________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
4059
मस्तवस्तुवास्तवेनापि स्वच्छन्दपञ्चकृत्यनित्यशक्तिसम्पदापि सर्वजननिरुपा - धिकपरमसुहृदापि अनुकम्पनीयानुकम्पावात्सल्य सौशील्यादिगुणगणविपरिणमितपितृत्वोष्मणापि यथावस्थितगुणविभूतिमण्डलपरिमण्डितस्वात्मविश्राणनमहावदान्येनापि पुरुषोत्तमेन परब्रह्मणा नारायणेनानादिकर्म मनोरथगोचरेणार्चिरादिपथेन परमपदमधिरुह्य स्वेन रूपेणाभिनिष्पन्नो भगवन्तमनुभवति प्रत्यगात्मेति । तत्र ज्ञानकर्मसमुच्चयवाक्यार्थज्ञानादिपरपक्षप्रतिक्षेपेण कर्मज्ञानानुगृहीतो वेदनध्यानोपासनादिशब्दवाच्यो दर्शनसमानाकृति निरतिशयप्रीतिरूपतया भक्तिशब्दाभिलाप्योऽसकृदावृत्त आप्रयाणानुवृत्तो निरन्तरस्मृतिसन्तान एव निःश्रेयसनिश्रेणिकेति निरणायि ।
See under the next number for the end.
No. 5267. निक्षेपरक्षा. NIKSEPARAKṢĀ.
Acharya Shri Kailassagarsuri Gyanmandir
Pages, 84. Lines, 8 on a page,
Begins on fol. 756 of the MS. described under No. 4881. Incomplete.
Same work as the above.
See under the previous number for the beginning.
End:
अतरसमस्ताभिमतसाधनस्वतन्त्रप्रपत्तिविषय एवायं श्लोकः । सुदुष्करेण शोचेद्यो येन येनेष्टहेतुना । स स तस्याहमेवेति चरमश्लोकसङ्ग्रहः || इति । अङ्करत्परभक्तिकुङ्कुमलताकाश्मीरकेदारिकां जीवातुं जरदन्धपङ्गुबधिरप्रायात्मनां प्राणिनाम् । निष्प्रत्यूहषडङ्गयोगनिगमप्रासादनिश्रेणिकां
नित्यं चेतसि धारयन्तु सुधियो निक्षेपरक्षामिमाम् ||
For Private and Personal Use Only