________________
Shri Mahavir Jain Aradhana Kendra
५
१०
१५
२०
२५
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ
मुद्रा निघण्टुः
अथ मुद्रा: प्रवक्ष्यामि सर्वतन्त्रेषु गोपिताः । याभिविरचिताभिश्च मोदन्ते मन्त्रदेवताः ॥ १ ॥ अने जपकाले च ध्याने काम्ये च कर्मणि । स्नाने चावाहने शङ्ख प्रतिष्ठायाञ्च रक्षणे ॥ २ ॥ नवैद्य च तथा च तत्तत्कल्पप्रकाशिते । स्थाने मुद्रा: प्रकर्त्तव्याः स्वस्वलक्षणसंयुता ॥ ३ ॥ आवाहनादिका मुद्रा नव साधारणा मताः । तथा षडङ्गमुद्राश्च सर्वमन्त्रेषु योजयेत् ॥ ४ ॥ एकोनविंशतिर्मुद्रा विष्णोरुक्ता मनीषिभिः । शङ्खचक्रगदापद्मवेणुश्रीवत्सकौस्तुभाः ॥ ५ ॥ वनमाला तथा ज्ञानमुद्रा विल्वाह्वया तथा । गरुडाख्या परा मुद्रा विष्णोः सन्तोषदायकाः ॥ ६ ॥ नारसिंही च बाराही हयग्रंवी धनुस्तथा ।
वाणमुद्रा ततः पशुर्जगन्मोहनिका परा ॥ ७ ॥ काममुद्रा पराख्याता शिवस्य दशमुद्रिकाः । लिङ्गयोनि त्रिशूलाक्षमालेष्टामी मृगाह्वयाः ॥ ८ ॥ खट्वाङ्गा च कपालाख्या डमरुः शिवतोषदाः । सूर्यस्यैव पद्माख्या समुद्रा गणेशितुः ॥ ९ ॥ दन्तपाशांकुशा विघ्न पर्शुलं डुक संज्ञिताः । बीजपूजाह्वया मुद्रा विज्ञेया विघ्नपूजने ॥ १० ॥ पाशांकुशवरामी तिखङ्गचर्मधनुः शराः ।
मौली मुद्रिका दौर्गी मुद्राः शक्तेः प्रियङ्कराः ॥ ११ ॥ मुद्गरः पाशवज्राख्या जिह्वा ब्राह्मी तथैव च । पञ्चमुद्राः समाख्याता ब्रह्मास्त्रपूजने ॥ १२ ॥ लक्ष्मीमुद्राच्चने लक्ष्म्या वाग्वादिन्यास्तु पूजने ।
For Private and Personal Use Only