Book Title: Avashyak Niryukti Part 03
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 367
________________ ૩૫૬ ના મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૩) अमुख्यैव, तथा च तस्यामेव निर्गमप्रतिपादकगाथायां वृत्तिकृतोक्तम्-अत्र त्वधिकारः प्रशस्तभावनिर्गममात्रेणैव शेषैरपि निर्गमाङ्गत्वादिति, तस्मान्मुख्यतया प्रस्तुतसामायिकविषयत्वान्निर्गमान्तर्गतक्षेत्रकालयोः सामान्यरूपतैवेति, यद्येवं भावनिर्गमोऽपि तर्हि नेह वक्तव्यो यतो निर्गमप्रतिपादकगाथायां भावनिर्गमो भावपुरुष एवाभिप्रेतः, तथा च तत्र वृत्तिकारेणोक्तम्-इह च क्षेत्रं महसेनवनं कालः प्रथमपौरुषीलक्षणो भावश्च भावपुरुष इति, स च भावपुरुषो ‘दव्वाभिलावचिन्धे' इत्यादि गाथायां वक्ष्यति । 'अथवा भावेत्ति-भावनिर्गमप्ररूपणा-यामधिकृताया'मित्यादि (७२-१०), भवताऽपि चोक्तं क्षेत्रकालपुरुषाणां निर्गमाङ्गता व्याख्यातैव, न पुनरिदं त्वयाऽप्युक्तंक्षेत्रकालभावानां निर्गमाङ्गता प्रतिपादितैवेति, तदेवं भावनिर्गम-प्रतिपादनमिहासङ्गतमेव, सत्यं, किन्तु निर्गमप्रतिपादकगाथायां यदुक्तं भावश्च भावपुरुष इति, अत्र तु यदा भावेन क्षायिकादिना 10 उपलक्षितः पुरुषो भावपुरुषः इति व्युत्पत्तिः क्रियते तदा 'खइयम्मि वट्टमाणस्से निग्गय'मित्यादिना क्षायिकभावोपलक्षितमहावीरलक्षणपुरुषान्निर्गतमिदं सामायिकमित्यादिप्ररूपणं न किञ्चिद्विरुध्यते, यदा तु भावपुरुष इति शुद्धपुरुष इति व्याख्यायते तदा ‘दव्वाभिलावचिन्धे' इत्यादिगाथाप्रतिपादित एव भावपुरुष इति न दोषः, इदं चात्र पुरुषद्वयमप्यभिप्रेतं लक्ष्यते, 'खइयम्मि वट्टमाणस्से'त्यादिगाथोपन्यासाद् दव्वाभिलावेत्यादिवक्ष्यमाणत्वाच्चेत्यलं प्रसङ्गेन, अत्र च 15 निर्गमद्वारव्याचिख्यासयेत्यस्यानन्तरं क्वचिदाहशब्दस्य पाठो दृश्यते स चाशुद्ध एव लक्ष्यते। 'तन्तुसंयोगे'त्यादि (७४-६), तन्तुसंयोगा असमवायिन इति योगः, पटस्येति गम्यते, हेतुमाहपटाख्यं यत्कार्यरूपं तन्त्वपेक्षया द्रव्यान्तरं तस्माद्दूरवर्त्तित्वाद्, एतदपि कुत इत्याह-कारणं यत्तन्तुरूपं द्रव्यान्तरं च तत् पापेक्षया, तद्धर्मत्वात्संयोगानां, यो ह्यन्यधर्मः सोऽन्यस्य दूरत एव भवति, संयोगाश्च द्वयादितन्तुमीलनरूपास्तन्तुधर्मत्वात्पटाख्यकार्यस्य दूरवर्त्तिन इत्यसमवायिकारणरूपाः । 20 'निर्व] चे'त्यादिकारिका (७५-६), अस्या व्याख्या-निर्वर्त्य विकार्यं प्राप्यं वा यथाक्रम ओदनकाष्ठभास्करादिकं वस्तु क्रियाफलं 'कर्तुरीप्सितं' (पा-१-४-४९) क्रियाविषयत्वेनेष्टमित्यर्थः तत्कर्म भवतीति योगः, कथम्भूतं ?–दृष्टादृष्टसंस्कारं निर्व] विकार्ये वा कटदिकर्मणि शलाकारचनादिः कश्चिद् दृश्यते संस्कारो न प्राप्ये आदित्यं पश्यतीत्यादाविति तदृष्टादृष्टसंस्कारं, अनया च कारिकया निर्वर्तनादिक्रियाविषयत्वेनेष्टमेव कर्म भवतीति प्रतिपादितमिति प्रकृते उपन्यस्ता । 'तथा 25 सम्प्रदानमि'त्यादि (७५-८), कुम्भकारादिना निष्पद्यमानस्य घटस्य सम्प्रदानं-जनपदस्तस्य जनपदलक्षणस्य सम्प्रदानस्य कर्मणा-कार्येण घटलक्षणेन करणभूतेनाभिप्रेतत्वादित्सया व्याप्तत्वाद्, यदि नाम घटदित्सया जनपदलक्षणं सम्प्रदानं व्याप्तं तथापि कथं जनपदलक्षणस्य सम्प्रदानस्य घटं. प्रति कारणता इत्याह-'तं सम्प्रदानविशेषमन्तरेण तस्य घटस्याभावात्' (७५-९), .यदि हि

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410