Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 374
________________ आवश्यक नियुक्तिदीपिका कायोत्स ध्ययने पाक्षिकसूत्रम् ।। ॥१८॥ व्यमानं क्रियमाणं लोकैरपि तपस्तया ज्ञायमानं बहिर्देहशोषकत्वाद्वा बाह्यं अपिचेति समुच्चये । षड्विधमनशनादि तपःकर्म, तपति दुनोति देहकाणीति तपः, तस्य कर्म करणं तपःकर्म । तत्राऽनशनमाहारत्यागः, तद् द्विधा इत्वरं यावजीवं च । इत्वरं चतुर्थादिषण्मासान्तमधिकृततीर्थमाश्रित्येति तथा श्रेणिप्रतरादितपांसि च, यावज्जीवं तु त्रिधा पादपोपगमेंगितमरणभक्तपरिज्ञाभेदात् , तत्र पादपो वृक्षस्तस्य छिन्नपतितस्येव चेष्टारोधेनोपगमनं स्थितिः पादपोपगमनं । तथेगिते नियमिते देशे मरणं इंगितमरणं इंगिनीमरणं वा । भक्तस्याऽऽहारस्य चतुर्विधस्य वा परिज्ञा त्यागः सचेष्टस्य भक्तपरिज्ञा । तत्र पादपोपगमनं सिंहाद्युपसगें कुर्वतो व्याघातवत् , स्वभावादेव तु निर्व्याघातं, तत्संलिखितः काले कुर्यात् । तद्विधिरुत्तराध्ययनादेर्डेयः 'चत्तारि विचित्ताई' इत्यादि गाथाभिः। तत्र देवगुरुन्नत्वा विधिना त्रिकं त्रिकेण सर्वाहारं प्रत्याख्याय गिर्यादि गत्वाऽप्रतिका दण्डायितादिस्थानं स्थित्वाऽऽजीवं निश्चेष्टस्तिष्ठेत् , परमाद्यसंहननीदं कुर्यात् । इंगितदेशे स्थितः त्यक्तसर्वाहारोऽन्येनोद्वर्तनाद्यकुर्व(कारय )न स्वयं तु कुर्वनिंगिनीमरणं कुर्यात् । भक्तपरिज्ञा सप्रतिकर्मसमर्थस्यापि । अनशनानां सविचाराविचारसपरि-IN कर्मापरिकर्मनिर्हारिमानिर्हारिमादिमेदाः सिद्धान्तात् ज्ञेयाः। उक्तमनशनं । अथावमोदरता द्विधा-द्रव्यतो भावतश्च । तत्र द्रव्यतः उपकरणभक्तपानविषया। तत्रोपकरणे जिनकल्पिकादीनामन्येषां वा तदभ्यासपराणां ज्ञेया नत्वन्येषां, उपध्यभावे समग्रसंयमाभावात् , अतिरिक्ताग्रहणं वा ऊनोदरता । भक्तपानोनोदरता यथाऽऽहारमानत्यागिनः, यथा ३२ कवला अविकृतास्ये क्षेपा नरस्याहारः तस्योनोदरता पञ्चधा-एकग्रासाद्या अष्टग्रासान्ताऽल्पाहाराख्या १, नवमात् द्वादशं यावत् अपार्द्धाख्या २, त्रयोदशात् षोडशं यावद्विभागाख्या ३, सप्तदशाच्चतुर्विशति यावत्प्राप्ताख्या ४, पञ्चविंशतेरेकत्रिंशतं ग्रासं यावत् किश्चिद् ॥१८०॥ Jan Education Inter For Private & Personal Use Only N w jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410