________________
जगद्गुरुकाव्यम् |
व वाचकसंज्ञितं पदमुदारानेकसभ्याग्रहात् । शिष्यं योग्यमवाप्य चेन्न पदवीमारोपयेद्यो गुरुः
स स्यात्प्राज्यभवभ्रमी निजगुणध्वंसी गुणोपेक्षणात् ॥ २८ ॥ गच्छैश्वर्यमथ प्रदातुमनयोर्मध्ये विशेषं गुरु
जिज्ञासुर्जिनशासनामरमसावाराधयत् साधनात् । मन्त्रस्योत्तमगच्छनाथजपनार्हस्याघविध्वंसिनः
षण्मासी तपसा विमुक्तवचनव्यापारदीप्तिस्पृशा ।। २९ ।। ध्यानाकृष्टतया ततोऽमरवरः सद्यः समाजग्मिवान्नत्वा पादपयोरुहं गणपतेराख्यद्विशिष्टं गुणैः । श्रीहीरं गुरुपङ्क्तिभूषणकरं राजप्रबोधोदितं
व्यक्तं भाविनमत्र सूरिपदवीयोग्ये तपाख्ये गणे ॥ ३० ॥ दैवं वाक्यमिदं निशम्य मुमुदे श्रीमत्तपागच्छराद्
मोदः कस्य भवेन्न यत् स्वपदवीयोग्ये सुशिष्ये श्रुते । मुक्त्वा ध्यानमथागमन्निजयतिश्राद्धैौघपर्षद्यह
र्वक्त्रे भानुरिवोदयाऽद्रिशिरसि प्रोल्लासितेजः स्थितिः ॥ ३१ ॥ सङ्घाग्रे सुरवाक्यमेतदभवच्छ्रीमद्गुरुगौरवात्
सङ्घो यज्जिनसंमतो गुरुतरैनपेक्ष्यते बुद्धिमान् । कृत्वा सङ्घमतं न्यवेशयदसौ श्रीहीरहर्ष निजे
पट्टेऽर्हन्मतसारसूरिपदवीयोग्ये मुहूर्त्ते सुधीः ॥ ३२ ॥ सीरोहीनगरे बभूव विजयो हीरादतस्तद्गुरु
मास्याशु चकार हीरविजयं सद्भिस्तदा स्वीकृतम् । इभ्यैः सूरिपदोत्सवस्तु विविधश्चक्रे तथेन्द्रैर्यथा
श्रीवीरेण सुधर्मगौतमशिरःपट्टप्रदानक्षणे ॥ ३३ ॥ आचार्यैः सममेतके गुरुवरादेशात्ततः प्रस्थिता
आयाता अणहिल्लपत्तनपुरे तस्थुचतुर्मासकम् । पोता अम्बुनिधाविवोडुपभरैनडे यथा पक्षिणः स्वापत्यैर्मुनिचक्रसेोवितपदाः संसारलेपोज्झिताः ॥ ३४ ॥ गूढानायजिनो तवाङ्मयरसं श्रीहीरकोष्ठे गुरु
दुग्धभिवं प्रकृष्टकनकामत्रेऽनिशं क्षिप्तवान् ।