________________
जगद्गुरुकाव्यम् |
त्वत्पादाब्जनमस्कृतेर्मुनिपते ! निःस्खोऽपि सस्खोऽभवन्माहात्म्यं ननु कस्य मानसमिदं नो रञ्जयत्यद्भुतम् ॥२११॥ व्याप्तस्य प्रकटं त्रिलोकमपि ते स्वामिन् ! प्रतापोज्ज्वलद्वह्नेर्व्यानि गतेषु तारकमिषात्तारं स्फुलिङ्गेष्वहो । मन्ये दाहभयेन रात्रिसमये नोदेति भासांपतिवीरोऽप्युत्कटशक्तिमत्यपबलोऽदृश्यो भवेदागते ॥ २१२ ॥ मत्वैकं सुभटं त्रिलोकविकटं श्रीनन्दनं भस्मसा
चक्रे ते मुनिराट् ! प्रतापहुतभुग् दुःसाध्यतेजा असौ । तस्मादप्यधिकस्य नेत्रकपटाद्वालं स्वयं भिन्नवान्
गौरीशस्य ततस्त्रिलोचनतयेवाख्याऽभवद्भूतले ॥ २१३॥ ये श्रीवीरजिनेन्द्रशासनमिदं विस्तारयन्तः क्षिता
भोदा इव दुग्धसिन्धुसलिलं प्राप्तास्ततोऽप्युन्नतिम् । केषां नो रुचये भवन्ति गुरुताश्रद्धानपूतात्मनां
कामं काङ्क्षितदर्शना घनजनैर्जात्प्रभावाः कलौ || २१४॥ यान्नूनं प्रणमन्ति मानवगणाः सम्यग्गुरुत्वाशयानिर्णीयाऽपरगच्छनायकगणे सम्यग्गुरुत्वक्षयम् । प्रत्यूषे शशलाञ्छनादिनिकरे दृष्ट्वा प्रकाशक्षयं
मार्त्तण्डं किमु नार्चयन्ति दिवसाधीशत्वसम्भावनात् ॥ २१५॥ यैश्चक्रे कृतिनां मतिः शुभतरा श्रद्धानपूतात्मनां श्रीमद्वीरजिनेन्द्रशासनतरोर्भास्वत्फलास्वादने । उच्छेद्यापरतीर्थमोहमदन दुन्मादनिष्णाततां
यद्वैद्यान्निपुणान्न कः प्रकुरुते पथ्यादनं शुद्धधीः ॥ २१६ ॥ येभ्योऽयं गुणिपूरितस्तपगण: प्राप्नोत्युदग्रं यशस्तेजोजात्यमणेर्यतोऽधिकतरं हारोऽपि मुक्तान्वितः । येभ्यश्चेह परत्र मङ्गलधिया के के नमस्यन्ति न
प्राप्तं केन यतोऽमृतं क्षितितले नास्वाद्यते धीमता ॥ २१७॥ येभ्यो नश्यति शासनं हरिहरब्रह्मादिदेवोदितं
ध्वान्तं तिग्मकरादिवाधिकतमं रात्रिप्रभावोदितम् ।
३१.