________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4026
A DESCRIPTIVE CATALOGUE OF
Complete.
On the relative superiority of Vişnu to Śiva : by Kūrēša 'generally known as Kūrattāļvār.
This author is said to have maintained his view successfully in the court of a Cola king. Beginning:
गायत्र्या बोधितत्वाद्दशरथतनयस्थापिताराधितत्वाच्छौरेः कैलासयात्राव्रतमुदिततयाभीष्टसन्तानदानात् । नेत्रेण खेन साकं दशशतकमलैर्विष्णुना पूजितत्वात्तस्मै चक्रप्रदानादपि च पशुपतिस्सर्वदेवप्रकृष्टः ॥
वैशिष्टे(ष्ट्ये) योनिपीठायितनरकरिपुश्लिष्टभावेन शम्भोः स्वस्यैवार्धप्रतीकायितहरिवपुषालिङ्गितत्वेन यद्वा । अप्राधान्याद्विशिष्टाद्वयसमाधगमे दानवानामरातेः
स्थाणोः प्राधान्ययोगादपि च पशुपतिस्सर्वदेवप्रकृष्टः ।। इति पूर्वपक्षश्लोकसङ्ग्रहः ।
पञ्चविंशतिकक्ष्याभिरुपन्यस्ते परे मते ।
सार्धया शतदूषण्या सिद्धान्तं वक्ति कूरराट् ॥ गायत्र्या बोधितत्वादित्यत्र एकादशभिर्हेतुभिस्समाधत्ते गायत्रीपूर्व कृत्येति द्वाभ्यां श्लोकाभ्याम्-.
गायत्रीपूर्वकृत्याचमनविधिपुरस्नानसङ्कल्पकार्ये गोविन्दाख्याप्रयोगाद्धरिरिति कथनाच्छृत्यधीत्यादिकाले । भर्गश्शब्दस्य सूर्यात्मकहरिमहसोर्वाचकत्वात्पुरस्तादोङ्काराख्येयभावादवननिजगुणाच्छुद्धसत्त्वाश्रयत्वात् ॥ प्रख्याताशेषदेवप्रणमनविषयत्वात्तपोयज्ञकर्मस्तोमन्यूनाधिकत्वप्रशमपटिमवदिव्यनामस्मृतित्वात् ।
For Private and Personal Use Only