Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 373
________________ विधः। द्विधा कायविनयः, प्रशस्त उपयुक्तेन गमन १ स्थान २ निपीदन ३ त्वग्वर्त्तन ४ उल्लङ्घन ५ प्रलङ्घन ६ सर्वेन्द्रिययोगजतया सप्तधा, स एवानुपयुक्तेन सप्तधाऽप्रशस्तः। इह पापं सामान्येन सावा क्रोधाद्यं । क्रिया कायिकाद्याः कर्मबन्धिन्यः, उपक्लेशः शोकाद्यः, आश्रवः प्राणातिपाताद्याश्रवकरणं । च्छविः कविः स्वान्ययोर्विषये प्रमादायासः। भूतानां प्राणिनां शङ्काजनकं भृताभिशङ्कनं, तथा उल्लङ्घनं उड्डयनं, प्रलङ्घनं ग दिप्लवनं, उक्तो विनयः । व्यावृत्तभावो धर्मार्थ अनादिदानप्रवर्तनकं वेयावृत्त्यं दशधा-'आयरिय १ उवज्झाए २ थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६ । साहसिय ७ कल दगण ९ संघ १०, संगयं तमिह कायवं'। १। आचार्यः पश्चधा दीक्षाचार्यों दिगाचार्यः सूत्रसमद्देशानुज्ञाचार्यों वाचनाचार्यः, तत्र दिगाचार्यो ग्रहणासेवनाशिक्षागुरुः । उपाध्यायः पाठकः, स्थविरो जातिश्रुतपर्यायैर्गच्छसाधुस्थैर्यद्वा । तपस्वी अष्टमाधिकतपाः, ग्लानो रोगी, शिक्षको नवदीक्षः साम्मिको लिङ्गात् न प्रवचनतः, कुलं एकाचार्यसन्ततिः, गणः सापेक्षद्वित्रिकुलसंगमः। संघः शासनं साधवः । सुष्ठु आ मर्यादयाऽध्यायः स्वाध्यायः पश्चधा-याचनाऽध्यापन, प्रच्छना सूत्रस्यार्थस्य वा, परिवर्तना गुणनमभ्यसनं च वाचा, अनुप्रेक्षा तु मनसा, धर्मकथाऽहिंसादिधर्मोपदेशः ५। ध्यानं धर्मध्यानं शुक्लध्यानं च । तत्र विरतिक्रियासंयमभावं धयं । इन्द्रियमनोव्यापारचिन्तारोधः शुक्लं, एषां भेदाः प्राग | ध्यानशतके उक्ताः। उत्सगों द्विधा द्रव्यतो भावतश्च, तत्र द्रव्यतो गणशरीरोपध्याहारविषयश्चतुर्धा, भावतस्तु कषायसंसारकर्मव्युत्सर्गभेदात्रिधा। तत्र कषायाणां चतुर्णां संसारस्य चतुर्गतिरूपस्याऽष्टकर्मणां च व्युत्सर्गभेदाः स्पष्टाः, यत:-काले गणदेहानां. अइरित्ताऽसुद्धभत्तपाणाणं कोहाईयाण ससयं (१) कायवो होइ चाउति उक्तमाभ्यन्तरं । अथ 'बझं पि य 'त्ति, बाह्यं आसे Jain Education Inter For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410