Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai

View full book text
Previous | Next

Page 14
________________ श्रीपद्मसागरगणिविरचितधृत्वा पञ्चमहाव्रतानि समितिप्रोद्दामगुप्त्यङ्किता न्येष प्रोद्धृतमेरुमानवमहीसाम्यं क्षमातोऽभजत् । साधूनां विविधैर्गुणैधुरि तपःकृत्येऽभवद्धौर्यवत् शाकट्येऽध्ययने च देवगुरुवदर्भाग्रबुद्धिर्मुनिः ॥ २१ ॥ विद्यासागरवाचकस्य गुणिभिः शिष्यैवयोधीसमैः सार्द्ध सदतिधर्मसागरवरैः श्रीमद्गुरोरप्रतः । सम्यग् व्याकरणं कवित्वरचनाग्रन्थांस्तथाऽर्हन्मत न्यायं कर्मविचारसंग्रहणिकां स्माध्येति हीरो मुनिः ॥२२॥ सर्वार्हन्मतशास्त्रपारमगमच्छ्रीहीरहर्षो मुनि__ र्जातोऽन्यागमदर्शनोत्सुकमनाः श्रीमद्गुरोर्नीतिवित् । सार्द्ध धर्ममुनीश्वरैरिति गिरा विज्ञप्तिकामातनोत् __ स्वामिन् ! मे परशासनागमवचोयुक्तिप्रकाशे मनः ॥ २३ ॥ श्रुत्वेत्याह गुरुस्ततो व्रज मुने ! श्रीदक्षिणाशा प्रति योग्यं धर्ममुनि सहायमधुनैवादाय रामो यथा । श्रीमल्लक्ष्मणमन्यशास्त्रपठनं तत्रान्यपाधै कुरु ___ स्पष्टाः स्वागमयुक्तयो हि धनिनां तत्रैव तद्वादिनः ॥ २४ ॥ लब्ध्वाज्ञामिति सद्गुरोः कविवरः श्रीहरिहर्षो मुनिः सार्द्ध धर्ममुनीश्वरेण चलितः श्रीदक्षिणाशां प्रति । गत्वा देवगिरौ सदाऽऽस्तिककृतद्रव्यव्ययाद्भट्टतो मण्याद्यागमयुक्तिपाठमनघं प्रारब्धवानादृतः ॥ २५ ॥ प्रन्था न्यायविदां विवेचनकृतां वैशेषिकाणां पुन___भीदृस्याऽपि तथागतस्य कपिलप्राभाकराणां पुनः । मीमांसाद्वयवादिनामपि परब्रह्माद्वयोत्संविदा भट्टात्पण्डितचक्रिणोऽत्र पठिताः श्रीहीरहर्षेण ते ॥२६॥ सार्द्ध धर्ममुनीश्वरेण सकलपन्थार्थपारङ्गमी भूत्वा श्रीगुरुसन्निधौ पुनरगात्तत्स्तोत्रपाठे पटुः । शिष्याणां हि गुणार्थिनां चिरतरं दूरे गुरोन स्थितिः । सिद्धेऽर्थे तु गुरुर्न शिष्यमनघं दूरे व्यवस्थापयेत् ।। २७ ।। योग्यत्वं गुरुरेतयोनिजधिया विज्ञाय शास्त्रश्रियो

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46