Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
जाग्रता, एवं भवेत् प्राणातिपातविरतिमान् । 'एस०' एतत् खलु प्राणातिपातविरमणं हितं, हितकारि पथ्यवत् । सुखं सुखकारि शीताम्बुपानवत् , क्षमं युक्तं, निःश्रेयसिकं मुक्तिदं, अनुगामिकं अनुगमनशीलं भवान्तरे सुखदानात् , पारगामिकं संसारपारदायिकं, सर्वेषां प्राणानां, प्राणा द्वित्रिचतुरिन्द्रियाः, भूताः वृक्षाः, जीवाः पञ्चेन्द्रियाः, सवाः शेषात्मानस्तेषामदुःखतया, दुःखस्याकरणेन, अशोचनया शोकानुत्पादनेन । अजूरणया भारवाहनादिना देहजीर्णताऽनुत्पादेन, अतापनया स्वेदलालाs. श्रुतपातकारणवर्जनेन, अपीडनयाऽपरितापनया, पीडा पदाक्रमणादिना देहपीडा, परितापस्तापादिसहनं मनःसन्तापनं वा । अनुपद्रावणया उपद्रवाकरणेन, उपद्रवो हिंसा उत्रासनं वा । ततोऽयमर्थः-सर्वप्राणादीनां अदुःखनादिना इदं महाव्रतं स्यात् । व्रतमिदं 'महत्थे' महार्थं महाफलं, महागुणं महागुणैः क्षमादिभिर्युक्तं, महानुभावं, महापुरुषैरहंदादिभिरनुचीर्ण पालितं, परम| र्षिभिर्दिष्टं उक्तं, प्रशस्तं भव्यं, तद् दुःखक्षयाय, कर्मक्षयाय, मोक्षतायै मोक्षलक्ष्म्यै, बोधिलाभाय सम्यक्त्वशुद्धिकरणेन, भवान्तरे च सम्यक्त्वलाभकृत्या तद्भव एव वा बोधिलाभाय, संसारोचारणाय भवत्विति कृत्वा, उपसम्पद्य स्वीकृत्य विहरामि, मासकल्पादिनान्यथावतप्रपत्तेर्वैयर्थ्यात् । अथ निगमयति 'पढमे भंते' हे भदंत! प्रथमे महाव्रते उप सामीप्येन तत्परिणामापच्या स्थितोऽस्मि, इतः सर्वस्मात्प्राणातिपाताद्विरमणं ममाऽभूत् । अत्राऽपि भदंतपदेन, एवं आदिमध्यान्तेषूपन्यस्तेन गुर्वपृच्छया किश्चिन्न कार्य, कृतं च तस्मै ज्ञाप्यं । एवं आराधकः स्यादित्याह-उक्तमाद्यं व्रतं ॥ १॥ अथ द्वितीयमाह 'अहावरे दोच्चे'
अहावरे दोच्चे भंते ! महत्वए मुसावायाओ वेरमणं, सवं भंते ! मुसावायं पञ्चक्खामि, से
Jain Education inte
For Private & Personal use only
Edww.jainelibrary.org

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410