Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai

View full book text
Previous | Next

Page 26
________________ श्रीपद्मसागरगणिविरचितंदृष्ट्वा वीरकरान समस्तमनुजास्योद्भूतदुर्वाक्चयं श्रुत्वा चाख्यदकब्बरो नरपतिर्गृह्णामि चेदेतकम् । तत्सर्वान् पुरुषानिहन्मि पनिताबन्धं भटैः कारया मीति स्पष्टगिरा समस्तसुभटानुत्साहयन् सत्त्वतः ।। १०६ ॥ कुद्धोऽकब्बरभूपतिगिरितले गुप्तं तथा खानयन् मातं तत्र यथा चतुर्दशशतप्रायैर्मणैरौषधम् । भृत्पात्र शिखिबिन्दुसङ्गविलसत्तेजोऽतिशक्त्या दृष द्वर्गास्फालनतो मनुष्यनिकरव्यापत्तये सज्जितम् ॥१०७॥ तद्भाग्याद् जयमल्लनामनृपतेः श्रीचित्रकूटाचल व्यावाधां न चकार सम्मुखमदः सैन्ये पतन्मौद्गले । मातङ्गांश्च नरान् सहस्रगणितान् हन्ति स्म जातं ततः सत्यं यच्च परस्य चिन्त्यत इहाभ्येत्येव तत् सम्मुखम् ॥१०८॥ तज्ज्ञात्वा जयमल्लनामनृपतेर्वारा जहर्षुस्तदा गायन्ति स्म च राणगीतनिकरं नित्योत्सवानन्दिनः । मत्वाऽकब्बरभूपतिनिजबलध्वंसं मनोदुःखवान् यावत्तद् ग्रहणग्रहं श्लथतरं कृत्वा विखिन्नोऽभवत् ।।१०९॥ तावन्नागपुरीयगच्छशिथिलोपाध्यायलिङ्गी खरः शास्त्राजीवनकृञ्चकार विशदं कोट्टस्य चक्रं हृदा । आख्यत् सप्तदिनैश्च भङ्गमतुलव्यायाससाध्यं गिरे भूपाने जयमल्लभूपमरणं रोमीकरायोधनात् ॥११०॥ तच्छ्रुत्वा स्वबलं गिरिग्रहपरं सज्जास्त्रमश्वस्थित भूपः प्रेरितवान् करासिविभवः पृष्ठे स्थितो भापयन् । पश्चादापततो भटान्निजपदोपास्त्युद्यतं रोमिकं चैकं श्रीजयमल्लभूपतिवधे स्वर्णार्पणेनादिशत् ॥११॥ दुष्टात्मा किल रोमिकोऽपि सहसोत्प्लुत्याद्रिमूर्द्धस्थितः स्वास्त्रं गोलकमग्निपुञ्जकलितं चिक्षेप तत्सम्मुखम् । सोऽपि श्रीजयमल्लभूपतिशिरोमध्ये विशन्निर्गतः . शास्त्रं जाल्महृदीव धार्मिकहृदीवासभ्यवाक्यान्वयः ॥११२॥

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46