Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
अथ द्वितीयः-उदितोदितो राट् भार्या श्रीकान्ता । तयैकदा वादे परिव्राजिका जिता । तया तस्याः पट्टे रूपं लिखित्वा वाणारसीराजे दर्शितं, तेन धर्मरुचिनामराज्ञा दुतमुखेन सा मागिता । ततः ससैन्या समेतः। उदितोदितेन जनक्षयो मा भूदिति कायोत्सर्गः कृतः । धनदेन ससैन्यो वाणारस्यां मुक्तः। अथ तृतीयः-चम्पायां सुदर्शनः श्रेष्ठिसुतोऽष्टमीचतुर्दश्यादिषु चत्वरे उपासकप्रतिमां प्रपद्यते । राजपत्न्या प्राय॑मानोऽप्यनिच्छन्नन्यदोत्सर्गस्थो देव इति कृत्वा वस्त्राच्छादितोऽन्तःपुरं नीतो राझ्या निर्बन्धादभ्यर्थितेऽनिच्छन् राज्ञीकृतकलकले राज्ञा वध्यत्वे आज्ञप्तो नीयमानः प्रियया मित्रवत्या श्राद्धिकया श्रुत्वा सर्वानुभूतियक्षाराधनाय कायोत्सर्गस्थितया स्कन्धेऽसौ वाहितो सर्वानुभूतियक्षेण पुष्पदाम्नि कृतोऽर्चितो मित्रवत्या कायोत्सर्गोऽपारि ३ । सोदासो यथा नमस्कारे ४ । अथ पश्चमो दृष्टान्तः-कोऽपि विराधितदीक्षः खड्गजीव उत्पन्नः, पथि | जनान् हन्ति । साधून् गच्छतो दृष्ट्वा यातः, साधवः कायोत्सर्गेऽस्थुः । ततोऽशक्तः शान्तोऽभूत् ।। १५४५॥ कायोत्सर्गे कथं | कर्मक्षयः' इत्यत्र भाष्यं 'जह' जह करगओ, निकिंतइ, दारुइंतो पुणोवि वच्चंतो। इअकंतंति सुविहिआ, काउस्सग्गेण कम्माइं॥२४०॥
यथा करपत्रं यात् आयाद्वा पुनः काष्टानि निकृन्तति, एवं सुविहिताः साधवः कायोत्सर्गेण कर्माणि कन्तन्ति ॥२४०॥ 'काउ' काउस्सग्गे जह, सुट्टियस्स भजति अंगमंगाई। इय भिंदति सुविहिया, अट्टविहं कम्मसंघायं ॥१५४६॥ ___ कायोत्सर्गे सुस्थितस्य यथाङ्गोपाङ्गानि भज्यन्ते, एवं मुनिवराश्चित्तरोधादष्टविधं कर्मसंघातं भिंदन्ति । ननु देहक्लेशदः कायोत्सर्गः कथं क्रियते ? उच्यते ॥ १५४६ ॥ 'अन्न'
Jain Education Inter
For Private & Personal Use Only
"www.jainelibrary.org

Page Navigation
1 ... 407 408 409 410