SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ जाग्रता, एवं भवेत् प्राणातिपातविरतिमान् । 'एस०' एतत् खलु प्राणातिपातविरमणं हितं, हितकारि पथ्यवत् । सुखं सुखकारि शीताम्बुपानवत् , क्षमं युक्तं, निःश्रेयसिकं मुक्तिदं, अनुगामिकं अनुगमनशीलं भवान्तरे सुखदानात् , पारगामिकं संसारपारदायिकं, सर्वेषां प्राणानां, प्राणा द्वित्रिचतुरिन्द्रियाः, भूताः वृक्षाः, जीवाः पञ्चेन्द्रियाः, सवाः शेषात्मानस्तेषामदुःखतया, दुःखस्याकरणेन, अशोचनया शोकानुत्पादनेन । अजूरणया भारवाहनादिना देहजीर्णताऽनुत्पादेन, अतापनया स्वेदलालाs. श्रुतपातकारणवर्जनेन, अपीडनयाऽपरितापनया, पीडा पदाक्रमणादिना देहपीडा, परितापस्तापादिसहनं मनःसन्तापनं वा । अनुपद्रावणया उपद्रवाकरणेन, उपद्रवो हिंसा उत्रासनं वा । ततोऽयमर्थः-सर्वप्राणादीनां अदुःखनादिना इदं महाव्रतं स्यात् । व्रतमिदं 'महत्थे' महार्थं महाफलं, महागुणं महागुणैः क्षमादिभिर्युक्तं, महानुभावं, महापुरुषैरहंदादिभिरनुचीर्ण पालितं, परम| र्षिभिर्दिष्टं उक्तं, प्रशस्तं भव्यं, तद् दुःखक्षयाय, कर्मक्षयाय, मोक्षतायै मोक्षलक्ष्म्यै, बोधिलाभाय सम्यक्त्वशुद्धिकरणेन, भवान्तरे च सम्यक्त्वलाभकृत्या तद्भव एव वा बोधिलाभाय, संसारोचारणाय भवत्विति कृत्वा, उपसम्पद्य स्वीकृत्य विहरामि, मासकल्पादिनान्यथावतप्रपत्तेर्वैयर्थ्यात् । अथ निगमयति 'पढमे भंते' हे भदंत! प्रथमे महाव्रते उप सामीप्येन तत्परिणामापच्या स्थितोऽस्मि, इतः सर्वस्मात्प्राणातिपाताद्विरमणं ममाऽभूत् । अत्राऽपि भदंतपदेन, एवं आदिमध्यान्तेषूपन्यस्तेन गुर्वपृच्छया किश्चिन्न कार्य, कृतं च तस्मै ज्ञाप्यं । एवं आराधकः स्यादित्याह-उक्तमाद्यं व्रतं ॥ १॥ अथ द्वितीयमाह 'अहावरे दोच्चे' अहावरे दोच्चे भंते ! महत्वए मुसावायाओ वेरमणं, सवं भंते ! मुसावायं पञ्चक्खामि, से Jain Education inte For Private & Personal use only Edww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy