SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका कायोत्स ध्ययने पाक्षिकसूत्रम् ।। ॥१८॥ व्यमानं क्रियमाणं लोकैरपि तपस्तया ज्ञायमानं बहिर्देहशोषकत्वाद्वा बाह्यं अपिचेति समुच्चये । षड्विधमनशनादि तपःकर्म, तपति दुनोति देहकाणीति तपः, तस्य कर्म करणं तपःकर्म । तत्राऽनशनमाहारत्यागः, तद् द्विधा इत्वरं यावजीवं च । इत्वरं चतुर्थादिषण्मासान्तमधिकृततीर्थमाश्रित्येति तथा श्रेणिप्रतरादितपांसि च, यावज्जीवं तु त्रिधा पादपोपगमेंगितमरणभक्तपरिज्ञाभेदात् , तत्र पादपो वृक्षस्तस्य छिन्नपतितस्येव चेष्टारोधेनोपगमनं स्थितिः पादपोपगमनं । तथेगिते नियमिते देशे मरणं इंगितमरणं इंगिनीमरणं वा । भक्तस्याऽऽहारस्य चतुर्विधस्य वा परिज्ञा त्यागः सचेष्टस्य भक्तपरिज्ञा । तत्र पादपोपगमनं सिंहाद्युपसगें कुर्वतो व्याघातवत् , स्वभावादेव तु निर्व्याघातं, तत्संलिखितः काले कुर्यात् । तद्विधिरुत्तराध्ययनादेर्डेयः 'चत्तारि विचित्ताई' इत्यादि गाथाभिः। तत्र देवगुरुन्नत्वा विधिना त्रिकं त्रिकेण सर्वाहारं प्रत्याख्याय गिर्यादि गत्वाऽप्रतिका दण्डायितादिस्थानं स्थित्वाऽऽजीवं निश्चेष्टस्तिष्ठेत् , परमाद्यसंहननीदं कुर्यात् । इंगितदेशे स्थितः त्यक्तसर्वाहारोऽन्येनोद्वर्तनाद्यकुर्व(कारय )न स्वयं तु कुर्वनिंगिनीमरणं कुर्यात् । भक्तपरिज्ञा सप्रतिकर्मसमर्थस्यापि । अनशनानां सविचाराविचारसपरि-IN कर्मापरिकर्मनिर्हारिमानिर्हारिमादिमेदाः सिद्धान्तात् ज्ञेयाः। उक्तमनशनं । अथावमोदरता द्विधा-द्रव्यतो भावतश्च । तत्र द्रव्यतः उपकरणभक्तपानविषया। तत्रोपकरणे जिनकल्पिकादीनामन्येषां वा तदभ्यासपराणां ज्ञेया नत्वन्येषां, उपध्यभावे समग्रसंयमाभावात् , अतिरिक्ताग्रहणं वा ऊनोदरता । भक्तपानोनोदरता यथाऽऽहारमानत्यागिनः, यथा ३२ कवला अविकृतास्ये क्षेपा नरस्याहारः तस्योनोदरता पञ्चधा-एकग्रासाद्या अष्टग्रासान्ताऽल्पाहाराख्या १, नवमात् द्वादशं यावत् अपार्द्धाख्या २, त्रयोदशात् षोडशं यावद्विभागाख्या ३, सप्तदशाच्चतुर्विशति यावत्प्राप्ताख्या ४, पञ्चविंशतेरेकत्रिंशतं ग्रासं यावत् किश्चिद् ॥१८०॥ Jan Education Inter For Private & Personal Use Only N w jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy