Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
|क्षान्त्यादौ स्थितः प्रथमं व्रतं अनुरक्षामि पालयामि विरतोऽस्मि प्राणातिपातात् ७ । एवं सर्वगाथाः ६ । पुनर्विशेषात्पालनमाह'आलय.' आलये वसतौ विहारे च समितः समितिमान् अस्नानलोचपरीषहसहनादन्तधावनगुरुकुलवासादिसाधुगुणैर्युक्त इन्द्रियैर्गप्तः श्रमणधम्में स्थितः प्रथमं व्रतमनुरक्षामि १३, गाथा:६। 'आलय.' त्रिविधेन करणेन मनआदिना वशीकृतेनाप्रमत्तः सन् पञ्चमहाव्रतानिरक्षामि १९ । अथ महाव्रतविरोधिनो महाव्रतापकारकांश्च वक्ति-सावा योगं सपापं व्यापार एकं, मिथ्यात्वं एकं, अज्ञानं एकं, एवश्चार्थे, परिवर्जयेत् गुप्तः पञ्चमहा०२०। 'अनवद्ययोग' निःपापव्यापारं एकं, सम्यक्त्वं एकं, सज्ज्ञानं प्रधानज्ञानं एकं उपसम्पन्न आश्रितः गुणैयुक्तः २१ । द्वौ रागद्वेषौ द्वे ध्याने आतरौद्रे परिवर्जयन् । तथा ऋतं दुःखं तत्र भवं आ । दुःखार्तस्य दुःखहान्यै सुखादिप्रायै च गाढाध्यवसायो रोधयति नरके जन्तुमिति रौद्रं, हिंसामृषास्तेयपरिग्रहादिगाढाशयाः २२ । द्विविधं चारित्रधर्म देशसर्वविरतिरूपं, द्वे ध्याने धHशुक्ले च । तत्र धर्माय हितं धयं जिनोदितक्रियातत्त्वादिगाढाभिप्रायः, शुचं लमयतीति शुक्लं रूपातीतादि नीरागं ध्यानं, प्ररूपकतया कर्तृतया चोपसम्पन्न आदृतः २३ । 'किण्हा' कृण्णनीलकापोताख्या अप्रशस्तास्तिस्त्रो लेश्या परिवर्त्य तेजःपद्मशुक्लास्तिस्रो लेश्याः सुष्टु प्रशस्ता उपसम्पन्न आश्रितः, लेश्याः प्रतिक्रमणाध्ययने व्याख्याताः । तत्र कृष्णैर्विगन्धस्तीक्ष्णोर्महाकटुभिहिंसादिप्रवृत्तिकरैः कर्मपुद्गलनिष्पन्न आत्मपरिणामः कृष्णलेश्या १ ।
नीलैर्विगन्धैस्तिक्तस्तीक्ष्णैरविरत्यारम्भादिप्रवृत्तिकरैः कर्माणुभिर्नीललेश्या २। किञ्चिन्नीलः किश्चिद्रक्तो वर्णः कापोतः, M कापोतवणैस्तीक्ष्णैरम्लैर्विगन्धर्मायादिकरैरणुभिः कापोतलेश्या ३। रक्तैः सुगन्धैर्मधुरैः सुकुमारैर्विनयादिभिर्गुणकरैरणुभिः
तेजोलेश्या ४ । पीतैः सुगन्धैर्गाढमधुरैः स्तोकरागद्वेषादिहेतुभिः पद्मलेश्या ५ । श्वेतसुगन्धसरसमधुरसुकुमारर्धादि
Jain Education in
For Private & Personal Use Only
alwww.jainelibrary.org
A स
al ।

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410