् १ ||३६|| निश्चिन्ता गुरवः स्वपट्टविवधारोपात् स्वशिष्येऽधिके
श्रीहीरे निजकार्यसाधनपरा व्यापारमासूत्रितम् । गच्छस्यास्य विमुच्य संयमसुखे मग्ना रसे शान्तिके जग्मुर्देवगृहं विशुद्धमनसोऽर्हदुध्यानलीनास्ततः ॥ ३७ ॥ गच्छेऽस्मिन्नथ चारुहीरविजया भट्टारकत्वं गता
निर्ग्रन्थान् द्विसहस्रमानगणितान् संशिक्षयन्त्यादृताः । वाक्यैर्हचितैर्मितैर्हितकरैर्जेने रिवाकर्कशे
श्वारित्रोपकृतिप्रदानविधिना सन्तोषयन्ति क्रमात् ॥ ३८ ॥ देशे यत्र पुरेषु येषु विहृतिं चक्रुस्त्विमे सूरयः सप्तक्षेत्रधनव्ययो धनिकृतस्तत्राऽभवत्तेषु वा । जीवाऽमारिरहर्निशं व्रतकृतिदनोद्धृतिर्भाविनां
प्रासादोद्धरणं च भक्तिकरणं साधर्मिकाणां पुनः ॥ ३९ ॥ अन्येद्युर्भुवि सूरिहीरविजया गन्धारपूर्वी स्थिताः
कृत्वाऽवग्रहमब्धिमासनियतं साधुव्रजभ्राजिता: । दिल्लीशेन यथा श्रुताः कृतिनरैराकारिताः सत्कृताजीवामारणवर्त्तनैरिति तथा सर्वे मया प्रोच्यते ॥ ४० ॥ अस्तिं श्रीमति भारतक्षितितले श्रीमध्यदेशः शुचिप्रासादप्रतिमासु पुस्तकनिधिर्वर्यार्यलोकाश्रितः । देशाः सार्द्धकपञ्चविंशतिमिताः सन्त्येव यत्र स्फुरश्ञ्चक्रिश्रीजिनविष्णुमुख्यपुरुषश्रेष्ठाऽवतारोदिताः ॥ ४१ ॥ अस्त्यत्र प्रवरा पुरी नरभरैरापूरिता काबिला - भिख्या सत्खुरसानदेशनिकटे वीराधिवासोचिता । यस्यां मुद्गललक्षमक्षतबलं हिन्द्वासुरत्रासकं