SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ हामो विउद्देमो विसोहेमो अकरणयाए अब्भुट्ठमो अहारिहं तवोकम्मं पायच्छित्तं पडिवजामोd तस्स मिच्छामि दुक्कडं। इत्येवं महाव्रतोच्चारणं स्थिरताहेतुत्वेन पुण्यस्थिरत्वं, पापशल्योद्धरकत्वेन शल्योद्धरणं । धृतेः संतोषस्य बलं अवष्टम्भः, व्यवसाया, ' साहणट्ठो पावनिवारणं निकायणा भावविसोही पडागाहरणं इत्यादि' साधनरूपोऽर्थः पदार्थः, मुक्त्यै निकाचना व्रताङ्गीकारदृढनिर्बन्धः, भावविशोधिः, मल्लयुद्धादिषु वस्त्रमाभरणं वा ध्वजाग्रे बध्यते, तत्र यो युद्धादिगुणे प्रकृष्टः स पुरतो भूत्वा लातीति पताकाहरणमेवमत्रापि शुद्धचारित्रस्य पताकाया हरणं । निहणा कारीणां निःकासनं, आराधनाऽखण्डनिष्पादकता गुणानां । संवरस्य नवकर्मरोधस्य योगो व्यापारः, प्रशस्तध्यानोपयुक्तता धर्मशुक्लध्यानोपयोगो महाव्रतोच्चारं कुर्वतः शृण्वतो वा, युक्तता च ज्ञानेन सह, परमार्थोऽकृत्रिमार्थोऽयं, सोप्युत्तमार्थ एष महाव्रतरूपः । तीर्थकरै रतिः कामो रागो ममता द्वेषः क्रोधस्तन्मथनैर्दर्शित उक्तः, प्रवचनस्य सारः सिद्धान्ततत्त्वं महाव्रतानि । तेऽर्हन्तः षडूजीवनिकायसंयम उपदिश्य त्रैलोक्यसत्कृतं त्रैलोक्यपूजितं स्थानं सिद्धिं अभ्युपगता प्राप्ताः । महाव्रतकीर्तनान्ते मङ्गलाय श्रीवीरस्तुतिमाह'नमोत्थु'त्ति हे सिद्ध निष्टितार्थ ! हे बुद्ध ज्ञान ! हे मुक्त अकर्मन् ! हे नीरजः कर्मरहित! [हे श्रमण समचित्त ! हे समाधि सम्यक्त्वसमयोगः शल्यकर्तन शल्यछेदक! तत्र केवलिनोऽपि क्षायिकसम्यक्त्वं समयोगश्चारित्रसामायिकं च १ एतचिह [ ] गतः पाठोऽधिको भाति । Jain Education Inter For Private & Personal use only soww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy