Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
1 अन्येभ्यो दत्तं, पठितं मुखपाठेन, परिवर्तितं गुणितं, संशये पृष्टं वा, अनुप्रेक्षितं मनसा श्रुतं ध्यातं, अनुपालितं क्रियाकर
णेन पालितं । तत् श्रुतवाचनपठनादि मम देहमनोदुःखक्षयाय कर्मक्षयायेत्यादि प्राग्वत् , संसारोत्तारणाय ममेतिकृत्वा वाचितपठनाद्युपसम्पद्य विहरामो मासकल्पादिना साधुमार्गे चलामः । अन्तर्मध्ये पक्षस्य चन्द्रमासा स्य, एवं चतुर्मासकादेरन्तर्मध्ये यन्त्र वाचितं इत्यादि नानुपालितं, सति बले शारीरबले, सति वीर्ये मानसबले, सति पुरुषकारपराक्रमे, पुरुषकारः शारीर उपक्रमः पराक्रमः कारिजयाय यत्नः । तं अवाचनापठनादिकं आलोचयामः गुरवे प्रकाशयामः, प्रतिक्रामामः निन्दामः गर्हामः व्यतिवर्तयामः वित्रोटयामोऽवाचनादिप्रतिबन्धं विशोधयामः सप्रमादमात्मानं, अकरणतयाऽभ्युत्तिष्ठामः पुनर्न करिष्यामः इत्यर्थः । यथाई तपाकर्म निर्विकृत्यादि प्रायश्चित्तं प्रतिपद्यामहे । अत्र बहुत्वं स्वस्य सामान्यत्वात् सामान्यलोकेषु मीलनात् । तस्यातीचारस्य मिथ्यादुःकृतमस्तु । 'नमो तेसिं०" । नमो तेसिं खमासमणाणं जेहिं इमं वाइअं अंगबाहिरं उक्कालिअं भगवंतं, तंजहा-दसवे| आलिअं १, कप्पिआकप्पिअं २, चुल्लकप्पसुअं३, महाकप्पसुअं४, उववाइअं५, रायप्पसेणिअं६, | जीवाभिगमो ७, पन्नवणा ८, महापन्नवणा ९, नंदी १०, अणुओगदाराई ११, देविंदत्थओ १२, • तंदुलवेआलिअं १३, चंदाविज्झयं १४, पमायप्पमायं १५, पोरिसिमंडलं १६, मंडलप्पवेसो १७,
गणिविज्जा १८, विजाचरणविणिच्छओ १९, झाणविभत्ती २० मरणविभत्ती २१, आयविसोही
Jain Education in
For Private & Personal Use Only
| www.jainelibrary.org

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410