________________
श्रीपद्मसागरगणिविरचितं
संगृह्णन्ति न तस्य खण्डमपि ते स्म त्यक्तलोभास्तदा ॥ १४८ ॥ तेषां निःस्पृहचेतसां नरवरः शुद्धोपदेशं तदा श्रुत्वा कौलिकनायकः पशुवधस्तैन्यादिदुष्कर्मणाम् । प्रत्याख्यानमनन्तसौख्यकरणं चक्रे स्वभृत्यैः समं सन्तो दुष्कृतवर्जका निजगिरा स्युर्दुष्कृतध्यायिनाम् ॥ १४९ ॥ भूपं कौलिकचक्रमादृतमहाधर्म विधायोद्यताश्वेलुस्तन्नगरात् सुहीरविजयाचार्या विहारक्रमात् । सीरोह्यां जिनचैत्यसन्ततिजितस्वर्नाथपुर्यां गताः पुर्या भावुकलोकनेत्रयुगलानन्द प्रदास्याम्बुजाः ॥ १५०॥ तत्र श्रीसुलताननामनृपतिः श्रुत्वा तदीयागमं पुर्यौ घोषणमित्यकारयदहो हट्टे गृहे मण्डनम् । स्वे स्वे यो न करिष्यति प्रणयतः श्रीमद्गुरोरागमे दण्ड्यो मे भविता स सर्वविभवध्वंसस्तु तस्यागतः ॥ १५१ ॥ श्रुत्वैवं सुगुरुप्रवेशमहसे चक्रुर्जना मण्डनं
धाम्नां हट्टततेरिवात्ममनसां द्रव्यव्ययाद्वर्णकैः । मातङ्गांश्च हयान् विशिष्टरचनान् कृत्वा नृपोऽभ्यागतः पौरैर्निर्मलभूषणैः सममसौ तेषां पपात क्रमे ।। १५२ ।। पादाभ्यां नृपतिर्गुरोः पुर इव प्रेष्यश्चलन् भक्तितः
पुर्या कारयति स्म दत्तविभवोऽर्थिभ्यः प्रवेशं तदा । श्राद्धानां हृदयेऽभवद्धरिकृतश्री नेमिनाथागम
प्रोद्दामोत्सवराजिराजिततर श्रीद्वारिकापूः स्मृतिः ॥ १५३ ॥ तत्रार्हत्सदनेषु बिम्बनिवहं रूप्याश्मचामीकरा -
रब्धं सूरिवराः प्रणेमुरनिशं राजेभ्यवर्गान्विताः । व्याख्यान्ति स्म च जैनवाङ्मयरसं राजादिसभ्याग्रतो राजस्त्रीभिरनेकयुक्तिरचनोद्यन्मौक्तिकस्वस्तिकाः ।। १५४ ॥ स्थित्वा तत्र कियद्दिनानि सुकृतप्राग्भारसंवर्द्धनं
कुर्वन्तः पुरतस्ततोऽथ चलिताः सूरीश्वराश्चर्यया । ग्रामाऽनेक पुराणि पावितमहीपीठानि नित्याक्रमा -
२२