Book Title: Avashyak Niryukti Part 03
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 369
________________ भसधारी डेभयन्द्रसूरिमृत टीप्पाड (भाग-3) विकल्पान्नैगम इच्छति, प्रस्थको - धान्यमानविशेषस्तद्दृष्टान्तो यथा - तद्योग्यं काष्ठं वृक्षावस्थायामपि तदनुकीर्त्तिकं स्कन्धे कृतं गृहमानीतमित्यादि सर्व्वास्वप्यवस्थासु नैगमः प्रस्थकमिच्छति, ग्रामोदाहरणं यथा-विवक्षितग्रामवास्तव्यप्रधानकतिपयपुरुषदर्शनेऽपि ग्रामोऽसावितीच्छति नैगमः । ' भमराइ गाहा' - (९३-१०), इह भ्रमरकोकिलादिः कृष्णतयोपलभ्यमानोऽपि निश्चयमतेन पञ्चवर्णः, 5 शेषवर्णचतुष्टयं हिन्यग्भूतत्वात्तत्र न दृश्यते न पुनर्नास्तीति प्रतिपद्यतेऽसौ तथा प्रज्ञप्तिः - 'भमरे णं भंते ! कइवण्णे कइगंधे कइरसे, कइफासे ?, गोतमा — इत्थं दो नया कज्जंति, तंजहा - निच्छयनए य वावहारियनए अ, वावहारिअनयस्स कालए भमरे, निच्छयनयस्स पंचवण्णे दुगंधे पंचरसे अट्ठफासे इत्यादि, एवं नीललोहितपीतशुक्लतया व्यवहारतोऽवगतेष्वपि वस्तुषु निश्चयतः पञ्चवर्णताऽवगन्तव्या, तदेवं भ्रमरादौ निश्चयनयमतेन पञ्चवर्णे निश्चिते सति व्यवहारस्य को 10 निश्चयार्थ इत्याह- 'सो विणिच्छयत्थो 'ति ( ९४ - १ ), स विनिश्चयार्थ इति ज्ञेयः क इत्याहयत्तदोर्नित्याभिसम्बन्धाच्छेषवर्णेषु सत्स्वपि यः कृष्णोऽयमित्यादिरूपो विनिश्चयः समुत्पद्यत इति गम्यते, 'जम्मि वा जणवयस्स अत्थे'ति, विनिश्चय इतीहापि सम्बध्यते, ततश्च यस्मिन्वा कस्मिँश्चिदर्थे जनपदस्यगोपालाङ्गनादिरूपस्य नामथापनाद्रव्यभावानामन्यतररूपेण अतीतानागतवर्त्तमानान्यतररूपेण वा निश्चयः समुत्पद्यते स विनिश्चयार्थः, किमुक्तं भवतीति तात्पर्यार्थमाह- 'जो 15 गेज्झो 'त्ति, अन्येषु सत्स्वपि बहुष्वशेषगोपालाङ्गनादिजनपदस्योद्भूतशक्तितया यो ग्राह्योऽंशः स विनिश्चयार्थः तदर्थं व्रजति व्यवहार इति गाथार्थः । यस्मिन्नेवांशे जनपदस्य निश्चयो भवति किमित्यसौ तमेव गमयति सतोऽपि शेषांशान्मुञ्चतीत्याह - 'पहुतरउत्ति य इत्यादि, स एव बहुतरांशो यत्र जनपदस्य निश्चय उत्पद्यत इति तमेवांशं गमयति-व्यवहारपथमवतारयति, येषु त्वंशेषु लोकस्य निश्चयो न भवति तान्सतोऽपि मुञ्चति व्यवहारो नयः, किं कुर्व्वन् ? लोकं लोकव्यवहारमिच्छन्, 20 कया ? - संव्यवहारपरतया, संव्यवहारस्वरूपत्वादेव तस्येति गाथार्थ: । 'प्रति प्रति वोत्पन्नमिति (९४-७), एकैकं स्वामिनमाश्रित्योत्पन्नं, एतदेवाह - 'भिन्नव्यक्ती 'त्यादि, भिन्ना व्यक्तयः-स्वामिन्यो यस्य तत्तथाभूतं, ऋजुसूत्रो हि वर्त्तमानक्षणभाव्येव वस्त्विच्छति तदपि भिन्नव्यक्तिस्वामिकं, तन्मतेन हि यद्देवदत्तस्य वित्तं तद् यज्ञदत्तस्यावित्तमेव, तदपेक्षया वित्तकार्याकारणाद्, यज्ञदत्तस्यापि यद्वित्तं तद्देवदत्तस्याप्यवित्तमेव तत एव हेतोः, तस्माद्वयोरपि वित्तयोर्भिन्नस्वाम्यपेक्षयैव वित्तत्वमिति 25 भिन्नव्यक्तिस्वामिता । 'ऋजुसूत्रः ऋजुश्रुतो वे 'ति (९४-८), शब्दद्वयस्य यथाक्रमं व्युत्पत्तिमाह'तत्र ऋजु-वर्त्तमान'मित्यादि । 'नामस्थापनाद्रव्यविरहेण समानलिङ्गवचने त्यादि (९५-५), लिङ्गं च वचनञ्च लिङ्गवचने समाने लिङ्गवचने येषां ते च ते पर्यायध्वनयश्च - इन्द्रः शक्रः पुरन्दर इत्यादयस्तद्वाच्यत्वेन च, तदनेनातिक्रान्तवक्ष्यमाणनयद्वयाद्भिन्नताऽस्य सूचिता, अतिक्रान्तनयो ि नामादिचतुर्विधमपि भिन्नलिङ्गवचनपर्यायध्वनिवाच्यमेव च वस्त्विच्छति अयं तु भावरूप ૩૫૮

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410