________________
आवश्यकन नियुक्ति- दीपिका ॥
॥१७८॥
ध्यानकरैः कर्माणुभिर्निष्पन्न आत्मपरिणामः शुक्ललेश्या ६।२४-२५। 'मण' मनसा शुभभावरूपेण चेतसा रक्षामि महा- 12| कायोत्सव्रतानीति सम्बन्धः । किम्भृतोऽहं मनःसत्यं, मनःसंयमोऽकुशलमनोरोधकुशलमनःप्रवृत्तिरूपस्तं वेग्रीति मनःसत्यवित् । एवं ध्ययने वाक्सत्यज्ञो वाक्सत्येन अयोग्यवाक्त्यागी योग्यवक्ता । करणसत्यज्ञः करणसत्येन कार्ये यतनाचेष्टाकृदन्यथा स्थिरः, एवं पाक्षिकत्रिविधेनाऽपि करणेन सत्यविद्वान् । अत्र सत्यसप्तभङ्गी-मनःसत्यमित्यादि ३, मनोवाक्सत्यं ४, मनःकायसत्यं ५, सूत्रम् ।। वाकायसत्यं ६, मनोवाकायसत्यं ७। एवं पञ्चमहाव्रतानि रक्षामि २६ । 'चत्ता'चतस्रो दुःखशय्या यथा शङ्का १, परलाभप्रार्थनं २, कामभोगप्रार्थना ३, मर्दनोद्वर्तनस्नानादिप्रार्थनं ४ शङ्काऽर्हन्मताश्रद्धा १ । एता एव विपरीताः सुखशय्याः । चतस्रः संज्ञा आहाराद्याः प्रतिक्रमणे व्याख्याताः । चतुरः कषायांश्चापरिवर्जयन् । चतस्रः सुखशय्या जिनमतश्रद्धा १, स्वलाभेच्छा २, कामाद्यप्रार्थन ३, शिरोलोचरोगादिवेदनासम्यक्सहन४रूपाः। चतुर्विधं संवरं मनो १ वारकायो३पकरणसंवररूपं ४, तत्रोपकरणसंवरः प्रतिक्रमणाध्ययनोक्तोऽजीवसंयमो ज्ञेयः। चतुर्विधं समाधि विनय १ श्रुत २ तप ३ आचारसमाधिरूपं उपसम्पनः। ज्ञान १ दर्शन २ चारित्र ३ तपः ४ समाधिरूपं च २७-२८। 'पंचे' पञ्च कामगुणान् इच्छाहेतून शब्दरूपादीन् , पश्च आस्रवान् प्राणातिपातादीन् महादोषान् । पञ्चेन्द्रियाणि श्रोत्र १ ग २ नासा ३ जिह्वा ४ शरीरा५ख्यानि तेषां संवरणं । पश्चविधं स्वाध्यायं सुष्ठु आ मर्यादया ध्यानरूपं, वाचना १, प्रच्छना २, परिवर्तना ३ऽनुप्रेक्षा ४ धर्मकथारूपं ५। तत्र वाचना सूत्रपरिपाटिदानग्रहणे, प्रच्छना सूत्रार्थयोः पृच्छा २, परिवर्तना गुणनाभ्यसने ३, अनुप्रेक्षा चिन्तनं ४, धर्मकथा स्पष्टा ५ २९-३० । 'छज्जी०' षट् जीवनिकायवधं, षट् चाऽप्रशस्ता भाषा:-अलीकं १, हीलितं २, खिसितं ३, परुषं ४, गर्वबहुलं ५, १७८॥
Jain Education Intel
For Private & Personal use only
I IN
ww.jainelibrary.org