________________
आवश्यक
निर्युक्ति
दीपिका ॥
॥१६६॥
Jain Education Inter
प्रकारैः, तथाऽभिगमेन वा धर्म्मस्याधिगमेनाऽपि वा सता प्रमादेन यतनाऽनुपक्रमेण १, रागद्वेषप्रतिबद्धतया २, बालतया शिशुतया ३, मोहतया शरीरद्रव्यादिमोहेन ४, मन्दतया मूर्खतया ५, क्रीडतया केलिप्रियतया ६, ऋद्धिरससुखरूपैस्त्रिभिगौरवैगुरुतया सगर्वतया, तत्र गौरवं ऋद्ध्यादीनां प्रार्थनं प्राप्तौ च गर्वः ७, चतुर्भिः कषायैरुपगतेन युक्तेन ८, पञ्चेन्द्रियोपवशार्त्तेन पञ्चेन्द्रियाणां उप सामीप्ये वशेन आयत्ततया आर्त्तेन पीडितेन ९, प्रतिपूर्ण भारितया भारः कर्म्मबलं तदस्यास्तीति भारी तस्य भावेन १०, सातसुखं संसारसुखं अनुपालयताऽनुभवता ११, एवमेकादशकारणैः इहभवेऽन्येषु वा भवग्रहणेषु प्राणातिपातः कृतो वा कारितो वा परैः क्रियमाणो वा सम्यगनुज्ञातः । तं त्रिविधं प्राणातिपातं त्रिविधेन करणेन मनआदिना निन्दामि गर्हामि । अत्र 'अन्नाणयाए' मुख्याश्चत्वारो हिंसामृषावादादीनां हेतवः, प्रमादादीन्येकादश च कारणानि । एवमग्रेऽपि । तथा अतीतं प्राणातिपातं निन्दामि, प्रत्युत्पन्नं संवृणोमि अकरणेन, अनागतं प्रत्याख्यामि निषेधेन, सर्व त्रिकालप्राणातिपातं निषिध्य, यावज्जीवयाऽनिश्रितः इहलोकाद्याशंसामुक्तोऽहं । काऽप्यत्र 'नेव सयं पाणे अइवाइजे 'त्यादि पाठोऽपि । कतिसाक्षिकं व्रतं प्रपन्न इत्याह, तद्यथा-अर्हत्साक्षिक, सिद्धसाक्षिक, साधुसाक्षिकं देवा भवनपत्याद्यात्याद्यधिष्ठायिनोऽन्ये वा प्रयुक्तावधयो यत्र तद्देवसाक्षिकं यतो 'विरइपडिवत्तिकाले चिइवंदणोवयारेण अवस्स महासन्निहिया देवया सन्निहार्णमि भवन्ति, अउ देवसक्खियं इति चूर्णिः । तथा आत्मसाक्षिकं आत्मनः शुद्धपरिणामात्प्रत्यक्षं । तथा एवं भवति भिक्षुः भिक्षुणी वा । संयतः सप्तदशभेदसंयमवान्, विरतो विरतिमान्, प्रतिहतं अल्पबलं कृतं प्रत्याख्यातं हेत्वभावेन वृद्ध्यभावान्निषिद्धं पापकर्म येन | स संयतविरतप्रतिहत प्रत्याख्यातपापकर्म्मा, दिवा रात्रौ वा, एको वा पर्षद्गतः साधुः सभागतो वा, सुप्तो वा निशो द्वौ यामौ
For Private & Personal Use Only
कायोत्स
गध्ययने
पाक्षिक
सूत्रम् ॥
॥१६६॥
www.jainelibrary.org