Book Title: Avashyakaniryuktidipika Part_2
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 345
________________ दीनामिच्छया, द्वेषेण अप्रीत्या, मायालोभौ रागः क्रोधमानौ द्वेषः, प्राणातिपातः स्यादेवं चतुर्दा । तथा द्रव्यतो हिंसा भावतश्च हिंसकानां, द्रव्यतो हिंसा न भावात् अप्रमत्तगर्तादौ, भावतो हिंसा न द्रव्यात् रौद्रध्यायिनोऽयतस्य, न द्रव्यतः न भावतः अप्रमत्तस्थितस्य ४ एवं चतुर्भङ्गी ज्ञेया । तत्र द्रव्यतो बाह्यतः भावतस्त्वभ्यन्तर इत्यर्थः। तथा | 'जंपि य मए.' (जं मए.) यदपि मयाऽस्य केवलिभिः प्रज्ञप्तस्य १ अहिंसालक्षणस्य अहिंसारूपस्य २ सत्येनाधिष्ठितस्य ३, विनयमूलस्य ४, क्षान्तिप्रधानस्य ५, हिरण्यं अघटितं सुवर्ण रूप्यं च, सुवर्ण घटितं, ताभ्यां रहितस्याहिरण्यसौवर्णिकस्य, सुवर्णमेव सौवर्णिकं स्वार्थे इकण ६, उपशमात् इन्द्रियमनोनिग्रहात् प्रभवस्य उत्पद्यमानस्य ७, नवविधब्रह्मचर्येण गुप्तस्य गुप्तेन्द्रियस्य ८, अपचमानस्य पचनरहितस्य ९, भिक्षावृत्तेः भिक्षया वृत्तिधर्महेतुदेहपालनं तत्रायुक्तस्य १०, कुक्षौ उदरे एव शंबलं यत्र संचयरहितत्वेन तस्य कुक्षिशंबलस्य ११, निरग्निशरणस्य निर्गतोऽग्निः शरणं गृहं च यस्मात स निरग्निशरणः तस्य १२, स्वभावनिर्मलत्वेन सम्प्रक्षालितस्य चोक्षस्य १३, त्यक्तमिथ्यात्वादिदोषस्य १४, गुणग्राहिणः १५, निर्विकारस्य विषयोन्मादरहितस्य १६, निवृत्तिरेव लक्षणं रूपं यस्य जिनधर्मस्य दयाविरतिरूपत्वात १७, पञ्चमहाव्रतयुक्तस्य १८, असंनिधिसंचयस्य संनिधिर्निश्याहारस्थापनं तस्य संचयेन रहितस्य १९, अविसंवादिनः विसंवादरहितस्य २०, संसारपारगामिनः २१, निर्वाणगमनपर्यवसानफलस्य निर्वाणगमनमेव पर्यवसाने सर्वोत्कृष्टसुकृतस्यान्ते फलं यस्य तस्य २२, एवं द्वाविंशतिविशेषणविशिष्टधर्मस्येति विशेष्यपदं इमस्स धम्मस्स सम्बन्धे ज्ञेयं । ततो धर्मस्य 'पुट्विं अन्नाण' पूर्वमज्ञानतया १ अश्रवणतया २ अबोध्याऽसम्यग्रेच्या ३ गुरोर्व्याख्यातोऽपि अनभिगमेन तवानधिगमेन ४ एवं चतुर्भिः Jain Education Intel For Private & Personal use only Jww.jainelibrary.org

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410