Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai
View full book text
________________
२१
जगद्गुरुकाव्यम् । तत्रत्ययवहारिभिर्वरमुदाङ्गेष्वर्चिताः स्वर्णकैः ॥ १४०॥ श्राद्ध्या तत्र कयाचिदत्यधिकया भावेन वित्तेन च ..
कर्तुं श्रीजिनशासनोदयमिति श्रीमद्गुरोरागमात् ।। षड्लझै रचना त्रिकोघटनामहद्गृहस्सादरा
द्विम्बन्यासमकारयच विविधानेकाङ्गिबोधिप्रदम् ॥१४१॥ विजयसेनमहोदयसूरिभिर्षिमलवाचकधर्मकसागरैः। घनतरैरपरैश्च कवीश्वरैः परिवृता गुरवोऽत्र समागताः ॥१४२॥ तत्राभूब्यवहारिवर्गविहितस्तादृक् तदाऽत्युत्सवो
यादृग् वीरजिने समस्तगणभृत्साध्वन्वितेऽप्यागते । देवेन्द्रर्विहितश्चतुर्थसमये साक्षात्रिकोट्टाश्रये ।
सत्सु स्थान हि किं सतामनुकृतिः सर्वत्र सञ्चारिषु ?॥१४३॥ एवं सप्त दिनानि हीरविजयाचार्याः पुरेऽत्र स्थिता
नित्यं सत्प्रतिमाप्रणामसमये तादृग्महःपूर्वकम् । चेलुस्तत्र च धर्मसागरमहोपाध्यायमुख्यान् यतीन्
संस्थाप्याऽनुगमोद्यतान हितकरी दत्त्वा सुशिक्षां ततः ॥१४४॥ विजयसेनमहोदयसूरयो हठधरा निजसद्गुरुसेवने । अनुचरा इव सद्गुरुभिः समं पुरवरे खलु सिद्धपुरे गताः ॥१४५॥ तांस्तत्रैव विशिष्टवाक्यरचनां शिक्षा स्वगच्छार्पणा
हत्त्वाऽऽस्थाप्य च तेऽथ शिष्यकलिताः श्रीशान्तिचन्द्रादिकान् । लात्वा सार्द्धमनल्पशास्त्रनिपुणांश्चेलुस्ततः पण्डितान्
विज्ञा एव हि राजसंसदि सदा स्युर्भूषणं नापरे ॥ १४६ ॥ ते श्रीसूरिवराः सुहीरविजयाचार्या विहारक्रमाद्
ग्रामे कौलिकराजके सुरतरौ प्राप्ताः सुशिष्यान्विताः । तत्राऽनेकमहोत्सवं धनिजनैः सार्द्ध स राजा व्यधा
च्छ्रीगुर्वागममोदतो गुरुगुणश्रुत्यैव सावर्जनः ॥१४७।। राजा तत्र निजे गृहे निजवशावन्दापनार्थ गुरू
नाकार्य स्वगृहाङ्गणे धृतपदान्मुक्ताफलैर्देववत् । वर्द्धाप्योत्तमवत्रचक्रममुचत्तेषां पुरो भावतः
Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46