Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai
View full book text
________________
फुरमानादिकार्यकरणतत्परानुपाध्यायश्रीशान्तिचन्द्रगणिवरान् मुक्त्वा मेडतादिमागे -विहारं कुर्वाणा नागपुरे चतुर्मासी विधाय क्रमेण सीरोहीनगरे समागताः। तत्रापि नवीनचतुर्मुखप्रासादे श्रीआदिनाथादिबिम्बानां, श्रीअजितजिनप्रासादे श्रीअजितजिनादिबिम्बानां च क्रमेण प्रतिष्ठाद्वयं विधाय अर्बुदाचले यात्रार्थ प्रस्थिताः । तत्र विधिना यात्रां विधाय यावद्धरित्रीदिशि पादावधारणं विदधति तावत् महारायश्रीसुलतानजीकेन सीरोहीदेशे पुरा करातिपीडितस्य लोकस्य अथ पीडां न विधास्यामि, मारिनिवारणं च करिष्यामीत्यादिविज्ञप्ति खप्रधानपुरुषमुखेन विधाय श्रीगुरवः सीरोत्यां चतुर्मासीकरणायात्याग्रहात् समाकारिताः। पश्चात् तद्राजोपरोधेन, तद्देशीयलोकानुकम्पया च तत्र चतुर्मासी विधाय क्रमेण रोहसरोतरामार्गे विहारं कुर्वन्तः श्रीपत्तननगरं पावितवन्तः। अथ पुरा श्रीसूरिराजैः श्रीसाहिहृदयालवालारोपिता कृपालतोपाध्यायश्रीशान्तिचन्द्रगणिभिः स्वोपज्ञकृपारसकोशाख्यशास्त्रश्रावणजलेन सिक्ता सती वृद्धिमती बभूव । तदभिज्ञानं च श्रीमत्साहिजन्मसम्बन्धी मासः, श्रीपर्युषणापर्वसत्कानि द्वादश दिनानि, सर्वेऽपि रविवाराः, सर्वसंक्रान्तितिथयः, नवरोजसत्को मासः, सर्वे ईदीवासराः, सर्वे मिहरवासराः, सोफीआनवासराश्चेति पाण्मासिकामारिसत्कं फुरमानं, जीजीआभिधानकरमोचनसत्कानि फुरमानानि च श्रीमत्साहिपार्थात्समानीय धरित्रीदेशे श्रीगुरूणां प्राभृतीकृतानीति । एतच्च सर्वजनप्रतीतमेव । तत्र नवरोजादिवासराणां व्यक्तिस्तत्फुरमानतोऽवसेया । किञ्च । अस्मिन् दिल्लीदेशविहारे श्रीमद्गुरूणां श्रीमत्साहिप्रदत्तबहुमानतः निष्प्रतिमरूपादिगुणगणानां श्रवणवीक्षणतश्चानेकम्लेच्छादिजातीया अपि सद्यो मद्यमांसाशनजीवहिंसनादिरतिं परित्यज्य सद्धर्मकर्मासक्तमतयः, तथा केचन प्रवचनप्रत्सनीका अपि निर्भरभक्तिरतयः, अन्यपक्षीया अपि कक्षीकृतसद्भूतोद्भुतगुणततयश्चासन् । इत्याद्यनेकेऽवदाताः षड्दर्शनप्रतीता एव । तथा श्रीपत्तननगरे चतुर्मासककरणादनु विक्रमतः षट्चत्वारिंशदधिकषोडशशत १६४६ वर्षे स्तम्भतीर्थे सो-तेजपालकारिता सहस्रशो रूप्यकव्ययादिनाऽतीव श्रेष्ठां प्रतिष्ठां विधाय श्रीजिनशासनोन्नतिं तन्वानाः श्रीसूरिराजो विजयन्ते"
अस्यैकैव प्रतिः अणाहलपुरपत्तनस्य (पाटन) “फोफलीयावाडा आगलीशेरी" इत्यस्य भाण्डागारात् श्रेष्ठिश्रीभोगीलाल-हालाभाई-द्वारोपलब्धा । अतोऽत्र स्थले तस्य श्रेष्ठिनो धन्यवादपुरस्सरं उपकारं मन्यावहे ।
तदेवमेकस्यैव पुस्तकस्याधारेण शोधितमुद्रितेऽप्यस्मिन् प्रन्थे जाताः स्खलनाः सहृदयाः कृपां विधाय शोधयिष्यन्तीति
निवेदयतोहरगोविन्द-बेचरदासौ।
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46