________________
પરિશિષ્ટ-૧ ( ૩૬૯ - गृहमानुषाण्यभिहितानि-अस्मै साधवे भिक्षां प्रयच्छत, तैश्च कुतश्चित्कारणान्न तस्यैकेनैव वचनेन भिक्षा साधवे दत्ता, ततश्चासौ सुवर्णकार: स्वयमेवोत्थाय भिक्षादानार्थं गृहमध्येऽतिगतः-प्रविष्टः । 'पहाणो दंडो'इत्यादि (३३८-१२), स दत्तः प्रधानो दण्ड:-सामन्तोऽभूत्, कुलपुत्रकशब्देनेहाम्नायायातशेषसामन्तामत्यादयोऽभिधीयन्ते, ततश्चासौ तान् भेदयित्वा अग्रेतनराजानं निष्कास्य स्वयं राजा समभूत् ॥ सम्यग्वाद: समाप्तः ॥ 'नामगं साहित्ते' त्यादि (३४२-६), सोऽहं 5 चिलातीपुत्रो यद्यस्ति भवतां शक्तिस्तहि रक्षणीयं सुसुमादिवस्तुजातमित्येवं स्वनाम कथयित्वा धनः सपुत्र आधर्षितः, अयं च चिलातीपुत्रः , सहस्राराख्याष्टमदेवलोके समुत्पन्न इति चूर्णिणकारः। प्रत्याख्यानद्वारे 'राया भोगलोलो' इत्यादि (३४८-९) स हि राजा भोगलोलुपतया अज्ञानादिदमचिन्तयत्-यदि अक्षतो मम पुत्रो भविष्यति तर्हि बलान्मामपहस्य राज्यं गृहीष्यति ततो मम भोगा न भविष्यन्तीत्यवधार्य जातमात्रानपि पुत्रान् करचरणादीनवयवाँश्छित्त्वा राज्यायोग्यान 10 करोति । 'कलाउ'त्ति (३४८-१०) सौवणिकः पुष्पकारो नाम श्रेष्ठी तस्मिन्नेव नगरे परिवसति स्म, 'अमच्चं पउँमावई'त्यादि (अमच्चो य एगंते पउमावईय भण्णइ-वृ० ३४८-११), देव्याऽमात्योऽभिहित:-कथमप्येकं मत्पुत्रं राज्ञा व्यङ्ग्यमानं रक्ष ततो यथा भिक्षाभाजनं-स्थाल्यादि भिक्षाया आधारो भवत्येवं मम पुत्रो रक्षित आवयोराधारो भविष्यतीत्येतद् रहस्यगतं रक्षामि इति । अज्झवसाणं सम्मत्तं ।
15
॥ इति म. हेमचन्द्रसूरिकृतटीप्पणकस्य तृतीयो विभागः समाप्तः ॥