Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 372
________________ बावश्यकनियुक्तिदीपिका॥ कायोत्स ध्ययने पाक्षिकसूत्रम् ॥ ॥१७९॥ अनाशातनाविनयस्तु अनुचितक्रियाविनिवृत्तिरूपोऽयं, अनाशातना भक्तिबहुमानवर्णजननमेदात्रिधा। स च पञ्चदशामां स्यादिति पञ्चचत्वारिंशद्विधः, यतः 'तित्थयर १ धम्म २ आयरिय ३ वायगे ४ थेर ५ कुल ६ गणे ७ संघे ८। संभोगिय ९ किरियाए १० मइनाणाईण य तहेव १५'।१ । सांभोगिका एकसमाचारिकाः, क्रिया अस्तिकता। अत्र भावना-तीर्थकराणामाशातनायां न वर्तितव्यमित्यादि, 'कायबा पुण भत्ती वहुमाणो तह य वनवाओ य । अरिहंतमाइयाणं केवलनाणावसाणाणं' । उक्तो दर्शनविनयः । अथ चारित्रविनयः चारित्रमेव चारित्रस्य वा विनयः श्रद्धानादिरूपः, यतः 'सामाइयाइचरणस्स सद्द-1 हणया १ तहेव कारणं २ । संफासणं परूवणमहपुरओ सव्वसत्ताणं ३'ति । मनोवचनकायविनयास्तु मनःप्रभृतीनां विनयाहेषु कुशलप्रवृत्त्यादिरूपाः, यतः-'मणवयकायविणओ आयरियाईण सव्वकालंपि । अकुसलमणाइरोहो कुसलाण उदीरणं तह य' ।श लोकानामुपचारो व्यवहारस्तेन स एव वा विनयो लोकोपचारविनयः सप्तधा-'अम्भासत्थाण १ छंदाणुवत्तणं २ कयपडिकित्ती तहय ३ कारियनिमित्तकरणं ४ दुक्खत्तगवेसणा तहय ५ तह देसकालजाणण ६ सव्वत्थेसु तह अणुमई भणिया ७' तत्राभ्यासस्थानं गुरुसमीपे स्थानं १ छन्दोनुवर्तित्वं गुर्वभिप्रायवर्तित्वं २ तथा कृतप्रतिकृति कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृति प्रत्युपकारं सूत्रादिदानतो विधास्यन्ति न तु निजरैवेति ३, तथा कारितनिमित्तकरणं कोऽर्थः येन श्रुतं प्रापितस्तस्य विनये वर्तितव्यं तदनुष्ठानं कार्य ४, तथार्तस्य पीडितस्य गवेषणमौषधादेरार्तगवेषणा ५, तथा देशकालज्ञता ६, तथा सर्वार्थेष्वप्रतिलोमतानुकूल्यं ७ । यद्वा मनोविनयः प्रशस्तः सप्तधा-अपापः १, असावद्यः २, अक्रियः ३, निरुपक्केशः ४, अनाश्रवः ५, अच्छविः ६, अभूताभिशङ्कनः ७, सपापाबस्तु सप्तधाऽप्रशस्तमनोविनयो विपरीतः । वाबिनयोप्येवं सप्त ॥१७९॥ For Private & Personal Use Only ww.jainelibrary.org Jain Education in

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410