________________
जगद्गुरुकाव्यम् ।
प्राप्तः साधुगृहस्थितांस्तपगणस्वामित्वमाप्तान् स्फुटम् ॥ १३ ॥ तेषां वाचमनेकवाङ्मयरसक्लिन्नां विरक्तात्मनां वैराग्याऽमृतवर्द्धिनीं श्रुतिपुटद्वारा हृदि न्यस्तवान् । हीरो हीरकवद्भवाऽधिकरणैर्लो हैर भेद्यस्ततः
शुद्धाचारतपोग्रहोद्यतमतिर्जातः सुजाताङ्गवत् ॥ १४ ॥ वैराग्यं भवरङ्गरूक्षहृदयादाविश्वकार स्वसु
गत्वा धानि पुरस्तथाविधवचः श्रेण्याऽतिपुण्यास्थया । मृत्खण्डादिव काञ्चनं रचनया स्वर्णधमः शुद्धया
भूमध्यादिव वा जलं खननकुच्छक्त्या करप्राप्तया ।। १५ ।। तं दीक्षा परमानसं स्वसृवरा ज्ञात्वा कुटुम्बं निजं तत्राकार्य पितुः पुरोऽवददिदं मुक्ताश्रुभूभेदिनी । भ्राता मे भवभीरुरेष भवतां पुत्रस्तपस्याग्रही
वार्यो वर्यधिया कुलाचल इवास्त्येको भवन्मन्दिरे ॥ १६ ॥ पुत्रीवाक्यमिदं निशम्य जनकः स्माख्याति हीरं सुतं
वत्स त्वं मम जीवनं मम गृहस्तम्भः समर्थः पुनः । आशा ते महती ममास्ति मम तद्वृद्धस्थिति पालय
त्वं मद्नेहधुरं वहाऽहमधुना धर्म करोमि स्थिरः ॥ १७ ॥ श्रुत्वा वाक्यमिदं पितुः समवदद्धीरः पवित्राशयः
संसारो यमवन्ममाऽतिभयकृद्भातः पितः ! सांप्रतम् । तत्त्वं तारय संसृतेः सुजनको यत् सौख्यदः सन्तते
चारित्रग्रहणे ममास्तु भवतां वंशस्य चास्तूदयः ॥ १८ ॥ वाग्युक्त्या पितरं प्रबोध्य भगिनीं वा मातरं शुद्धया
तैर्दत्ताऽनुमतिर्व्रतं स जगृहे पौरैः कृतात्युत्सवम् । बाले प्रव्रजति प्रधानधनभुक् त्यक्ता कुटुम्ब निजं
धन्यंमन्यतयाऽत्र को न कुरुते श्राद्धो निजद्धिंव्ययम् ॥ १९ ॥ हर्षस्तत्र बभूव हीरकमणिप्राप्त्येव हीरादतः
साधूनां व्यवहारिणामिति गुरुः श्रीहीरहर्षाभिधाम् । चक्रे वर्गविलोकनादपि निजाद्दाद्यक्षरप्रीतित: सन्तोऽन्वर्थकनाम यद्विदधति प्राज्ञे विनेये सुते ॥ २० ॥