________________
विधः। द्विधा कायविनयः, प्रशस्त उपयुक्तेन गमन १ स्थान २ निपीदन ३ त्वग्वर्त्तन ४ उल्लङ्घन ५ प्रलङ्घन ६ सर्वेन्द्रिययोगजतया सप्तधा, स एवानुपयुक्तेन सप्तधाऽप्रशस्तः। इह पापं सामान्येन सावा क्रोधाद्यं । क्रिया कायिकाद्याः कर्मबन्धिन्यः, उपक्लेशः शोकाद्यः, आश्रवः प्राणातिपाताद्याश्रवकरणं । च्छविः कविः स्वान्ययोर्विषये प्रमादायासः। भूतानां प्राणिनां शङ्काजनकं भृताभिशङ्कनं, तथा उल्लङ्घनं उड्डयनं, प्रलङ्घनं ग दिप्लवनं, उक्तो विनयः । व्यावृत्तभावो धर्मार्थ अनादिदानप्रवर्तनकं वेयावृत्त्यं दशधा-'आयरिय १ उवज्झाए २ थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६ । साहसिय ७ कल दगण ९ संघ १०, संगयं तमिह कायवं'। १। आचार्यः पश्चधा दीक्षाचार्यों दिगाचार्यः सूत्रसमद्देशानुज्ञाचार्यों वाचनाचार्यः, तत्र दिगाचार्यो ग्रहणासेवनाशिक्षागुरुः । उपाध्यायः पाठकः, स्थविरो जातिश्रुतपर्यायैर्गच्छसाधुस्थैर्यद्वा । तपस्वी अष्टमाधिकतपाः, ग्लानो रोगी, शिक्षको नवदीक्षः साम्मिको लिङ्गात् न प्रवचनतः, कुलं एकाचार्यसन्ततिः, गणः सापेक्षद्वित्रिकुलसंगमः। संघः शासनं साधवः । सुष्ठु आ मर्यादयाऽध्यायः स्वाध्यायः पश्चधा-याचनाऽध्यापन, प्रच्छना सूत्रस्यार्थस्य वा, परिवर्तना गुणनमभ्यसनं च वाचा, अनुप्रेक्षा तु मनसा, धर्मकथाऽहिंसादिधर्मोपदेशः ५। ध्यानं धर्मध्यानं शुक्लध्यानं च । तत्र विरतिक्रियासंयमभावं धयं । इन्द्रियमनोव्यापारचिन्तारोधः शुक्लं, एषां भेदाः प्राग | ध्यानशतके उक्ताः। उत्सगों द्विधा द्रव्यतो भावतश्च, तत्र द्रव्यतो गणशरीरोपध्याहारविषयश्चतुर्धा, भावतस्तु कषायसंसारकर्मव्युत्सर्गभेदात्रिधा। तत्र कषायाणां चतुर्णां संसारस्य चतुर्गतिरूपस्याऽष्टकर्मणां च व्युत्सर्गभेदाः स्पष्टाः, यत:-काले गणदेहानां. अइरित्ताऽसुद्धभत्तपाणाणं कोहाईयाण ससयं (१) कायवो होइ चाउति उक्तमाभ्यन्तरं । अथ 'बझं पि य 'त्ति, बाह्यं आसे
Jain Education Inter
For Private & Personal Use Only
ww.jainelibrary.org