Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 375
________________ Jain Education Inter नाख्या ५ । तत्रैककवला जघन्याऽल्पाहाराऽष्टकवलोत्कृष्टा, शेषा ग्रासा मध्या । एवं जघन्याsपार्द्धाद्या अपि ज्ञेयाः । एवं नार्या अपि २८ ग्रासैः पूर्णाऽऽहारा ज्ञेया । भावोनोदरता क्रोधादित्यागः प्रत्यहं । तथा एकसित्थादिद्रव्योनोदरता, तथा क्षेत्रोनोदरता ग्रामादिषु शय्यागृहपाटकादिसंक्षेपः । पेटाद्या भिक्षावृत्तयो वा । कालोनोदरता तृतीय पौरुषीशेषभामे गोचरे । भावोनोदरता स्त्रीनृवेषक्रिया चेष्टावर्णव यो भूषाद्यभिग्रहः, इत्यादिभिश्चतुर्भिरूनोदर्यचरस्य पर्याय ऊनोदरता, गतोनोदरता । अथ वृत्तिर्भिक्षाचर्या तत्संक्षेपो अष्टगोचरभूदेहलीमध्यभूमानस प्तपिण्डैषणा द्रव्याद्यन्यतरघोराभिग्रहरूपः । रसानां क्षीरादिचतुराहाणां रसानां त्यागो विकृतिगतत्यागश्च रसत्यागः । तथा कायक्लेशः देहक्लेशनं, स च शिरोलोचवीरासनादिना निश्चलत्वेनासनाभिग्रहादिरनेकधा । तथा प्रतिसंलीनता गुप्तता सा चेन्द्रियकपाययोगविषया विविक्तशयनासनता चेति चतुर्द्धा, इन्द्रियसंलीनता श्रोत्रादीन्द्रियनिग्रहैः पञ्चधा शब्दादिषु रागद्वेषनिग्रहाद्वा पंचधा । कपायसंलीनता चतुर्द्धा । योगा मनोवाक्कायास्तेषां संलीनता मनोगुत्याद्यास्त्रिधा । विविक्तशयनासनता त्वारामादिषु योग्य स्थानेषु एषणीय फलकादिभिः शय्यासंस्ता रकमादृत्य स्थानं | 'सत' सप्त भयस्थानानि इहलोकभयादीनि । तत्रेहलोकभयं मनुष्यस्य मनुष्यादितो भयं १, एवं परलोकभयं मनुयस्य परलोकात् सिंहादितो भयं २, आदानभयं चौरादिभ्यो द्रव्यादानभयं ३, अकस्माद्भयं निर्हेतुकमुत्पन्नं ४, आजीवभयं कथमाजीविका भविष्यतीति ५, मरणभयं स्पष्टं ६, अश्लोकभयं अयशोभयं ७ । सप्तविधं ज्ञानविभंगं यथा एकदिग्लोकाभिगमः १, पञ्चदिग्लोकाभिगमः २, क्रियावरणो जीवः ३, मुदग्ग ४, अमुदग्गे ५, रूपी जीवः ६, सर्व जीव ७ इति । तत्र एकदिश्येव लोकोऽस्तीतिज्ञानादेकदिग्लोकाभिगमः विभङ्गता तु शेषदिक्ष्वनवगमेन तत्प्रतिषेधात् १, एवं पञ्चदिवपि ३१ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410