Book Title: Avashyak Niryukti Part 03
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 380
________________ પરિશિષ્ટ-૧ ( ૩૬૯ - गृहमानुषाण्यभिहितानि-अस्मै साधवे भिक्षां प्रयच्छत, तैश्च कुतश्चित्कारणान्न तस्यैकेनैव वचनेन भिक्षा साधवे दत्ता, ततश्चासौ सुवर्णकार: स्वयमेवोत्थाय भिक्षादानार्थं गृहमध्येऽतिगतः-प्रविष्टः । 'पहाणो दंडो'इत्यादि (३३८-१२), स दत्तः प्रधानो दण्ड:-सामन्तोऽभूत्, कुलपुत्रकशब्देनेहाम्नायायातशेषसामन्तामत्यादयोऽभिधीयन्ते, ततश्चासौ तान् भेदयित्वा अग्रेतनराजानं निष्कास्य स्वयं राजा समभूत् ॥ सम्यग्वाद: समाप्तः ॥ 'नामगं साहित्ते' त्यादि (३४२-६), सोऽहं 5 चिलातीपुत्रो यद्यस्ति भवतां शक्तिस्तहि रक्षणीयं सुसुमादिवस्तुजातमित्येवं स्वनाम कथयित्वा धनः सपुत्र आधर्षितः, अयं च चिलातीपुत्रः , सहस्राराख्याष्टमदेवलोके समुत्पन्न इति चूर्णिणकारः। प्रत्याख्यानद्वारे 'राया भोगलोलो' इत्यादि (३४८-९) स हि राजा भोगलोलुपतया अज्ञानादिदमचिन्तयत्-यदि अक्षतो मम पुत्रो भविष्यति तर्हि बलान्मामपहस्य राज्यं गृहीष्यति ततो मम भोगा न भविष्यन्तीत्यवधार्य जातमात्रानपि पुत्रान् करचरणादीनवयवाँश्छित्त्वा राज्यायोग्यान 10 करोति । 'कलाउ'त्ति (३४८-१०) सौवणिकः पुष्पकारो नाम श्रेष्ठी तस्मिन्नेव नगरे परिवसति स्म, 'अमच्चं पउँमावई'त्यादि (अमच्चो य एगंते पउमावईय भण्णइ-वृ० ३४८-११), देव्याऽमात्योऽभिहित:-कथमप्येकं मत्पुत्रं राज्ञा व्यङ्ग्यमानं रक्ष ततो यथा भिक्षाभाजनं-स्थाल्यादि भिक्षाया आधारो भवत्येवं मम पुत्रो रक्षित आवयोराधारो भविष्यतीत्येतद् रहस्यगतं रक्षामि इति । अज्झवसाणं सम्मत्तं । 15 ॥ इति म. हेमचन्द्रसूरिकृतटीप्पणकस्य तृतीयो विभागः समाप्तः ॥

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410