Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
हामो विउद्देमो विसोहेमो अकरणयाए अब्भुट्ठमो अहारिहं तवोकम्मं पायच्छित्तं पडिवजामोd तस्स मिच्छामि दुक्कडं।
इत्येवं महाव्रतोच्चारणं स्थिरताहेतुत्वेन पुण्यस्थिरत्वं, पापशल्योद्धरकत्वेन शल्योद्धरणं । धृतेः संतोषस्य बलं अवष्टम्भः, व्यवसाया, ' साहणट्ठो पावनिवारणं निकायणा भावविसोही पडागाहरणं इत्यादि' साधनरूपोऽर्थः पदार्थः, मुक्त्यै निकाचना व्रताङ्गीकारदृढनिर्बन्धः, भावविशोधिः, मल्लयुद्धादिषु वस्त्रमाभरणं वा ध्वजाग्रे बध्यते, तत्र यो युद्धादिगुणे प्रकृष्टः स पुरतो भूत्वा लातीति पताकाहरणमेवमत्रापि शुद्धचारित्रस्य पताकाया हरणं । निहणा कारीणां निःकासनं, आराधनाऽखण्डनिष्पादकता गुणानां । संवरस्य नवकर्मरोधस्य योगो व्यापारः, प्रशस्तध्यानोपयुक्तता धर्मशुक्लध्यानोपयोगो महाव्रतोच्चारं कुर्वतः शृण्वतो वा, युक्तता च ज्ञानेन सह, परमार्थोऽकृत्रिमार्थोऽयं, सोप्युत्तमार्थ एष महाव्रतरूपः । तीर्थकरै रतिः कामो रागो ममता द्वेषः क्रोधस्तन्मथनैर्दर्शित उक्तः, प्रवचनस्य सारः सिद्धान्ततत्त्वं महाव्रतानि । तेऽर्हन्तः षडूजीवनिकायसंयम उपदिश्य त्रैलोक्यसत्कृतं त्रैलोक्यपूजितं स्थानं सिद्धिं अभ्युपगता प्राप्ताः । महाव्रतकीर्तनान्ते मङ्गलाय श्रीवीरस्तुतिमाह'नमोत्थु'त्ति हे सिद्ध निष्टितार्थ ! हे बुद्ध ज्ञान ! हे मुक्त अकर्मन् ! हे नीरजः कर्मरहित! [हे श्रमण समचित्त ! हे समाधि सम्यक्त्वसमयोगः शल्यकर्तन शल्यछेदक! तत्र केवलिनोऽपि क्षायिकसम्यक्त्वं समयोगश्चारित्रसामायिकं च
१ एतचिह [
] गतः पाठोऽधिको भाति ।
Jain Education Inter
For Private & Personal use only
soww.jainelibrary.org

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410