________________
व्युत्सृष्टोदीरणं च ६। हीलितमवज्ञा, खिसितं मर्मोच्या, परुषं कठोरं, व्युत्सृष्टानां मर्मवचनानां उदीरणं कथनं ३१ । 'छवि०' अभ्यन्तरं लौकिकैरनातत्वादन्यतीर्थिकैश्च परमार्थतोऽनासेव्यमानत्वात् मोक्षप्राप्त्यन्तरंगत्वाच्च, तदेवाभ्यन्तरकं तपःकर्म । तत्र 'पायच्छित्तं विणओ यावच्चं तहेव सज्झाओ। झाणं उस्सग्गोवि य अम्भितरओ तबो होइ।१। इह चित्तं जीव उच्यते, ततः प्रायो बाहुल्येन चित्तं जीवं विशोधयत्यतिचारजनितकर्ममलरहितं करोतीति प्रायश्चित्तं आलोचनादिदशविधं इति कायोत्सर्गनियुक्तौ व्याख्यातं १। विनीयते क्षिप्यतेऽष्टप्रकारं कर्मानेनेति विनयः, स च ज्ञानदर्शनचारित्रमनोवचनकायलोकोपचारविनयभेदात्सप्तधा । तत्र ज्ञानमाभिनिबोधिकादि पश्चधा, तदेव विनयो ज्ञानस्य वा विनयः भक्त्यादिकरणं ज्ञानविनयः, उक्तं च- भत्ती १ तह बहुमाणे २ तद्दिद्वत्थाण सम्म भावणया ३ । विहिगहण ४ भासोविय एसो विणओ जिणाभिहिओ'।१। भक्तिर्बाह्या सेवा, बहमान आन्तरप्रीतिः। दर्शनं सम्यक्त्वं तदेव विनयो दर्शनस्य वा विनयो दर्शनगुणाधिकानां शुश्रूषणाऽनाशातनारूपो विनयो दर्शनविनयः, यतः 'सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दंसणगुणाहिएK, कजइ सुस्सूसणाविणओ। १ । सक्कार १ भुट्ठाणे २ सम्माणा ३ सणपरिग्गहो ४ तहय । आसणमणुप्पयाणं ५ किइकम्म ६ अंजलिग्गहो य ।२। इतस्सणुगच्छणया ८ ठियस्स तह पज्जुवासणा भणिया ९। गच्छंता- | णुब्वयणं १० एसो सुस्मसणाविणओ'।३। इह सत्कारः स्तवनवन्दनादिः, अभ्युत्थानं विनयाहस्य दर्शनादेवासनत्यजनं । सन्मानो वस्त्रपात्रादिपूजनं । आसनाभिग्रहस्तिष्ठत आदरेणासनानयनपूर्वकमुपविशतात्रैवं भणनं । आसनानुप्रदानं तु आसनस्य स्थानात् स्थानान्तरसञ्चारणं । कृतिकर्म द्वादशाव-वन्दनं, शेषं स्पष्टं। उचितकरणक्रियारूपोऽयं दर्शने शुश्रूषाविनयः ।
Jain Education Inter
For Private & Personal Use Only
Loww.jainelibrary.org