Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
व्युत्सृष्टोदीरणं च ६। हीलितमवज्ञा, खिसितं मर्मोच्या, परुषं कठोरं, व्युत्सृष्टानां मर्मवचनानां उदीरणं कथनं ३१ । 'छवि०' अभ्यन्तरं लौकिकैरनातत्वादन्यतीर्थिकैश्च परमार्थतोऽनासेव्यमानत्वात् मोक्षप्राप्त्यन्तरंगत्वाच्च, तदेवाभ्यन्तरकं तपःकर्म । तत्र 'पायच्छित्तं विणओ यावच्चं तहेव सज्झाओ। झाणं उस्सग्गोवि य अम्भितरओ तबो होइ।१। इह चित्तं जीव उच्यते, ततः प्रायो बाहुल्येन चित्तं जीवं विशोधयत्यतिचारजनितकर्ममलरहितं करोतीति प्रायश्चित्तं आलोचनादिदशविधं इति कायोत्सर्गनियुक्तौ व्याख्यातं १। विनीयते क्षिप्यतेऽष्टप्रकारं कर्मानेनेति विनयः, स च ज्ञानदर्शनचारित्रमनोवचनकायलोकोपचारविनयभेदात्सप्तधा । तत्र ज्ञानमाभिनिबोधिकादि पश्चधा, तदेव विनयो ज्ञानस्य वा विनयः भक्त्यादिकरणं ज्ञानविनयः, उक्तं च- भत्ती १ तह बहुमाणे २ तद्दिद्वत्थाण सम्म भावणया ३ । विहिगहण ४ भासोविय एसो विणओ जिणाभिहिओ'।१। भक्तिर्बाह्या सेवा, बहमान आन्तरप्रीतिः। दर्शनं सम्यक्त्वं तदेव विनयो दर्शनस्य वा विनयो दर्शनगुणाधिकानां शुश्रूषणाऽनाशातनारूपो विनयो दर्शनविनयः, यतः 'सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दंसणगुणाहिएK, कजइ सुस्सूसणाविणओ। १ । सक्कार १ भुट्ठाणे २ सम्माणा ३ सणपरिग्गहो ४ तहय । आसणमणुप्पयाणं ५ किइकम्म ६ अंजलिग्गहो य ।२। इतस्सणुगच्छणया ८ ठियस्स तह पज्जुवासणा भणिया ९। गच्छंता- | णुब्वयणं १० एसो सुस्मसणाविणओ'।३। इह सत्कारः स्तवनवन्दनादिः, अभ्युत्थानं विनयाहस्य दर्शनादेवासनत्यजनं । सन्मानो वस्त्रपात्रादिपूजनं । आसनाभिग्रहस्तिष्ठत आदरेणासनानयनपूर्वकमुपविशतात्रैवं भणनं । आसनानुप्रदानं तु आसनस्य स्थानात् स्थानान्तरसञ्चारणं । कृतिकर्म द्वादशाव-वन्दनं, शेषं स्पष्टं। उचितकरणक्रियारूपोऽयं दर्शने शुश्रूषाविनयः ।
Jain Education Inter
For Private & Personal Use Only
Loww.jainelibrary.org

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410